संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| अष्टमोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - अष्टमोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव अष्टमोऽध्यायः Translation - भाषांतर ऋभुः - वक्ष्ये प्रपञ्चशून्यत्वं शशश्रृङ्गेण संमितम् । दुर्लभं सर्वलोकेषु सावधानमनाः श्रृणु ॥१॥इदं प्रपञ्च यत किञ्चिद्यः श्रृणोति च पश्यति । दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत ॥२॥भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकारश्च तेजश्च सर्वं शशविषाणवत ॥३॥नाश जन्म च सत्यं च लोकं भुवनमण्डलम् । पुण्यं पाप जयो मोहः सर्वं शशविषाणवत ॥४॥कामक्रोधौ लोभमोहौ मदमोहौ रतिधृतिः । गुरुशिष्योपदेशादि सर्वं शशविषाणवत ॥५॥अहं त्वं जगदित्यादि आदिरन्तिममध्यमम् । भृतं भव्यं वर्तमानं सर्वं शशविषाणवत ॥६॥स्थूलदेहं सूक्ष्मदेहं कारणं कार्यमप्ययम् । दृश्यं च दर्शनं किञ्चित सर्वं शशविषाणवत ॥७॥भोक्ता भोज्यं भोगरूपं लक्ष्यलक्षणमद्वयम् । शमो विचारः सन्तोषः सर्वं शशविषाणवत ॥८॥यम च नियमं चैव प्राणायामादिभाषणम् । गमनं चलनं चित्तं सर्वं शशविषाणवत ॥९॥श्रोत्रं नेत्र गात्रगोत्रं गुह्यं जाड्यं हरिः शिवः । आदिरन्तो मुमुक्षा च सर्वं शशविषाणवत ॥१०॥ज्ञानेन्द्रियं च तन्मात्रं कर्मेन्द्रियगणं च यत । जाग्रत्स्वप्नसुषुप्त्यादि सर्वं शशविषाणवत ॥११॥चतुर्विंशतितत्वं च साधनानां चतुष्टयम् । सजातीयं विजातीयं सर्वं शशविषाणवत ॥१२॥सर्वलोकं सर्वभूतं सर्वधम्र सतत्वकम् । सर्वाविद्या सर्वविद्या सर्वं शशविषाणवत ॥१३॥सर्ववर्णः सर्वजातिः सर्वक्षेत्रं च तीर्थकम् । सर्ववेदं सर्वशास्त्रं सर्वं शशविषाणवत ॥१४॥सर्वबन्ध सर्वमोक्ष सर्वविज्ञानमीश्वरः । सर्वकालं सर्वबोध सर्वं शशविषाणवत ॥१५॥सर्वास्तित्वं सर्वकम्र सर्वसङ्ग्युतिर्महान् । सर्वद्वैतमसद्भावं सर्वं शशविषाणवत ॥१६॥सर्ववेदान्तसिद्धान्तः सर्वशास्त्रार्थनिर्णयः । सर्वजीवत्वसद्भावं सर्वं शशविषाणवत ॥१७॥यद्यत् संवेद्यते किञ्चित् यद्यज्जगति दृश्यते । यद्यच्छृणोति गुरुणा सर्वं शशविषाणवत ॥१८॥यद्यद्ध्यायति चित्ते च यद्यत् संकल्प्यते क्कचित् । बुद्ध्या निश्चीयते यच्च सर्वं शशविषाणवत ॥१९॥यद्यद् वाचा व्याकरोति यद्वाचा चार्थभाषणम् । यद्यत् सर्वेन्द्रियैर्भाव्यं सर्वं शशविषाणवत ॥२०॥यद्यत् सन्त्यज्यते वस्तु यच्छृणोति च पश्यति । स्वकीयमन्यदीयं च सर्वं शशविषाणवत ॥२१॥सत्यत्वेन च यद्भाति वस्तुत्वेन रसेन च । यद्यत् सङ्कल्प्यते चित्ते सर्वं शशविषाणवत ॥२२॥यद्यदात्मेति निर्णीतं यद्यन्नित्यमितं वचः । यद्यद्विचार्यते चित्ते सर्वं शशविषाणवत ॥२३॥शिवः संहरते नित्यं विष्णुः पाति जगत्त्रयम् ।स्रष्टा सृजति लोकान् वै सर्वं शशविषाणवत् ॥२४॥जीव इत्यपि यद्यस्ति बहषयत्यपि भाषणम् । संसार इति या वार्ता सर्वं शशविषाणवत् ॥२५॥यद्यदस्ति पुराणेषु यद्यद्वेदेषु निर्णयः । सर्वोपनिषदां भावं सर्वं शशविषाणवत ॥२६॥शशश्रृङ्गवदेवेदमुक्तं प्रकरणं तव । यः श्रृणोति रहस्यं वै ब्रह्मैव भवति स्वयम् ॥२७॥भूयः श्रृणु निदाघ त्वयं सर्वं ब्रह्मेति निश्चयम् । सुदुर्लभमिदं नॄणां देवानामपि सत्तम ॥२८॥इदनित्याव यद्रूपमहमित्यापि यत्पुनः । दृश्यते यत्तदेवेदं सर्वं ब्रह्मेति केवलम् ॥२९॥दहोऽयनिति सङ्कल्पस्तदेव भयमुच्यते । कालत्रयेपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥३०॥दहेऽहमिति संकल्पस्तदन्तःकरणं स्मृतम् । कालत्रयेपि ............ ............. ॥३१॥दहेऽहमिति संकल्पः स हि संसार उच्यते । कालत्रयेपि ............ ............. ॥३२॥दहोऽहमिति सङ्कल्पस्तद्बन्धनमिहोच्यते । कालत्रयेपि ............ ............. ॥३३॥देहोऽहमिति हदू ज्ञानं तदेव नरकं स्मृतम् । कालत्रयेपि ............ ............. ॥३४॥देहोऽहमिति सङ्कल्पो जगत् सर्वमितीर्यते । कालत्रयेपि ............ ............. ॥३५॥देहोऽहमिति संकल्पो हृदयग्रन्थिरीरितः । कालत्रयेपि ............ ............. ॥३६॥देहत्रयेऽपि भावं यत् (?) तद्देहज्ञानमुच्यते । कालत्रयेपि ............ ............. ॥३७॥देहोऽहमिति यद्भावं सदसद्भामेव च । कालत्रयेपि ............ ............. ॥३८॥देहोऽहमिति सङ्कल्पं तत्प्रपञ्चमिहोच्यते । कालत्रयेपि ............ ............. ॥३९॥देहोऽहमिति सङ्कल्पस्तदेवाज्ञानमुच्यते । कालत्रयेपि ............ ............. ॥४०॥देहोऽहमिति या बुद्धिर्मलिना वासनोच्यते । कालत्रयेपि ............ ............. ॥४१॥देहोऽहमिति या बुद्धिः सत्यं जीवः स एव सः । कालत्रयेपि ............ ............. ॥४२॥देहोऽहमिति सङ्कल्पो महानरकमीरितम् । कालत्रयेपि ............ ............. ॥४३॥देहोऽहमिति या बुद्धिर्मन एवेति निश्चितम् । कालत्रयेपि ............ ............. ॥४४॥देहोऽहमिति या बुद्धिः परिच्छिन्नमितीर्यते । कालत्रयेपि ............ ............. ॥४५॥देहोऽहमिति यत् ज्ञानं अर्व शोक इतीरितम् । कालत्रयेपि ............ ............. ॥४६॥देहोऽहमिति यद् ज्ञानं संस्पर्शमिति कथ्यते । कालत्रयेपि ............ ............. ॥४७॥देहोऽहमिति या बुद्धिस्तदेव मरणं स्मृतम् । कालत्रयेपि ............ ............. ॥४८॥देहोऽहमिति या बुद्धिस्तदेवाशोमनं स्मृतम् । कालत्रयेपि ............ ............. ॥४९॥देहोऽहमिति या बुद्धिर्महापापमिति स्मृतम् । कालत्रयेपि ............ ............. ॥५०॥देहोऽहमिति या बुद्धिः तुष्टा सैव हि चोच्यते (?) । कालत्रयेपि ............ ............. ॥५१॥देहोऽहमिति सङ्कल्पः सर्वदोषमिति स्मृतम् । कालत्रयेपि ............ ............. ॥५२॥देहोऽहमिति सङ्कल्पस्तदेव मलमुच्यते । कालत्रयेपि ............ ............. ॥५३॥देहोऽहमिति सङ्क्लपो महत्संशयमुच्यते । कालत्रयेपि ............ ............. ॥५४॥यत्किञ्चित्स्मरणं दुःखं यत्किञ्चित् स्मरणं जगत् । यत्किञ्चित्स्मरणं कामो यत्किञ्चित्स्मरणं मलम् ॥५५॥यत्किञ्चित्स्मरणं पापं यत्किञ्चित्स्मरणं मनः । यत्किञ्चिदपि सङ्कल्पं महारोगेति कथ्यते ॥५६॥यत्किञ्चिदपि सङ्कल्पं महामोहेति कथ्यते । यत्किञ्चिदपि सङ्कल्पं तापत्रयमुदाहृतम् ॥५७॥यत्किञ्चिदपि सङक्ल्पं कामक्रोधं च कथ्यते । यत्किञ्चिदपि सङ्कल्पं संबन्धो नेतरत् क्कचित् ॥५८॥यत्किञ्चिदपि सङक्ल्पं सर्वदुःखेति नेतरत् । यत्किञ्चिदपि सङक्ल्पं जगत्सत्यत्वविभ्रमम् ॥५९॥यत्किञ्चिदपि सङक्ल्पं महादोषं च नेतरत् । यत्किञ्चिदपि सङक्ल्पं कालत्रयमुदीरितम् ॥६०॥यत्किञ्चिदपि सङक्ल्पं नानारूपमुदीरितम् । यत्र यत्र च संकल्पं तत्र तत्र महज्जगत् ॥६१॥यत्र यत्र च संकल्पं तदेवासत्यमेव हि । यत्किञ्चिदपि सङक्ल्पं तज्जगन्नास्ति संशयः ॥६२॥यत्किञ्चिदपि सङक्ल्पं तत्सर्वं नेति निश्चयः । मन एव जगत् सर्वं मन एव महारिपुः ॥६३॥मन एव हि संसारो मन एव जगत्त्रयम् । मन एव महादुःखं मन एव जरादिकम् ॥६४॥मन एव हि कालं च मन एव मलं सदा । मन एव हि सङ्कल्पो मन एव हि जीवकः ॥६५॥मन एवाशुचिर्नित्यं मन एवेन्द्रजालकम् । मन एव सदा मिथ्या मनो वन्ध्याकुमारवत् ॥६६॥मन एव सदा नास्ति मन एव जडं सदा । मन एव हि चित्तं च मनोऽहंकारमेव च ॥६७॥मन एव महद्बन्धं मनोऽन्तः करणं क्कचित् । मन एव हि भूमिश्च मन एव हि तोयकम् ॥६८॥मन एव हि तेजश्च मन एव मरुन्महान् । मन एव हि चाकाशो मन एव हि शब्दकः ॥६९॥मन एव स्पर्शरूपं मन एव हि रूपकम् । मन एव रसाकारं मनो गन्धः प्रकीर्तितः ॥७०॥अन्नकोशं मनोरूपं प्राणकोशं मनोमयम् । मनोकोशं मनोरूपं विज्ञानं च मनोमयः ॥७१॥मन एवानन्दकोशं मनो जाग्रदवस्थितम् । मन एव हि स्वप्नं च मन एव सुषुप्तिकम् ॥७२॥मन एव हि देवादि मन एव यमादयः । मन एव हि यत्किञ्चिन्मन एव मनोमयः ॥७३॥ मनोमयमिदं विश्वं मनोमयमिदं पुरम् । मनोमयमिदं भूतं मनोमयमिदं द्वयम् ॥७४॥मनोमयमियं जातिर्मनोमयमयं गुणः । मनोमयमिदं दृश्यं मनोमयमिदं जडम् ॥७५॥मनोमयमिदं यद्यन्मनो जीव इति स्थितम् । संकल्पमात्रमज्ञानं भेदः सङ्कल्प एव हि ॥७६॥संकल्पमात्रं विज्ञानं द्वन्द्वं सङ्कल्प एव हि । सङ्कल्पमात्रकालं च देशं संकल्पमेव हि ॥७७॥सङ्कल्पमारो देहश्च प्राणः सङ्कल्पमात्रकः । सङ्कल्पमात्रं मननं सङ्कल्पं श्रवणं सदा ॥७८॥सङ्कल्पमात्रं नरकं सङ्कल्पं स्वर्गे इत्यपि । सङ्कल्पमेव चिन्मात्रं सङ्कल्पं चात्मविन्तनम् ॥७९॥सङ्कल्पं वा मनाक्तत्त्वं ब्रह्मसङ्कल्पमेव हि । संकल्प एव यत्किञ्चित् तन्नास्त्येव कदाचन ॥८०॥नास्ति नास्त्येव सङ्कल्पं नास्ति नास्ति जगत्त्रयम् ।नास्ति नास्ति गुरुर्नास्ति नास्ति शिष्योऽपि वस्तुतः ॥८१॥नास्ति नास्ति शरीरं च नास्ति नास्ति मनः क्कचित् ।नास्ति नास्त्येव किञ्चिदा नास्ति नास्त्यखिलं जगत् ॥८२॥नास्ति नास्त्येव भूतं वा सर्वं नास्ति न संशयः ।“ सर्वं नास्ति ” प्रकरणं मयोक्तं च निदाघ ते ।यः श्रृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥८३॥वेदान्तैरपि चन्द्रशेखरपदाम्भोजानुरागादरा - दारोदारकुमारदारनिकरैः प्राणैर्वनैरुज्झितः । त्यागाद्यो मनसा सकृत् शिवपदध्यानेन यत्प्राप्यते तन्नैवाप्यतिशब्दकर्कनिवहैः शान्तं मनस्तद्भवेत् ॥८४॥अशेषदृश्योज्झितदृङ्मयानां सङ्कल्पवर्जेन सदास्थितानाम् ।न जाग्रतः स्वप्नसुषुप्तिभावो न जीवनं नो मरणं च चित्रम् ॥८५॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे प्रपञ्चशून्यत्व - सर्वनास्तित्वनिरूपणं नाम अष्टमोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP