उत्तरभागः - अध्यायः ७०
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
अथ प्रभासमाहात्म्यं प्रारभ्यते॥
मोहिन्युवाच॥
प्रभासस्य तु माहात्म्यं वद मे द्विजसत्तम॥
यच्छ्रुत्वाहं प्रसन्नात्मा धन्या स्यां त्वत्प्रसादतः ॥१॥
वसुरुवाच॥
श्रृणु देवि प्रवक्ष्यामि प्रभासाख्यं सुपुण्यदम्॥
तीर्थं पापहरं नॄणां भुक्तिमुक्तिप्रदायकम् ॥२॥
यस्मिन्नसंख्यतीर्थानि विद्यंते विधिनंदिनि॥
सोमेशो यत्र विश्वेशो भगवान् गिरिजापतिः ॥३॥
स्नात्वा प्रभासके तीर्थे सोमनाथं प्रपूज्य च॥
नरो मुक्तिमवाप्नोति सत्यमेतन्मयोदितम् ॥४॥
योजनानां दश द्वे च प्रभासपरिमंडलम्॥
मध्येऽस्य पीठिका प्रोक्ता पंचयोजनविस्तृता ॥५॥
गोचर्ममात्रं तन्मध्ये तीर्थं कैलासतोऽधिकम्॥
अर्कस्थलं तत्र पुण्यं तीर्थमन्यत्सुशोभनम् ॥६॥
सिद्धेश्वरादिलिंगानि यत्र संति सहस्रशः॥
तत्र स्नात्वा नरो भक्त्या संतर्प्य पितृदेवताः ॥७॥
लिंगानि पूजयित्वा च याति रुद्रसलोकताम्॥
अग्नितीर्थं तथान्यच्च सागरस्य तटे स्थितम् ॥८॥
तत्र स्नात्वा नरो देवि वह्निलोकमवाप्नुयात्॥
तत्र देवं कपर्द्दीशं सोपवासः प्रपूज्य च ॥९॥
शिवलोकमवाप्नोति भुक्त्वा भोगानिहेप्सितान्॥
केदारेशं ततो गत्वा समभ्यर्च्य विधानतः ॥१०॥
स्वर्गतिं समवाप्नोति विमानेन सुरार्चितः॥
भीमेशं भैरवेशं च चंडीशं भास्करेश्वरम् ॥११॥
अंगारेशं गुर्वीशं सोमेशं भृगुजेश्वरम्॥
शनिराहुशिखीशांश्च क्रमाद्गच्छेच्चतुर्दश ॥१२॥
भक्त्या पृथक् पृथक् तेषां पूजां कृत्वा विधानवित्॥
शिवसालोक्यमाप्नोति निग्रहानुग्रहे क्षमः ॥१३॥
सिद्धेश्वरादिपंचान्यलिंगानि विधिनंदिनि॥
समर्च्य लभते सिद्धिमैहिकामुष्मिकीं नरः ॥१४॥
वरारोहामजापालां मंगलां ललितेश्वरीम्॥
संपूज्य क्रमतेश्चैता विपापो जायते नरः ॥१५॥
लक्ष्मीश्वरं बाडवेशमर्ध्येशं कामकेश्वरम्॥
समभ्यर्च्य नरो भक्त्या साक्षाल्लोकेशतां व्रजेत् ॥१६॥
गौरीतपोवनं प्राप्य गौरीशवरुणेश्वरौ॥
उषेश्वरं च संपूज्य नरः स्वर्गतिमाप्नुयात् ॥१७॥
गणेशं च कुमारेशं स्वाककेशकुलेश्वरौ॥
उत्तंकेशं च वह्नीशं गौतमं दैत्यसूदनम् ॥१८॥
समभ्यर्च्य विधानेन न नरो दुर्गतिं व्रजेत्॥
चक्रतीर्थं ततः प्राप्य तत्र स्नात्वा विधानतः ॥१९॥
गौरीदेवीं समभ्यर्च्य नरोऽभिलषितं लभेत्॥
संनिहत्याह्वयं तीर्थं प्राप्य तत्र वरानने ॥२०॥
स्नात्वा संतर्प्य देवादीन्सन्निहत्याफलं लभेत्॥
अथैकादश लिंगानि भूतेशादीनि योऽर्चयेत् ॥२१॥
स लब्ध्वेह वरान्भोगानंते रुद्रपदं व्रजेत्॥
आदिनारायणं देवं समभ्यर्च्य नरोत्तमः ॥२२॥
मोक्षभागी भवेद्देवि नात्र कार्या विचारणा॥
ततश्चक्रधरं प्राप्य पूजयेद्यो विधानतः ॥२३॥
स तु शत्रुं विनिर्जित्य भोगानुच्चाव चाँल्लभेत्॥
सांबादित्यं ततः प्राप्य स्नात्वा नियमपूर्वकम् ॥२४॥
नीरोगो धनधान्याढ्यो जायते मानवो भुवि॥
ततस्तु मनुजः प्राप्य देवीं कंटकशोधिनीम् ॥२५॥
महिषघ्नीं च संपूज्य निर्भयो जायते नरः॥
कपालीशं च कोटीशं समभ्यर्च्य नरोत्तमः ॥२६॥
सुसौभाग्यो भवेदेवं मध्य यात्रां समापयेत्॥
बालब्रह्माभिधं पश्चात्प्राप्य मर्त्यो नरेश्वरि ॥२७॥
जायते भुक्तिमुक्तीशः सर्वदेवप्रपूजितः॥
नरकेशं ततः प्राप्य संवतेंशं निधीश्वरम् ॥२८॥
बलभद्रेश्वरं प्रार्च्य जायते भुक्तिमुक्तिमान्॥
गंगागणपतिं प्राप्य समभ्यर्च्य विधानतः ॥२९॥
लभते वांछितान्कामानिह लोके परत्र च॥
ततो जांबवतीं प्राप्य नदीं भक्त्या समाहितः ॥३०॥
स्नात्वा सुरादीनभ्यर्च्य कृतकृत्यो भवेन्नरः॥
पांडुकूपे ततः स्नात्वा पांडवेश्वरमर्चयेत् ॥३१॥
स नरः स्वर्गमायाति क्रीडते नंदनादिषु॥
शतमेधं लक्षमेधं कोटिमेधमनुक्रमात् ॥३२॥
लिंगत्रयं समभ्यर्च्य मोदते दिवि देववत्॥
दुर्वासादित्यकं दृष्ट्वा संपूज्य च विधानतः ॥३३॥
अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यसंशयम्॥
यादवस्थलमासाद्य वर्षेशं प्रार्च्य मानवः ॥३४॥
लभते वांछितां सिद्धिं देवराजेन सत्कृतः॥
हिरण्यासंगमे स्नात्वा दद्याद्धेमरथं द्विजे ॥३५॥
शिवमुद्दिश्य यो भक्त्या स लोकानक्षयाँल्लभेत्॥
नगरार्कं ततः प्रार्च्य सूर्यलोकमवाप्नुयात् ॥३६॥
नगरादित्यपार्श्वे तु बलकृष्णौ सुभद्रिकाम्॥
दृष्ट्वा संपूज्य विधिना कृष्णसायुज्यमाप्नुयात् ॥३७॥
कुमारिकां ततः प्राप्य समभ्यर्च्य विधानतः॥
लभते वांछितान्कामाञ्जयेच्छक्रं न संशयः ॥३८॥
क्षेत्रपालं ततोऽभ्यर्च्य सर्वान्कामानवाप्नुयात्॥
ब्रह्मेश्वरं च संपूज्य सरस्वत्यास्तटे स्थितम् ॥३९॥
सर्वपापविनिमुक्तो ब्रह्मलोके महीयते॥
पिंगलाख्यां नदीं प्राप्य स्नात्वा तत्र सुरादिकान् ॥४०॥
संतर्प्य श्राद्धकृन्मर्त्यो नेह भूयोऽभिजायते॥
संगमेशं समभ्यर्च्य न नरो दुर्गतिं व्रजेत् ॥४१॥
संप्रार्च्य शंकरादित्यं घटेशं च महेश्वरम्॥
मानवः सकलान्कामान्प्राप्नुयान्नात्र संशयः ॥४२॥
ऋषितीर्थं ततः प्राप्य स्नात्वा नियतमानसः॥
ऋषींस्तत्र समभ्यर्च्य सर्वतीर्थफलं लभेत् ॥४३॥
नंदादित्यं ततः प्रार्च्य मुच्यते सर्वरोगतः॥
त्रितकूपं ततः प्राप्य स्नात्वा याति दिवं नरः ॥४४॥
शशोपाने नरः स्नात्वा देवान्पश्यति मोहिनि॥
वांछितांश्च लभेत्कामान्सत्यं सत्यं मयोदितम् ॥४५॥
पर्णादित्यं नरो दृष्ट्वा नीरोगो भोगवान्भवेत्॥
ततो न्यंकुमतीं प्राप्य स्नात्वा तत्र विधानतः ॥४६॥
सिद्धेश्वरं समर्च्यात्र अणिमादिकसिद्धिभाक्॥
वाराहस्वामिनं दृष्ट्वा मुच्यते भवसागरात् ॥४७॥
छायालिंगं समभ्यर्च्य मुच्यते सर्वपातकैः॥
गुल्फं दृष्ट्वा नरोऽभ्यर्च्य चांद्रायणफलं लभेत् ॥४८॥
देवीं कनकनंदां च समभ्यर्च्य नरः सति॥
सर्वान्कामानवाप्नोति देहांते स्वर्गतिं लभेत् ॥४९॥
कुंतीश्वरं समभ्यर्च्य मुच्यते सर्वपातकैः॥
गंगेश्वरं समभ्यर्च्य गंगायां मनुजः प्लुतः ॥५०॥
त्रिविधेभ्योऽपि पापेभ्यो मुच्यते नात्र संशयः॥
चमसोद्भेदके स्नात्वा पिंडदानं करोति यः ॥५१॥
गयाकोटि गुणं पुण्यं स लभेन्नात्र संशयः॥
ततस्तु विधइजे गत्वा विदुराश्रममुत्तमम् ॥५२॥
त्रिगं त्रिभुवनेशं च संपूज्यात्र सुखी भवेत्॥
मंकणेश्वरमभ्यर्च्य लभते सद्गतिं नरः ॥५३॥
त्रैपुरं च त्रिलिंगं तु प्रार्च्य पापैः प्रमुच्यते॥
षंडतीर्थं ततः प्राप्य स्नात्वा स्वर्णप्रदो नरः ॥५४॥
सर्वपापविशुद्धात्मा शैवं पदमवाप्नुयात्॥
सूर्यप्राच्यां नरः स्नात्वा विपाप्मा भोगवान्भवेत् ॥५५॥
त्रिलोचने नरः स्नात्वा रुद्रलोकमवाप्नुयात्॥
देविकायानुमानाथं समर्च्य मनुजोत्तमः ॥५६॥
लभते वांछितान्कामान्देहांते स्वर्गमाप्नुयात्॥
भूद्वारं तु समभ्यर्च्य लभते वांछितं फलम् ॥५७॥
शूलस्थाने तु वाल्मीकं नमस्कृत्य कविर्भवेत्॥
च्यवनार्कं ततः प्रार्च्य सर्वकामसमृद्धिमान् ॥५८॥
च्यवनेशार्चनान्मर्त्यः शिवस्यानुचरो भवेत्॥
प्रजापालेशमभ्यर्च्य धनधान्यान्वितो भवेत् ॥५९॥
बालार्कंपूजको मर्त्यो विद्यावान्धनवान् भवेत्॥
कुबेरस्थानके स्नात्वा निधिं प्राप्नोति निश्चितम् ॥६०॥
ऋषितोयनदीं प्राप्य स्नात्वा तत्र नरः शुचिः॥
दत्वा सुवर्णं विप्राय मुच्यते सर्वपातकैः ॥६१॥
संगालेश्वरमभ्यर्च्य रुद्रलोके महीयते॥
नारदादित्यमभ्यर्च्य त्रिकालज्ञानवान्भवेत् ॥६२॥
ततो नारायणं प्रार्च्य मुक्तिभागी नरो भवेत्॥
तप्तकुंडोदके स्नात्वा मूलचंडीशमर्चयेत् ॥६३॥
सर्वपावविनिर्मुक्तो वांछितार्थं लभेन्नरः॥
विनायकं चतुर्वक्त्रमभ्यर्च्याप्नोति कामितम् ॥७-६४॥
कलंबेश्वरमभ्यर्च्य धनधान्यसमृद्धिमान्॥
गोपालस्वामिपूजातो गोमान्वै धनवान्कविः ॥६५॥
बकुलस्वामिनोऽभ्यर्चा नृणां स्वर्गतिदायिनी॥
संपूज्य मारुतां देवीं सर्वकामफलं लभेत् ॥६६॥
क्षेमादित्यार्चनान्मर्त्यः क्षेमीसिद्धार्थसत्यभाक्॥
उन्नताख्यं विघ्नराजं प्रार्च्य विघ्नैर्न हन्यते ॥६७॥
जलस्वामी कालमेघः पूजितौ सर्वसिद्धिदौ॥
रुक्मिणी पूजिता देवी वांछितार्थप्रदा नृणाम् ॥६८॥
दुर्वासेशं च पिंगेशं प्रार्च्य पापैर्विमुच्यते॥
भद्रायाः संगमे स्नात्वा नरो भद्राणि पश्यति ॥६९॥
शंखावर्ते नरः स्नात्वा सर्वसिद्धीश्वरो भवेत्॥
मोक्षतीर्थे नरः स्नात्वा भवेन्मुक्तो भवार्णवात् ॥७०॥
गोष्पदस्नानमात्रेण सर्वसौख्यमवाप्नुयात्॥
नारायण गृहे गत्वा नरो भूयो न शोचति ॥७१॥
जालेश्वरार्चनात्पुंसां सिद्धयः स्युरभीप्सिताः॥
स्रातो हुंकारकूपे तु गर्भवासं न चाप्नुयात् ॥७२॥
तथा चंडीशमभ्यर्च्य सर्वतीर्थफलं लभेत्॥
विघ्नेशमाशापुरगं प्रार्च्य विघ्नं न चाप्नुयात् ॥७३॥
कलाकुंडाप्लुतो मर्त्यो मुक्तिभागी न संशयः॥
कपिलेशं समभ्यर्च्य कपिलायूथमाप्नुयात् ॥७४॥
जरद्गवेश्वरं प्रार्च्य जरसा नाभिभूयते॥
नलेश्वरार्चको भोगी कर्क्कोटेशार्चको धनी ॥७५॥
हाटकेश्वरपूजातः पूर्यंते सर्वकामनाः॥
नारदेशार्चको भक्तिं लभेद्विष्णौ च शंकरे ॥७६॥
स्वर्गार्हो जायतेऽभ्यर्च्य देवीं मंत्रविभूषणाम्॥
दुर्गकूटं गणपतिं पूजयित्वा सुखी भवेत् ॥७७॥
धनधान्ययुतो भूयात्पूजयन्कौरवेश्वरीम्॥
सुपर्णेलां भैरवीं च पूजयित्वा सुखी भवेत् ॥७८॥
भल्लतीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः॥
कर्दमाले नरः स्नात्वा पातकैर्विप्रयुज्यते ॥७९॥
गुप्तसोमेश्वरं दृष्ट्वा न भूयोऽर्हति शोचितुम्॥
बहुस्वर्णेश्वरं दृष्ट्वा स्वर्गतिं समवाप्नुयात् ॥८०॥
श्रृङ्गेश्वरार्चको मर्त्यो न दुःखैरभिभूयते॥
तीर्थे नारायणे स्नात्वा मुक्तिमाप्नोति मानवः ॥८१॥
मार्कंडेश्वरमभ्यर्च्य दीर्घायुर्जायते नरः॥
तथा कोटीह्रदे स्नात्वाभ्यर्च्य कोटीश्वरं सुखीं ॥८२॥
सिद्धस्थाने पुनः स्नात्वा तत्र लिंगानि पूजयेत्॥
असंख्यातानि यो मर्त्यः स सिद्धो जायते भुवि ॥८३॥
दामोदरगृहं दृष्ट्वा सुखमाप्रोत्यमनुत्तमम्॥
वस्त्रापथं प्रभासस्य नाभिस्थाने स्थितं शुभे ॥८४॥
तत्राभ्यर्च्यं भवं साक्षाद्भवेद्भवसमः स्वयम्॥
दामोदरं स्वर्णरेखा ब्रह्मकुंडं च रैवते ॥८५॥
कुंतीश उज्जयंते तु भीमेशश्च महाप्रभः॥
मृगीकुंडं च सर्वस्वं क्षेत्रे वस्त्रापथे स्मृतम् ॥८६॥
एतेषु क्रमशः स्नात्वा देवानभ्यर्च्य यत्नतः॥
पितॄन्संतर्प्य तोयेन सर्वतीर्थफलं लभेत् ॥८७॥
दुन्नाबिले नरः स्नात्वा भुक्तिभोगो दिवं व्रजेत्॥
गंगेश्वरं ततोऽभ्यर्च्य गंगास्नानफलं लभेत् ॥८८॥
गिरौ रैवतके देवि संति तीर्थान्यनेकशः॥
तेषु स्नात्वा नरो भक्त्या ब्रह्मविष्णुमहेश्वरान् ॥८९॥
इंद्रादिलोकपान्प्रार्च्य भुक्तिं मुक्तिं च विंदति॥
एतान्युद्देशतस्तीर्थान्युक्तानि तव सुंदरी ॥९०॥
अवांतराण्यनंतानि तानि वक्तुं न शक्यते॥
एकैकस्यापि तीर्थस्य संति विस्तरतः कथाः ॥९१॥
अतः संक्षिप्य गदितं मया पुण्यं प्रभासजम्॥
न प्रभाससमं तीर्थं त्रिषु लोकेषु मोहिनि ॥९२॥
यत्र स्नातोऽपि मनुजः स्वर्गिंणा स्पर्द्धते शुभे॥
माहात्म्यं च प्रभासस्य लिखितं वर्तते गृहे ॥९३॥
यत्र तत्र न भीतिः स्याद्भूतचौराहिशत्रुजा॥
यः श्रृणोति नरो भक्त्या श्रावयेद्वा समाहितः ॥९४३॥
प्रभासतीर्थमाहात्म्यं सोऽपि सद्गतिमाप्नुयात् ॥९५॥
इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे प्रभासतीर्थमाहात्म्यं नाम सप्ततितमोऽध्यायः ॥७०॥
इति प्रभासक्षेत्रमाहात्म्यं समाप्तम्॥
N/A
References : N/A
Last Updated : May 09, 2012
TOP