संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ७३

उत्तरभागः - अध्यायः ७३

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


अथ त्र्यंबकमाहात्म्यं प्रारभ्यते॥

मोहिन्युवाच॥
श्रुतं गुरो त्वया प्रोक्तं पुण्याख्यानं च गौतमम्॥
त्र्यंबकस्य च माहात्म्यं गोदापंचवटीभवम् ॥१॥

अधुना श्रोतुमिच्छामि पुंडरीकपुरोद्भवम्॥
यथा तत्र महादेवस्तांडवं नृत्यमाचरत् ॥२॥

तथा वद महीदेव पुण्यात्पुण्यतरं मम॥

वसुरुवाच॥
भक्तवश्यो महादेवः सद्यो वरद एव च ॥३॥

प्राकट्यं याति भक्तानां करोति च तदिच्छया॥
एकदा जैमिनिर्नाम्रा व्यासशिष्यो मुनीश्वरः ॥४॥

अग्निवेशादिभिः शिष्यैः सार्द्धं तीर्थान्यटन्नगात्॥
पुंडरीकपुरं साक्षाद्देवराजपुरोपमम् ॥५॥

सर्वतोऽलंकृतं श्रीमत्सर्वर्तुकुसुमद्रुमैः॥
शोभितं शीतलच्छायैः शुभ्रवारिजलाशयैः ॥६॥

नानावयः कुलाकीर्णैः सुरम्यैः कमलाकरैः॥
नारीभिरप्सरोभिश्च नृभिर्विद्याधरद्युभिः ॥७॥

विलसद्भवनैः शुभ्रैर्विमानमिव राजते॥
दृष्ट्वा शोभां मुनिस्तस्य पुरस्य प्रीतिमान्भृशम् ॥८॥

बभूव च मनश्चक्रे स्नातुं तत्र सरोवरे॥
स्निग्धच्छायैर्द्रुमैर्युक्ते नानापुष्पसुगंधिते ॥९॥

विश्रम्य तरुछायाढ्ये तटे तस्य क्षणं मुनिः॥
स्नात्वा नित्याः क्रियाश्चक्रे देवर्षिपितृतर्पणम् ॥१०॥

निर्माय पार्थिवं लिंगं विविधैरुपचारकैः॥
पूजयामास विधिवत्पाद्यार्ध्याद्यैरनाकुलः ॥११॥

गंधैर्धूपैस्तथा दीपैर्नैवेद्यैर्विविधैरपि॥
पुष्पैः सुगंधिभिः प्रार्च्य स्थितो यावदभून्मुनिः ॥१२॥

तावत्प्रसन्नो भगवान्साक्षात्कारमुपागतः॥
तस्मिन्नेव च मृल्लिंगे नानारत्नप्रभोद्गमे ॥१३॥

ततः स जैमिनिर्द्दष्ट्वा साक्षाद्देवमुमापतिम्॥
पपात दंडवद्भूमौ पुनरुत्थाय सांजलिः ॥१४॥

प्राह प्रपन्नार्तिहरं हरार्द्धांगं हरिं विभुम्॥

जैमिनिरुवाच॥
धन्योऽस्मि कृतकृत्योऽस्मि देवदेव जगत्पते ॥१५॥

यस्त्वं ब्रह्मादिभिर्ध्येयः साक्षान्मद्दृष्टिगोचरः॥
ततः प्रसन्नः स विभुर्गिरीशोऽस्य निजं करम् ॥१६॥

शिरस्याधायागदत्तं ब्रूहि पुत्र किमिच्छसि॥
तच्छ्रुत्वा वचनं शंभोर्जैमिनिः प्रत्युवाच ह ॥१७॥

देवं सांबं सविघ्नेशं सकुमारं विलोकये॥
ततः सांबः सपुत्रोऽस्य शंकरो दर्शनं गतः ॥१८॥

पुनः प्राह प्रसन्नात्मा ब्रूहि पुत्र किमिच्छसि॥
अथास्य जैमिनिर्वीक्ष्य कृपालुत्वं जगद्गुरोः ॥१९॥

स्मयन्नाह समीक्षे त्वां तांडवं नटनं गतम्॥
अथ तद्वांछितं कर्तुं भगवानंबिकापतिः ॥२०॥

सस्मार प्रमथान्सर्वान्नानाक्रीडाविशारदान्॥
स्मृतमात्रास्तु ते सर्वे नंदिभृंगिपुरोगमाः ॥२१॥

समाजग्मुः प्रजल्पंतः कौतूहलसमन्विताः॥
सविघ्नेशकुमारांबं ते नमस्कृत्य वाग्यताः॥
तस्थुः प्रांजलयो देवदेवस्याज्ञासमीक्षकाः ॥२२॥

ततो हरो हराज्ञया विधाय रूपमद्भुतं प्रनर्तुमुद्यतो बभौ विचित्रवेषभूषणः॥
विलोलनागवल्लरीद्धकक्षईषदुत्सिताननो ललाटशोभितेन्दुलेख ऊर्ध्वदोर्ध्वजः ॥२३॥

सुहृग्विलिप्तभस्मदेहरुग्जितेंदुचंद्रिको जटाकलापनिस्सरत्सुरापगार्द्रविग्रहः॥
ललाटलोचनोज्ज्वलत्कृशानुतप्तशीतगुः स्रवत्सुधानुजीवितैणभूपकृत्तिहुंकृतः ॥२४॥

कुमारवाहकोकिचंचुकृष्टनागफुंकृतो गलत्सुधानुजीवदब्जयोनितुंडतुंकृतः॥
फणिप्रभीतविघ्नराजवाहनाखुचुंकृतो मृगेंद्रनादभीषिताक्षताक्षन्महोक्षभांकृतः ॥२५॥

मुहुः पदांवुजप्रपातकंपितावनीतलः प्रकृष्टवाद्यहृष्टगात्ररोमरा जिकंटकः॥
सुरासुरेन्द्रमौलिरत्नभासितांघ्रिंपकजो गणेशकार्तिकेयशैलपुत्रिवीक्षिताननः ॥२६॥

प्रवृद्धहर्षभक्तवृन्दसम्यगुक्तसंजयः प्रवृत्ततांडवैर्विभुर्बभौ दिशोऽवभासयन् ॥२७॥

अथानंदार्णवे मग्नो दृष्ट्वा नृत्यं महेशितुः॥
जैमिनिर्वेदपादेन स्तवेनास्तौत्समाहितः ॥२८॥

विरिंचिविष्णुगिरिशप्रणतांघ्रिसरोरुहे॥
जगत्सूते नमस्तुभ्यं देवि कांपिल्यवासिनि ॥२९॥

विघ्नेशविधिमार्तंडचंद्रेंद्रोपेंद्रवंदित॥
नमो गणपते तुभ्यं ब्रह्मणां ब्रह्मणस्पते ॥३०॥

उमाकोमलहस्ताब्जसंभावितललाटकम्॥
हिरण्यकुंडलं वंदे कुमारं पुष्करस्रजम् ॥३१॥

शिवं ब्रह्मादिदुर्दर्शं नरः कः स्तोतुमर्हति॥
दर्शनात्ते स्तुतिर्मे सा चाभ्राद्वृष्टिरिवाजनि ॥३२॥

नमः शिवाय सांबाय नमः शर्वाय शंभवे॥
नमो नटाय रुद्राय सदसस्पतये नमः ॥३३॥

पादभिन्नाय लोकाय मौलिभिन्नांडभित्तये॥
भुजभ्रांतदिगंताय भूतानां पतये नमः ॥३४॥

क्वणन्नूपुरयुग्माय विलसत्कृत्तिवाससे॥
फणींद्रमेखलायास्तु पशूनां पतये नमः ॥३५॥

कालकालाय सोमाय योगिने शूलपाणये॥
अस्थिभूषाय शुद्धाय जगतां पतये नमः ॥३६॥

पात्रे सर्वस्य जगतो नेत्रे सर्वदिवौकसाम्॥
गोत्राणां पतये तुभ्यं क्षेत्राणां पतये नमः ॥३७॥

शंकराय नमस्तुभ्यं मंगलाय नमोनमः॥
धनानां पतये तुभ्यमन्नानां पतये नमः॥
आत्माधिपतये तुभ्यं नमो मीढुष्टमाय च ॥३८॥

अष्टाङ्गायातिहृद्याय क्लिष्टभक्तेष्टदायिने॥
इष्टिघ्नाय सुतुष्टाय पुष्टानां पतये नमः ॥३९॥

पंचभूताधिपतये कालाधिपतये नमः॥
नम आत्माधिपतये दिशां च पतये नमः ॥४०॥

विश्वकर्त्रे महेशाय विश्वभर्त्रे पिनाकिने॥
विश्वहर्त्रेऽग्निनेत्राय विश्वरूपाय वै नमः ॥४१॥

ईशान ते तत्पुरुप नमो घोराय ते सदा॥
वामदेव नमस्तेऽस्तु सद्योजाताय वै नमः ॥४२॥

भूतिभूषाय भक्तानां भीतिभंगप्रदायिने॥
नमो भवाय भर्गाय नमो रुद्राय मीढुषे ॥४३॥

सहस्रांबाय सांबाय सहस्राभीषवे नमः॥
सहस्रबाहवे तुभ्यं सहस्राक्षाय मीढुषे ॥४४॥

सुकपोलाय सोमाय सुललाटाय सुभ्रुवे॥
सुदेहाय नमस्तुभ्यं सुमृडीकाय मीढुषे ॥४५॥

भवक्लेशनिमित्तोरुभयच्छेदकृते सदा॥
नमस्तुभ्यमषाढाय सहमानाय मीढुषे ॥४६॥

वंदेऽहं देवमानंदसंदोहं लास्यसुंदरम्॥
समस्तजगतां नाथं सदसस्पतिमद्भुतम् ॥४७॥

सुजंघं सुंदरं क्षौमं रक्षोभूतक्षतिक्षमम्॥
यक्षेशेष्टं नमामीशमक्षरं परमं प्रभुम् ॥४८॥

अर्द्धालकमवस्त्रार्द्धमस्थ्युत्पलदलस्रजम्॥
अर्द्धपुंलक्षणं वंदे पुरुषं कृष्णपिंगलम् ॥४९॥

सकृत्प्रणतसंसारमहासागरतारकम्॥
प्रणमामि तमीशानं जगतस्तस्थुषस्पतिम् ॥५०॥

धातारं जगतामीशं दातारं सर्वसंपदाम्॥
नेतारं मरुतां वंदे जेतारमपराजितम् ॥५१॥

तं त्वामंततकनेतारं वंदे मंदाकिनीधरम्॥
दधाति विदधद्यो मामिमानि त्रीणि विष्टपा ॥५२॥

सर्वज्ञं सर्वगं सर्वं कविं वंदे तमीश्वरम्॥
यतश्च यजुषा सार्द्धमृचः सामानि जज्ञिरे ॥५३॥

भवंतं सुदृशं वंदे भूतभव्यभवंति च॥
त्यजंतीतरकर्माणि यो विश्वाभि विपश्यति ॥५४॥

हरं सुरनियंतारं हरंतमहमानतः॥
यदाज्ञया जगत्सर्वं व्याप्य नारायणः स्थितः ॥५५॥

तं नमामि महादेवं यन्नियोगादिदं जगत्॥
कल्पादौ भगवान्धाता यथापूर्वमकल्पयत् ॥५६॥

ईश्वरं तमहं देवं यस्य लिंगमहर्निशम्॥
यजंते सह भार्याभिरिंद्रज्येष्ठा मरुद्गणाः ॥५७॥

नमामि तमिमं रुद्रं यमभ्यर्च्य सकृत्पुरा॥
अवापुः स्वं स्वमैश्वर्यं देवासः पूषरातयः ॥५८॥

तं वंदे देवमीशानं यं शिवं हृदयांबुजे॥
सततं यतयः शांताः संजानानाउपासते ॥५९॥

तदस्मै सततं कुर्मो नमः कमलकांतये॥
उमाकुचपटोरस्कया ते रुद्रशिवा तनूः ॥६०॥

नमस्ते रुद्रभावाय नमस्ते रुद्रकेलये॥
नमस्ते रुद्रशांत्यै च नमस्ते रुद्रमन्यवे ॥६१॥

वेदाश्वरथनिष्ठाभ्यां पादाभ्यां त्रिपुरांतक॥
बाणकार्मुकयुक्ताभ्यां बाहुभ्यामुत ते नमः ॥६२॥

नमस्ते वासुकिज्याय विष्किराय च शङ्करः॥
महते मेरुरूपाय नमस्ते अस्तु धन्वने ॥६३॥

नमः परशवे तेऽस्तु शूलायातुलरोचिषे॥
हयग्रीवात्मने तुभ्यमुतोत इषवे नमः ॥६४॥

सुरेतरवधू हारहारीणि हर यानि ते॥
अन्यान्यस्त्राण्यहं तूण इदं तेभ्योऽकरं नमः ॥६५॥

धराधरसुतालीलासरोजाहतबाहवे॥
तस्मै तुभ्यमघोराय नमो अस्मा श्रवस्य च ॥६६॥

रक्ष मामज्ञमक्षीणमशिक्षितमनन्यगम्॥
अनार्थं दीनमापन्ने दरिद्रं नीललोहितम् ॥६७॥

दुर्मुखं दुष्क्रियं दुष्टं रक्षमामीश दुर्दशम्॥
आदृशा तमहं न त्वदन्यं विंदामि राधसे ॥६८॥

भवाख्येनाग्निना शंभो रागद्वेषमदार्चिषा॥
दयालो दह्यमानानामस्माकमविता भव ॥६९॥

परदारं परावासं परवस्त्रं पराश्रयम्॥
हर पाहि परान्नं मां पुरुणामन्पुरुष्टुत ॥७०॥

लौकिकैर्यत्कृतं दुष्टैर्नावमानं सहामहे॥
देवेश तव दासेभ्यो भूरिदा भूरि देहि नः ॥७१॥

कुलोकानामयत्नानां गर्विणामीश पश्यताम्॥
अस्मभ्यं क्षेत्रमायुश्च वसु स्पार्हं तदाभर ॥७२॥

याञ्चातो महतीं लज्जामस्मदीयां घृणानिधे॥
त्वमेव वित्सि नस्तूर्णमिदं स्तोतृभ्य आभर ॥७३॥

जाया माता पिता चान्ये मां द्विषंत्यमितं कृशम्॥
देहि मे महतीं विद्यां राया विश्वपुषा सह ॥७४॥

अदृष्टार्थेषु सर्वेषु दृष्टार्थेष्वपि कर्मसु॥
मेरुधन्वन्नशक्तेभ्यो बलं धेहि तनूषु नः ॥७५॥

लब्धानिष्टसहस्रस्य नित्यमिष्टवियोगिनः॥
हृद्रोगं मम देवेश हरिमाणं च नाशय ॥७६॥

ये ये रोगाः पिशाचा वा नरा देवाश्च मामिह॥
बाधंते देवताः सर्वा निवाधस्व महानसि ॥७७॥

त्वमेव रक्षितास्माकमन्यः कश्चिन्न विद्यते॥
तस्मात्स्वीकृत्य देवेश रक्षा णो ब्रह्मणस्पते ॥७८॥

त्वमेवोमापते माता त्वं पिता त्वं पितामहः॥
त्वमायुस्त्वं मतिस्त्वं श्रिरुत भ्रातोत नः सखा ॥७९॥

यतस्त्वमेव देवेश कर्ता सर्वस्य कर्मणः॥
ततः क्षमस्व तत्सर्वं यन्मया दुष्कृत कृतम् ॥८०॥

त्वत्समो न प्रभुत्वेन फल्गुत्वेन च मत्समः॥
ततो देव महादेव त्वमस्माकं तवस्मसि ॥८१॥

सुस्मितं भस्मगौरांगं तरुणादित्यविग्रहम्॥
प्रसन्नवदनं सौर्म्य गाये त्वा नमसा गिरा ॥८२॥

एष एव वरोऽस्माकं नृत्यंतं त्वां सभापतिम्॥
लोकयं तमुमापकांतं पश्येम शरदः शतम् ॥८३॥

अरोगिणो महाभाग विद्वांसश्च बहुश्रुताः॥
भगवंस्त्वत्प्रसादेन जीवेम शरदः शतम् ॥८४॥

सदारा बंधुभिः सार्द्धं त्वदीयं ताण्डवामृतम्॥
पिबंतः काममीशानं नंदाम शरदः शतम् ॥८५॥

देवदेव महादेव त्वदीयांघ्रिसरोरुहम्॥
कामं मधुमयं पीत्वा मोदाम शरदः शतम् ॥८६॥

कीटा नागाः पिशाचा वा ये वा के वा भवेभवे॥
तव दासा महादेव भवाम शरदः शतम् ॥८७॥

सभायामीश ते देव नृत्यवाद्यगलस्वनम्॥
श्रवणाभ्यां महादेव श्रृणुयाम शरदः शतम् ॥८८॥

स्मृतिमात्रेण संसारविनाशनकराणि ते॥
नामानि खलु दिव्यानि प्रब्रवाम शरदः शतम् ॥८९॥

इषुसंधानमात्रेण दग्धत्रिपुर घूर्जटे॥
आधिभिर्व्याधिभिर्नित्यमजिताः स्याम शरदः शतम् ॥९०॥

चारुचामीकराभासं गौरीकुचपटोरसम्॥
कदा नु लोकयिष्यामि युवानं विश्पतिं कविम् ॥९१॥

प्रमथेंद्रावृतं प्रीतवदनं प्रियवाससम्॥
सेविष्येऽहं कदा सांबं सुभासं शुक्रशोचिषम् ॥९२॥

बह्वेनसं मामकृतपुण्यलेशं च दुर्मतिम्॥
स्वीकरिष्यति किं न्वीशो नीलग्रीवो विलोहितः ॥९३॥

कालशूलानलासक्तं भीतं व्याकुलमानसम्॥
कदा नु द्रक्ष्यतीशो मां तुविग्रीवो अनानतः ॥९४॥

गायका यूयमायात यदि रागादिलिप्सवः॥
धनदस्य सखायं तमुपास्मै गायता नरः ॥९५॥

स्वस्त्यस्तु सखि ते जिह्वे विद्यादातुरुमापतेः॥
स्तवमुच्चतरं ब्रूहि जयतामिव दुंदुभिः ॥९६॥

चेतयाजन शान्तस्त्वं नेदं वेदाखिल जगत्॥
अस्य तृप्त्याखिलं शभोर्गौरो न तृषितः पिब ॥९७॥

सुगंधिं च सुखस्पर्शं कामदं सोमभूषणम्॥
गाढमालिंग मच्चित्तं योषा जारमिव प्रियम् ॥९८॥

महामयूखाय महाभुजाय महाशरीराय महाम्बराय॥
महाकिरीटाय महेश्वराय महो महीं सुष्टुतिमीरयामि ॥९९॥

यथाकथंचिद्रचिताभिरीषत्प्रसन्नतश्चारुभिरादरेण॥
प्रपूजयामि स्तुतिभिर्महेश मषाढमुग्रं सहमानमाभिः ॥१००॥

नमः शिवाय त्रिपुरांतकाय जगत्त्रयेशाय दिगंबराय॥
नमोऽस्तु मुख्याय हराय भूयो नमो जघन्याय च बुध्नियाय ॥१०१॥

नमो विकाराय विकारिणे ते नमो भवायास्तु भवोद्भवाय॥
बहुप्रजात्यंतविचित्ररूप यतः प्रसीता जगतः प्रसूतिः ॥१०२॥

तस्मै सुरेशोरुकिरीटनानारत्नावृत्ताष्टापदविष्टराय॥
भस्मांनरागाय नमः परस्मै यस्मात्परं नापरमस्ति किंचित् ॥१०३॥

सर्पाधिराजोषधिनाथयुद्धक्षुभ्यज्जटामंडलगह्वराय॥
तुभ्यं नमः सुंदरतांडवाय यस्मिन्निदं संचविचैति सर्वम् ॥१०४॥

मुरारिनेत्रार्चितपादपद्ममुमांघ्रिलाक्षापरिरक्तपाणिम्॥
नमामि देवं वृषनीलकंठं हिरण्यदंदं शुचिवर्णमारात् ॥१०५॥

अनंतमव्यक्तमर्चित्यमेकं हरंतमाशांबरमंबरांगम्॥
आजं पुराणं प्रणमामि यूपमणोरणीयान्महतो महीयान् ॥१०६॥

अतः स्थमात्मानमजं न दृष्ट्वा भ्रमंति मूढा गिरिगयह्वरेषु॥
पश्चादुदग्दक्षिणतः पुरस्तादधः स्विदासी३दुपरि स्विदासी३त् ॥१०७॥

इमं नमामीश्वरमिंदुमौले शिवं महानंदमशोकदुःखम्॥
हृदंबुजे तिष्ठति यः परात्मा यतश्च सर्वाः प्रदिशो दिशश्च ॥१०८॥

रागादिकापट्यसमुद्भवेन भान्तं भवाख्येन महामयेन॥
विलोक्य मां पालय चन्द्रमौले भिषक्तमं त्वा भिषजां श्रृणोमि ॥१०९॥

दुःखांबुराशिं सुखलेश हीनमस्पृष्टपुण्यं बहुपातकं माम्॥
मृत्योः करस्थं भव रक्ष भीतं पश्चात्पुरस्तादधरादुदक्तात् ॥११०॥

गिरींद्रजाचारुमुखावलोकसुशी तया देव तवैव दृष्ट्या॥
वयं दयापूरितयैव पूर्णमपो न नावा दुरिता तरेम ॥१११॥

अपारसंसारसमुद्रमध्ये निमग्नमुत्क्रोशमनल्परागम्॥
मामक्षमं पाहि महेशजुष्टमोजिष्ठया दक्षिणयेव रातिम् ॥११२॥

स्मरन्पुरा संचितपातकानि खरं यमस्यापि मुखं यमारे॥
बिभेमि मे देहि यथेष्टमायुर्यदि क्षितायुर्यदि वा परेतः ॥११३॥

सुगंधिभिः सुंदरभस्मगौरैरनंतभोगैर्मृदुलैरघोरैः॥
इमं कदालिंगति मां पिनाकी स्थिरेभिरंगैः पुरुरूप उग्रः ॥११४॥

क्रोशंतमीशं पतितं भवाब्धौ नाकुस्थमंडूकमिवातिभीतम्॥
कदा नु मां रक्षति देवदेवो हिरण्यरूपः स हिरण्यसंदृक् ॥११५॥

चारुस्मितं चंद्रकलावतंसं गौरीकटाक्षारुहयुग्मनेत्रम्॥
आलोकयिष्यामि कदा नु सांबमादित्यवर्णं तमसः परस्तात् ॥११६॥

आगच्छतानादि मुमुक्षवो ये यूयं शिवं चिंतयतांतरेऽब्जे॥
ध्यायंति मुक्त्यर्थममुं हि नित्यं वेदांतविज्ञानसुनिश्चितार्थाः ॥११७॥

आयात यूयं भवताधिपत्ये कामं गहेशं गिरिशं यजध्वम्॥
एवं पुराब्यर्च्य हिरण्यगर्भो भूतस्य जातः पतिरेक आसीत् ॥११८॥

एकायनं ते विपुलां श्रियं ते श्रीकंठमेनं सुकृता नमंताम्॥
श्रीमानयं श्रीपतिवंद्यपादः श्रीणामुदारो धरुणो रयीणाम् ॥११९॥

सुपुत्रकामा अपि ये मनुष्या युवानमेनं गिरिशं यजंताम्॥
यतः स्वयंभूर्जगतो विधाता हिरण्यगर्भः समवर्ततार्गें ॥१२०॥

अलं किमुक्तैर्बहुभिः समीहितं समस्तमस्याश्रयणेने सिध्यति॥
पुरैनमाश्रित्य हि कुंभसंभवो दिवा न नक्तं पलितो युवाजनि ॥१२१॥

अन्यत्परित्यज्य ममाक्षिभृंगाः सर्वं सदैनं शिवमाश्रयध्वम्॥
आमोदवानेष मृदुः शिवाय स्वादुःष्किलायं मधुमाँ उतायम् ॥१२२॥

भविष्यसि त्वं प्रतिमानहीनो विनिर्ज्जिताशेषनरामरश्च॥
नमश्च ते वाणि महेशमेनं स्तुहि श्रुतं गर्तसदं युवानम् ॥१२३॥

यद्यन्मनश्चिंतयसि त्वमिष्टं तत्तद्भिविष्यत्यखिलं ध्रुवं ते॥
दुःख्न वृत्तिं विषये कदाचिद्यक्ष्वामहे सौमनसाय रुद्रम् ॥१२४॥

अज्ञानयोगादपचारकर्म यत्पूर्वमस्माभिरनुष्ठितं ते॥
तदेव सोढ्वा सकलं दयालो पितेवपुत्रान्प्रति नो जुषस्व ॥१२५॥

संसाराख्यक्रुद्धसर्पेण तीव्रै रागद्वेषोन्मादलोभादिदंतैः॥
दष्टं दृष्ट्वा मां दयालुः पिनाकी देवस्त्राता त्रायतामप्रयुच्छन् ॥१२६॥

इत्युक्त्वांते ये समाधेर्नमंते रुद्र त्वां ते यांति जन्माहिदष्टाः॥
संतो नीलग्रीवसूत्रात्मनाहं तत्त्वा यामि ब्रह्मणा वंदमानः ॥१२७॥

भवाधिभीषणज्वरेण पीडितान्महामयानशेषपातकालयानदूरकाललोचनान्॥
अनाथनाथ ते करेण भेषजेन कालहा उदूषुणो वसो महे मृशस्व शूर राधसे ॥१२८॥

जयेम येन सर्वमेतदिष्टमष्टदिग्गणं भुवः स्थलं दिवः स्थलं नभःस्थलं च तद्गतम्॥
य एष सर्वदेव दानवप्रभुः सभापतिः स नो ददातु तं रयिं पुरुं पिशंगसंदृशम् ॥१२९॥

नमो भवाय ते हराय भूतिभासितोरसे नमो भवाभिभूति भीतिसंगिने पिनाकिने॥
नमः शिवाय विश्वताय हेलये न यस्य हन्यते सखा न जीयते कदाचन ॥१३०॥

सुरपतिपतये नमोनमः प्रजापतिपतये नमोनमः॥
क्षितिपतिपतये नमोनमोंऽबिकापतय उमापतये नमो नमः ॥१३१॥

विनायकं वंदनमस्तकाहतस्वनाद्यसंघृष्टकिरीटमस्तकम्॥
नमामि नित्यं प्रणतार्तिनाशनं कविं कवीनामुपमश्रवस्तमम् ॥१३२॥

देवा युद्धे यागे विप्रास्त्रेप्याह्वयं? द्वयं विंदंति स्कंदम्॥
वंदे सुब्रह्मण्यों सुब्रह्मण्यों सुब्रह्मण्योम् ॥१३३॥

नमः शिवायै जगदंबिकायै शिवप्रियायै शिवविग्रहायै॥
समुद्ब्रभूवाद्रिपतेः सुता या चतुष्कपर्दा युवतिः सुपेशाः ॥१३४॥

हिरण्यवर्णां मणिनूपुरांघ्रिं प्रसन्नवक्त्रां शुकपद्महस्ताम्॥
विशालनेत्रां प्रणमामि गौरीं वचोविदं वाचमुदीरयंतीम् ॥१३५॥

नमामि मेनातनयाममेयामिमामुमां कांतिमतीममेयाम्॥
करोति या भूतिसितौ स्तनौ द्वौ प्रियं सखायं परिषस्वजाना ॥१३६॥

कांतामुमां कांतनिभांगकांतिभांतामुपात्तानतहर्यजेंद्राम्॥
नतोऽस्मि यास्ते गिरिशस्य पार्श्वे विश्वानि देवी भुवनानि चष्टे ॥१३७॥

वंदे गौरीं तुंगपीनस्तनीं तां चंद्राचूडां क्लिष्टसर्वांगरागाम्॥
यैषा दुःखिप्राणिनामात्मकांतिं देवीं देवीं राधसे चादयंतीम् ॥१३८॥

एनां वंदे दीनरक्षाविनोदां मेनाकन्यां मानदानंददात्रीम्॥
या विद्यानां मंगलानां च वाचामेषा नेत्री राधसः सूनृतानाम् ॥१३९॥

संसारतापोरुभयापहंत्री भवानि भोज्याभरणैकभोगे॥
धियं वरां देहि शिवे निरर्गलां ययाति विश्वादुरिता तरेम ॥१४०॥

शिवे कथं त्वत्समता क्व दीयते जगत्कृतिः केलिरयं शिवः पतिः॥
हरिस्तु दासोऽनुचरीन्दिरा शची सरस्वतीं वा सुभगा ददिर्वसु ॥१४१॥

वसुरुवाच॥
इत्यनेन स्तवेनेशं स्तुत्वेत्थं स महामुनिः॥
स्नेहाश्रुपूर्णनयनः प्रणनाम सभापतिम् ॥१४२॥

मुहुर्मुहुः पिबन्नीशं तांडवामृतमंगलम्॥
सर्वान्कामानवाप्यांते गाणपत्यमवाप ह ॥१४३॥

इमं स्तवं जैमिनिना र्वचोदितं द्विजोत्तमो यः पठतीह भक्तितः॥
तमिष्टवाक्सिद्धिमतिद्युतिश्रियः परिष्वजंते जनयो यथा पतिम् ॥१४४॥

महीपतिर्यस्तु युयुत्सुरादरादमुं पठत्यस्य तथैव सादरात्॥
प्रयांति शीघ्रं प्रमदांतकांतिकं भियं दधाना हृदयेषु शत्रवः ॥१४५॥

त्रैवर्णिकेष्वन्यतमो य एनं नित्यं कदाचित्पठतीशभक्तितः॥
कलेवरांते शिवपार्श्ववर्ती निरंजनः साम्यमुपैति दिव्यम् ॥१४६॥

लभंते पठंतो मतिं बुद्धिकामा लभंते तथैव श्रियं पुष्टिकामाः॥
लभन्ते हि धान्यं नरा धान्यकामा लभन्ते ह पुत्रान्नराः पुत्रकामाः ॥१४७॥

पादं वाप्यर्द्धपादं वा श्लोकं श्लोकार्द्धमेव वा॥
यस्तु धारयते नित्यं शिवलोकं स गच्छति ॥१४८॥

यत्र नृत्तं शिवश्चक्रे तांडवं तत्स्थलं शुभे॥
पुण्यात्पुण्यतरं तीर्थं तत्र स्नात्वा विमुच्यते ॥१४९॥

यस्तत्र कुरुते श्राद्धं पितॄणां मनुजोत्तम॥
पूर्वजान्स नयेत्स्वर्गं नात्र कार्या विचारणा ॥१५०॥

गां सुवर्णं धरां शय्यां वस्त्रमातपवारणम्॥
पानमन्नं द्विजे दद्यात्तत्र तत्सर्वमक्षयम् ॥१५१॥

एतदाख्यानकं पुण्यं पुंडरीकपुरोद्भवम्॥
श्रृणुयाच्छ्रावयेद्वापि सोऽपि रुद्रप्रियो भवेत् ॥१५२॥

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनी संवादे त्र्यम्बके श्वरमाहात्म्ये वेदपादस्तवो नाम त्रिसप्ततितमोऽध्यायः ॥७३॥

इति त्र्यम्बकेश्वरज्योतिर्लिंगमाहात्म्यं संपूर्णम्॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP