उत्तरभागः - अध्यायः १८
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
राजोवाच॥
नाधिकारो मया मीरु कृतो नृपपरिग्रहे॥
श्रमातुरस्य निद्रा मे प्रवृत्ता मुखदायिनी ॥१॥
धर्मांगदं समाभाष्य मोहिनीं नय मंदिरम्॥
पूजयस्व यथान्या ममेषा पत्नी प्रिया मम ॥२॥
निजं कमलपत्राक्ष सर्वरत्नविभूषितम्॥
निर्वातवातसंयुक्तं सर्वर्तुसुखदायकम् ॥३॥
एवमादिश्य तनयमहं निद्रामुपागतः॥
शयनं प्राप्य कष्टात्ते अभाग्यो हि धनं यथा ॥४॥
विबुद्धमात्रः सहसा त्वत्समीपमुपागतः॥
यद्व्रवीषि वचो देवि तत्करोमि न संशयः ॥५॥
मोहिन्युवाच॥
परिसांत्वय राजेंद्र इमान्दारान्सुदुःखितान्॥
ममोद्वाहेन निर्विण्णान्निराशान्कामभोगयोः ॥६॥
ज्येष्ठानां रूपयुक्तानां कलत्राणां विशांपते॥
मूर्घ्नि कीलं कनिष्ठाख्यं यो हि राजन्निखानयेत् ॥७॥
न सद्गतिर्भवेत्तस्य न त सा विंदते परम्॥
पतिव्रताश्रुदग्धायाः का शांतिर्मे भविष्यति ॥८॥
जनितारं हि मे भस्म कुर्य्युर्देव्यः पतिव्रताः॥
किं पुनः प्राकृतं भूप त्वादृशीं तथा ॥९॥
संध्यावलीसमा नारी त्रैलोक्ये नास्ति भूमिप॥
तव स्नेहनिबद्धांगी संभोजयति षड्रसैः ॥१०॥
प्रियाणि चाटुवाक्यानि वदती तव गौववात्॥
एवंविधा हि शतशो नार्यः संति गृहे तव ॥११॥
यासां न पादरजसा तुल्याहं भूपते क्वचित्॥
मोहिनी वचनं श्रुत्वा व्रीडितो ह्यभवन्नृपः ॥१२॥
सपुत्रायाः समीपे तु ज्येष्ठाया नृपतिस्तदा॥
इंगितज्ञः सुतो ज्ञात्वा दशावस्थागतं नृपम् ॥१३॥
पितरं कामसंतप्तं मोहिन्यर्थे विमोहितम्॥
मातृः सर्वाः समाहूय संध्यावलिपुरोगमाः ॥१४॥
कृतांजलिपुटो भूत्वा एवमाह प्रिय वचः॥
विमोहिनी मे जननी नवोढा ब्राह्मणः सुता ॥१५॥
सा च प्रार्थयते देव्यो राजानं रहसिस्थितम्॥
आत्मना सह खेलार्थं तन्मोदध्वं सुहर्षिताः ॥१६॥
मातर ऊचुः॥
कोऽनुमोदयते पुत्र सर्पभक्षणमात्मनः॥
को हि दीपयते वह्निं स्वदेहे देहिनां वर ॥१७॥
को भक्षयेद्विषं घोरं कश्छिंद्यादात्मनः शिरः॥
कस्तरेत्सागरं बद्ध्वा ग्रीवायां दारुणां शिलाम् ॥१८॥
को गच्छेद्द्वीपिवदनं कः केशान्सुहरेर्हरेत्॥
को निषीदति धारायां खङ्गस्या काशभासिनः ॥१९॥
कानुमोदयते भर्त्रा सपत्न्याः क्रीडनं किल॥
सर्वस्यापि प्रदानेन नैतन्मनसि वर्तते ॥२०॥
वरं हि छेदनं मूर्ध्नस्तत्क्षणात्तु वरासिना॥
का दृष्ट्या दयितं कांतं निरीक्षेदन्ययाहृतम् ॥२१॥
का सा सीमंतिनी लोके भवेदेतादृशी क्वचित्॥
आत्मप्राणसमं कांतमन्यस्त्रीकुचपीडनम् ॥२२॥
संश्रुत्य सहते या तु किं पुनः स्वेन चक्षुषा॥
सर्वेषामेव दुःखानां दुःखमेतदनन्तकम् ॥२३॥
यद्भर्तान्यांगनासंक्तो दृश्यते स्वेन चक्षुषा॥
वरं सर्वा मृताः पुत्र युगपन्मातरस्तव ॥२४॥
न तु मोहिनिसंयुक्तो दृश्योऽयं नृपतिः पतिः॥
धर्मांगद उवाच॥
यदि मे न पितुः सौख्यं करिष्यथ शुभाननाः ॥२५॥
विषमालोड्य पास्यामि युष्मत्सौख्यं मृते मयि॥
कर्मणा मनसा वाचा या पितुर्दुःखमाचरेत् ॥२६॥
सा मे शत्रुर्वधार्हास्ति यदि संध्यावली भवेत्॥
सर्वासां साधिका देवी मोहिनी जनकप्रिया ॥२७॥
क्रीडार्थमागता बाला मन्दराचलमन्दिरात्॥
तत्पुत्रवचनं श्रुत्वा वेपमाना हि मातरः ॥२८॥
ऊचुः सगद्गदां वाचं हितार्थं तनयस्य हि॥
अवश्यं तव वाक्यं हि कर्तव्यं न्यायसंयुतम् ॥२९॥
किं तु दानप्रदो भूत्वा मोहिनीं यातु ते पिता॥
यो भार्यामुद्वहेद्भर्ता द्वितीयामपरामपि ॥३०॥
ज्येष्ठायै द्विगुणं तस्या दद्यच्चैवान्यथा ऋणी॥
अनुज्ञाप्य यदा भर्ता ज्येष्ठामन्यां समुद्वहेत् ॥३१॥
तदा ज्येष्ठाभिलषितं देयमाहुः पुराविदः॥
ज्येष्ठया सहितः कुर्यादिष्टापूर्तं नरोत्तमः ॥३२॥
एष धर्मोऽन्यथाऽन्यायो जायते धर्मसंक्षयः॥
श्रुत्वा तु मातृवचनं प्रहष्टेनान्तरात्मनो ॥३३॥
एकैकस्यै ददौ साग्रां कोटिं कोटिं सुतस्तदा॥
सहस्रं नगराणां च ग्रामाणां प्रददौ तथा ॥३४॥
चतुरश्वतरीभिश्चपृथग्युक्ता नृपात्मजः॥
एकैकस्य ददावष्टौ रथान्कांचनमालिनः ॥३५॥
वाससामयुतं प्रादाद्येषां मूल्यं शताधिकम्॥
शुद्धस्य मेरुजातस्य अक्षयस्य नुपात्मजः ॥३६॥
कांचनस्य ददौ लक्षमेकैकं प्रतिमातरम्॥
दासानां च शतं साग्रं दासीनां च नृपात्मजः ॥३७॥
धेनूनां घटदोग्ध्रीणामेकैकस्यै तथायुतम्॥
युगंधराणां भद्राणां शतानि दश वै पृथक् ॥३८॥
दशप्रकारं नृपते धान्यं च प्रददौ सुतः॥
वाटीनां तु सहस्राणां शतं प्रादाद्धसन्निव ॥३९॥
कुंभायुतं सर्पिषस्तु तैलस्य च पृथग्ददौ॥
अजाविकमसंख्यातमेकैकस्यै न्यवेदयत् ॥४०॥
सहस्रेण सहस्रेण सुवर्णस्य व्यभूषयत् ।
आखंडलास्त्रयुक्तस्य भूषणस्य सुभक्तिमान् ॥४१॥
धात्रीप्रमाणैर्हरैश्च मौक्तिकैर्दीप्तिसंयुतैः॥
प्रददौ संहतान्कृत्वा वलयान्पंच सप्त च ॥४२॥
पंचाशच्च शते द्वे तु भौक्तिकानि महीपते॥
संध्यावल्यां स्थितानीह शीतांशुप्रतिमानि च ॥४३॥
एकैकस्यै ददौ पुत्रो हारयुग्मं मनोहरम्॥
कुंकुमं चंदनं भूरि कर्पूरं प्रस्थसंख्यया ॥४४॥
कस्तूरिकां तथा ताभ्यो भूयसीं प्रददौ सुतः ।
मातॄणामविशेषेण पितुः सुखमभीप्सयन् ॥४५॥
भाजनानि विचित्राणि जलपात्राण्यनेकशः॥
घृतक्षीरस्य पात्राणि पेयस्य विविधस्य च ॥४६॥
चतुर्द्दशशतं प्रादात्सहस्रेण समन्वितम्॥
स्थालीनां कांचनीनां हि सकुंभानां नृपात्मजः ॥४७॥
एकैकस्यै ददौ भूप शतानि त्रीणि पंच च॥
करेणूनां सवेगानां मांसविक्रांतकंधराम् ॥४८॥
विंशतिं विंशतिं प्रादादुष्ट्रीणां च शतं शतम्॥
शिबिकानां सवेषाणां पुंसां पीवरगामिनाम् ॥४९॥
प्रददौ दश सप्ताश्वान्मातॄणां सुखयायिनः॥
एवं दत्वा बहुधनं बह्वीभ्यो नृपनंदनः ॥५०॥
धन्यो धनपतिप्रख्यश्चक्रे तासां प्रदक्षिणाः॥
कृतांजलिपुटो भूत्वा इदं वचनमब्रवीत् ॥५१॥
ममोपरोधात्प्रणतस्य मूर्ध्नापतिं समुद्दिश्य यथा भवत्यः॥
ब्रुवंतु सर्वाः पितरं ममाद्य स्वैरेण संभुंक्ष्व नरेशं मोहिनीम् ॥५२॥
न चास्मदीया भवता किलेर्ष्या स्वल्पापि कार्या मनसि प्रतीता॥
विमोहिनीं ब्रह्मसुतां सुशीलां रमस्व सौख्येन रहः शतानि ॥५३॥
तत्पुत्रवाक्यं हि निशम्य सर्वाः संहृष्टलोम्न्यो नृपनाथमूचुः॥
स्वभूदुहित्रा सुचिरं रमस्व विदेहपुत्र्येव रघुप्रवीरः ॥५४॥
न शल्यभूता कुशकेतुपुत्री त्वत्संगमाद्विद्वि न संशयोऽत्र॥
पुत्रौजसा दुःखविमुक्तभावात्समीरितं वाक्यमिदं प्रतीहि ॥५५॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मातृसन्मानं नाम अष्टादशोऽध्यायः ॥१८॥
N/A
References : N/A
Last Updated : May 09, 2012
TOP