उत्तरभागः - अध्यायः ५०
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
वसुरुवाच॥
अतः परं प्रवक्ष्यामि यात्राकालं तु मोहिनि॥
देवाद्यैस्तु कृता या तु यथायोग्यफलाप्तिदा ॥१॥
चैत्रमासे तु दिविजैर्यात्रेयं विहिता पुरा॥
तत्रस्थैः कामकुंडे तु स्नानपूजनतत्परैः ॥२॥
ज्येष्ठमासे तु वै सिद्धैः कृता यात्रा शुभानने॥
रुद्रावासस्य कुंडे तु स्नानपूजापरायणैः ॥३॥
आषाढे चापि गंधर्वैर्यात्रेयं विहिता शुभैः॥
प्रियादेव्यास्तु कुंडे वै स्नानपूजनकारकैः ॥४॥
विद्याधरैस्तु यात्रेयं श्रावणे मासि मोहिनि॥
लक्ष्मीकुंडस्थितैश्चीर्णा स्नानार्चनपरायणैः ॥५॥
मार्कंडेयह्रदस्थैस्तु स्नानपूजनतत्परैः॥
कृता यक्षैस्तु यात्रेयमिषमासे वरानने ॥६॥
पन्नगैश्चैव यात्रेयं मार्गमासे तु मोहिनि॥
कोटितीर्थस्थितैश्चीर्णा स्नानपूजाविधायकैः ॥७॥
कपालमोचनस्थैस्तु गुह्यकैः शुभलोचने॥
पौषे मासि कृता यात्रा स्नानध्यानार्चनान्वितैः ॥८॥
कालेश्वराख्यकुंडस्थैः फाल्गुने मासि शोभने॥
पिशाचैस्तु कृता यात्रा स्नानपूजादितत्परैः ॥९॥
फाल्गुने तु शुभे मासे सिते या तु चतुर्दशी॥
तेन सा प्रोच्यते देवि पिशाची नाम विश्रुता ॥१०॥
अथ ते संप्रवक्ष्यामि यात्राकृत्यं शुभानने॥
कृतेन येन मनुजो यात्राफलमवाप्नुयात् ॥११॥
उदकुंभास्तु दातव्या मिष्टान्नेन समन्विताः॥
फलपुष्पसमोपेता वस्त्रैः संछादिताः शुभाः ॥१२॥
चैत्रस्य शुक्लपक्षे तु तृतीया या महाफला॥
तत्र गौरी तु द्रष्टव्या भक्तिभावेन मानवैः ॥१३॥
स्नानं कृत्वा तु गंतव्यं गोप्रेक्षे तु वरानने॥
स्वर्द्वारि कालिकादेवी अर्चितव्या प्रयत्नतः ॥१४॥
अन्या चापि परा प्रोक्ता संवर्ता ललिता शुभा॥
द्रष्टव्या चैव सा भक्त्या सर्वकामफलप्रदा ॥१५॥
ततस्तु भोजयेद्विप्राञ्छिवभक्ताञ्छुचिव्रतान्॥
वासोभिर्द्दक्षिणाभिश्च पुष्कालभिर्यथार्हतः ॥१६॥
पंचगौरीः समुद्दिश्य रसान् गंधान्द्विजेऽर्पयेत्॥
उत्तमं श्रेय आप्रोति सौभाग्येन समन्वितः ॥१७॥
विनायकान्प्रवक्ष्यामि क्षेत्रावासे तु विघ्नदान्॥
यान्संपूज्य नरो देवि निर्विघ्नेन फलं लभेत् ॥१८॥
ढुण्ढिं तु प्रथमं दृष्ट्वा तथा किलविनायकम्॥
देव्या विनायकं चैव गोप्रेक्षं हस्तिहस्तिनम् ॥१९॥
विनायकं तकथैवान्यं सिंदूर्यं नाम विश्रुतन्॥
चतुर्थ्यां देवि द्रंष्टव्या एवं चैव विनायकाः ॥२०॥
लड्डुकाश्च प्रदातव्या एतानुद्दिश्य वाडवे॥
एतेन चैव कृत्येन सिद्धिमाञ्जायते नरः ॥२१॥
अतः परं प्रवक्ष्यामि चंडिकाः क्षेत्ररक्षिकाः॥
दक्षिणे रक्षते दुर्गा नैर्ऋते चांतरेश्वरी ॥२२॥
अंगारेशी पश्चिमे तु वायव्ये भद्रकालिका॥
उत्तरे भीमचंडा च महामत्ता तथैशके ॥२३॥
ऊर्द्ध्वकेशीसमायुक्ताशांकरी पूर्वतः स्मृता॥
अधः केशी तथाग्नेय्यां चित्रघंटा च मध्यतः ॥२४॥
एतास्तु चंडिकादेवीर्यो वै पश्यति मानवः॥
तस्य तुष्टाश्च ताः सर्वाः क्षेत्रं रक्षति तत्पराः ॥२५॥
विघ्नं कुर्वंति सततं पापिनां देवि सर्वदा॥
तस्माद्देव्यः सदा पूज्या रक्षार्थे सविनायकाः ॥२६॥
यदीच्छेत्परमां सिद्धिं संततिं विभवं सुखम्॥
ततो भक्त्या गंधपुष्पनैवेद्यादीन्समर्प्पयेत् ॥२७॥
अन्यच्च ते प्रवक्ष्यामि तस्मिन्स्थाने सुलोचने॥
तिस्रो नद्यस्तु तत्रस्था वहंति च शुभोदकाः ॥२८॥
तासां दर्शनमात्रेण ब्रह्महत्या निवर्तिते॥
एका तु तत्र त्रिस्रोता तथा मंदाकिनी परा ॥२९॥
मत्स्योदरी तृतीया च एतास्तिस्रतु पुण्यदाः॥
मंदाकिनी तत्र पुण्या मध्यमेश्वरसंस्थिता ॥३०॥
संस्थिता त्रिस्रोतिका च अविमुक्तेति पुण्यदा॥
मत्स्योदरी तु ॐकारे पुण्यदा सर्वदैव हि ॥३१॥
तस्मिन्स्थाने यदा गंगा आगमिष्यति मोहिनी॥
तदा पुण्यतमः कालो देवानामपि दुर्लभः ॥३२॥
वरणासिक्तसलिले जाह्नवीजलविप्लुते॥
तत्र नादेश्वरे पुण्ये स्नातः किमनुशोचति ॥३३॥
मत्स्योदरीसमायुक्ता यदा गंगा बभूव ह॥
तस्मिन्काले शिवः स्नानात्कपालं मुक्तवाञ्छुभे ॥३४॥
कपालमोचनं नाम तत्रैव सुमहत्सरः॥
पावनं सर्वसत्त्वानां पुण्यदं परिकीर्तितम् ॥३५॥
मत्स्योदरीजले गंगा ॐकारेश्वरसन्निधौ॥
तदा तस्मिञ्जले स्नात्वा दृष्ट्वा चोंकारमीश्वरम् ॥३६॥
शोकं जरां मृत्युबंधं ततो न स्पृशते नरः॥
तस्मिन्स्रातः शिवः साक्षादोंकारेश्वरसंज्ञितः ॥३७॥
एतद्रहस्यमाख्यातं तव स्नेहाद्वरानने॥
अकारं चाप्युकरं च मकारं च प्रकीर्तितम् ॥३८॥
अकारस्तत्र विज्ञेयो विष्णुलोकगतिप्रदः॥
तस्य दक्षिणपार्श्वे तु उकारः परिकीर्तितः ॥३९॥
तत्र सिद्धिं परां प्राप्तो देवाचार्यो बृहस्पतिः॥
ॐकारं तत्र विज्ञेयं ब्रह्मणः पदमव्ययम् ॥४०॥
तयोस्तथोत्तरे भागे मकारं विष्णुसंज्ञितम्॥
तस्मिँल्लिंगे तु संसिद्धः कपिलर्षिर्महामुनिः ॥४१॥
वाराणसीमभ्युपेत्य पंचायतनमुत्तमम्॥
आराध्यमानो देवशं भीष्मस्तत्र स्थितोऽभवत् ॥४२॥
तस्मिन्स्थाने तु सुभगे स्वयमाविरभूच्छिवः॥
गोप्रेक्षक इति ख्यातः संस्तुतः सर्वदैवतैः ॥४३॥
गोप्रेक्षेश्वरमागत्य दृष्ट्वाभ्यर्च्य च मानवः॥
न दुर्गतिमवाप्नोति कल्मषैश्च विमुच्यते ॥४४॥
वनस्था दह्यमानास्तु सुरभ्यो दाववह्निना॥
म्रमंत्योऽस्मिन्ह्रदेऽभ्येत्य शांतास्तोयं पपुस्तदा ॥४५॥
कपिला ह्रद इत्येवं ततः प्रभृति कथ्यते॥
तत्रापि स शिवः साक्षाद्वषध्वज इति स्मृतः ॥४६॥
सान्निध्यं कृतवान्देवो दृश्यमानः सदा स्थितः॥
कपिलाह्रदतीर्थेऽस्मिन्स्नात्वा संयतमानसः ॥४७॥
वृषध्वजं शिवं दृष्ट्वा सर्वयज्ञफलं लभेत्॥
स्वर्लोकतां मृतस्तत्र पूजयित्वा शिवो भवेत् ॥४८॥
लभते देहभेदेन गणत्वं चातिदुर्लभम्॥
अस्मिन्नेव प्रदेशे तु गावो वै ब्रह्मणा स्वयम् ॥४९॥
शांत्यर्थं सर्वलोकानां सर्वान्पावयितुं ध्रुवम्॥
भद्रदोहं सरस्तत्र पुण्यं पापहरं शुभम् ॥५०॥
तस्मिन्स्थाने नरः स्नातः साक्षाद्वागीश्वरो भवेत्॥
शिवस्तत्र समानीय स्थापितः परमेष्ठिना ॥५१॥
ब्रह्मणश्चापि संगृह्य विष्णुना स्थापितः पुनः॥
हिरण्यगर्भ इत्येवं नाम्ना तत्र स्थितः शिवः ॥५२॥
पुनश्चापि ततो ब्रह्मा स्वर्लोकेश्वरसंज्ञकम्॥
स्थापयामास वै लिंगं स्वर्लीलं कारणे क्वचित् ॥५३॥
दृष्ट्वा वै तं तु देवेशं शिवलोके महीयते॥
प्राणानिह पुनस्त्यक्त्वा न पुनर्जायते क्वचित् ॥५४॥
अनंता सा गतिस्तस्य योगिनामेव या स्मृता॥
अस्मिन्नेव महीदेशे दैत्यो दैवतकंटकः ॥५५॥
व्याघ्ररूपं समास्थाय निहतो दर्पितो बली॥
व्याघ्रेश्वर इति ख्यातो नित्यं तत्र समास्थितः ॥५६॥
न पुनर्दुर्गतिं याति दृष्ट्वैनममरेश्वरम्॥
हिमवत्स्थापितं लिंगं शैलेश्वरमिति स्थितम् ॥५७॥
दृष्ट्वैतन्मनुजो भद्रे न दुर्गतिमवाप्नुयात्॥
उत्पलो विदलश्चैव यौ दैत्यौ ब्रह्मणो वरात् ॥५८॥
स्त्रीलौल्याद्दर्पितौ दृष्ट्वा पार्वत्या निहतावुभौ॥
सांरंगं कंतुकेनात्र तस्येदं चिह्नमास्थितम् ॥५९॥
दृष्ट्वैतन्मनुजो लिंगं ज्येष्ठस्थानं समाश्रितम्॥
न शोचति पुनर्भद्रे सिद्धो जन्मनि जन्मनि ॥६०॥
समंतात्तस्य देवैस्तु लिंगानि स्थापितानि च॥
दृष्ट्वा च तानि वै मर्त्यो देहभेदे गणो भवेत् ॥६१॥
नदी वारायणसी चेयं पुण्या पापप्रणाशिनी॥
क्षेत्रमेतदलंकृत्य जाह्नव्या सह संगता ॥६२॥
स्थापितं संगमे चास्मिन्ब्रह्मणा लिंगमुत्तमम्॥
संगमेश्वरमित्येव ख्यातं जगति दृश्यताम् ॥६३॥
संगमे देवनद्योश्च यः स्नात्वा मनुजः शुभे॥
अर्चयेत्संगमेशानं तस्य जन्मभयं कुतः ॥६४॥
स्थापितं लिंगमेतच्च शुक्रेण भृगुसूनुना॥
नाम्ना शुक्रेश्वरं भद्रे सर्वसिद्धामरार्चितम् ॥६५॥
दृष्ट्वैतन्मानवः सद्यो मुक्तः स्यात्सर्वकिल्बिषैः॥
मृतश्च न पुनर्जन्म संसारे लभते नरः ॥६६॥
जंबुकोऽत्र हतो दैत्यो महादेवेन मोहिनि॥
तलिंगं तु नरो दृष्ट्वा सर्वान्कामानवाप्नुयात् ॥६७॥
देवैः शक्रपुरोगैश्च एतानि स्थापितानि हि॥
जानीहि पुण्यलिंगानि सर्वकामप्रदानि च ॥६८॥
एवमेतानि सर्वाणि शिवलिंगानि मोहिनि॥
कथितानि मया तुभ्यं क्षेत्रेऽस्मिन्नविमुक्तके ॥६९॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे काशीमाहात्म्यं नाम पञ्चाशत्तमोऽध्यायः ॥५०॥
N/A
References : N/A
Last Updated : May 09, 2012
TOP