उत्तरभागः - अध्यायः २७
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
वसिष्ठ उवाच॥
तत्पितुर्वचनं श्रुत्वा पुत्रो धर्मांगदस्तदा॥
आहूय जननीं शीघ्रं नाम्ना संध्यावलीं शुभाम् ॥१॥
सूर्यायुत समप्रख्यां तेजसा रुचिरस्तनाम्॥
पालयंतीं धरां सर्वां पादविन्यासविक्रमैः ॥२॥
पुत्रस्य वचनात्प्राप्ता तत्क्षणं नृपसन्निधौ॥
श्राविता मोहिनी वाक्यं पितुर्वाक्यं तथैव च ॥३॥
उभयोः संविदं कृत्वा परिसांत्वय्य मोहिनीम्॥
भोजनाय स्थितामेनां नृपस्य हरिवासरे ॥४॥
यथा नो च्यवते सत्याद्यथा भुंक्ते न मे पिता॥
तथा विधीयतामेवं कुशलं चोभयोर्भवेत् ॥५॥
तत्पुत्रवचनं श्रुत्वा देवी संध्यावली नृप॥
मोहिनीं श्लक्ष्णया वाचा प्राह ब्रह्मसुता तदा ॥६॥
माग्रहं कुरु वामोरु कथंचिदपि भूपतिः॥
नास्वादयति पापान्न संप्राप्ते हरिवासरे ॥७॥
अनुवर्तय राजान गुरुरेष सनातनः॥
सदा भवति या नारी भर्तुर्वचनकारिणी ॥८॥
तस्याः स्युरक्षयया लोकाः सावित्र्यास्तु यथामलाः॥
यद्यनेन पुरा देवि तव दत्तः करो गिरौ ॥९॥
कामार्तेन विमूढेन तन्न योऽग्यं विचिंतितम्॥
यद्देयं तद्ददात्येष ह्यदेयं प्रार्थयस्व मा ॥१०॥
विपत्तिरपि भद्रैव सन्मार्गे संस्थितस्य तु॥
न भुक्तं येन सुभगे शैशवेऽपि हरेर्दिने ॥११॥
स कथं भोक्ष्यते पुण्ये माधवस्य दिनेऽधुना॥
कामं वरय वामोरुवरमन्यं सुदुर्लभम् ॥१२॥
तं ददात्येव भूपालो निवृत्ता भव भोजने॥
मन्यसे यदि मां देवि धर्मांगदविरोहिणीम् ॥१३॥
अस्मज्जीवितसंयुक्तं राज्यं वरय सुव्रते॥
सप्तद्वीपसमेतं हि ससरिद्वनपर्वतम् ॥१४॥
कनिष्ठाया वरिष्ठाहं करिष्ये पादवंदनम्॥
भर्तुरर्थे विशालाक्षि प्रसीद तनुमध्यमे ॥१५॥
वाचा शपथदोषैस्तु संनिरुध्य पतिं हि या॥
अकार्यं कारयेत्पापा सा नारी निरये वसेत् ॥१६॥
सा च्युता नरकाद्धोरात्सप्तजन्मानि पंच च॥
सूकरीं योनिमाप्नोति चांडालीं च ततः परम् ॥१७॥
एवं ज्ञात्वा मया देवि विक्रियां पापसंभवाम्॥
निवारितासि वामोरु सखीभावेन सुंदरि ॥१८॥
विपक्षस्यापि सद्बुद्धिर्दातव्या धर्ममिच्छता॥
किं पुनः सखिसंस्थायास्तव पद्मनिभानने । २७-१९॥
संध्या वलीवचः श्रुत्वा मोहिनी मोहकारिणी॥
उवाच कनकाभां तां भर्तुर्ज्येष्ठां प्रियां तदा ॥२०॥
माननीयासि मे सुभ्रु करोमि वचनं तव॥
विद्वद्भिर्मुनिभिर्य्यत्तु गीयते नारदादिभिः ॥२१॥
यदि तन्नाचरेद्राजा भोजनं हरिवासरे॥
क्रियतामपरं देवि मरणादधिकं तव ॥२२॥
ममापि दुःखदंह्येतद्दैवाज्जल्पाम्यहं शुभे॥
कस्येष्टमात्महननं कस्येष्टं विषभक्षणम् ॥२३॥
पतनं वा गिरेर्मूर्ध्रः क्रीडा वापि बिलेशयैः॥
व्याघ्रसिंहाभिगमनं समुद्रतरणं तथा ॥२४॥
दरुक्तानृतवाक्यं वा परदाराभिमर्शनम्॥
अपथ्यभक्षणं लोके तथाभक्ष्यस्य भक्षणम् ॥२५॥
मृगाटनमथाक्षैर्वा क्रीडनं साहसं तथा॥
छेदनं तृणकाष्ठानां लोष्टानामवमर्द्दनम् ॥२६॥
हिंसनं सूक्ष्मदेवानां जलपावकखेलनम्॥
दैवाविष्टो वरारोहे नरः सर्वं करोति वै ॥२७॥
त्रिवर्गविच्युतं घोरं यशोदेहहरं क्षितौ॥
नरकार्हो नरो देवि करोत्यशुभकर्म तत् ॥२८॥
साहं पापा दुराचारा वक्तुकामा सुनिर्घृणम्॥
यादृशेन हि भावेन योनौ शुक्रं समुत्सृजेत् ॥२९॥
तादृशेन हि भावेन संतानं संभवेदिति॥
साहं विवादभावेन राज्ञो रुक्मांगदस्य हि ॥३०॥
जाता जलजजातेन स्त्रीरूपा वरवर्णिनी॥
दुष्टभावा तथा जाता कर्त्री दुष्टं नृपस्य तु ॥३१॥
न लग्नं न ग्रहा देवि न होरा पुण्यदर्शिनी॥
तत्कालभावना ग्राह्या तद्भावो जायते सुतः ॥३२॥
तेन भावेन जातस्य दाक्षिण्यं नोपपद्यते॥
न च व्रीडा न च स्नेहो न धर्मो देवि विद्यते ॥३३॥
जानन्नपि यथायुक्तस्तं भावमनुवर्तते ॥३४॥
वक्ष्ये वचः प्राणहरं तवाधुना भर्तुः सलोकस्य वधूजनस्य॥
धर्मापहं वाच्यकरं ममापि कर्तुं न शक्यं मनसापि भीरु ॥३५॥
करोषि वाक्यं यदि मामकं हि भवेच्च कीर्तिर्महतीह लोके॥
भर्तुर्यशः स्यात्त्रिदिवे गतिस्ते पुत्रे प्रशंसा मम धिग्विवादः ॥३६॥
वसिष्ठ उवाच॥
मोहिनीवचनं श्रुत्वा देवी संध्यावली विभो॥
धैर्यमालंब्य तां तन्वीं ब्रूहि ब्रूहीत्यचोदयत् ॥३७॥
कीदृशं वदसे वाक्यं येन दुःखं भवेन्मम॥
भर्तुर्मे सत्यकरणे न दुःखं जायते क्वचित्॥
आत्मनो निधने वापि पुत्रस्य निधनेऽपि वा॥
भर्तुरर्थे प्रकुर्वंत्या राज्यनाशे न मे व्यथा ॥३८॥
यस्या दुःखी भवेद्भर्ता भार्याया वरवार्णिनी॥
समृद्धायाः सपापायास्तस्याः प्रोक्ता ह्यधोगतिः ॥३९॥
सा याति नरकं पापा पूयाख्यं युगसप्ततिम्॥
ततश्छुछुन्दरी स्याच्च सप्त जन्मानि भारते ॥४०॥
ततः काकी ततः श्याली गोधा गोत्वेन शुद्ध्यति॥
भर्तुरर्थे तु या वित्तें विद्यमानं न यच्छति ॥४१॥
जीवितं वा वरारोहे विष्ठायां सा भवेत्क्रिमिः॥
क्रिमियोनिविनिर्मुक्ता काष्ठीला जायते शुभे ॥४२॥
मम कौमारभावे तु मत्पितुः काष्ठपाटकः॥
अग्निप्रज्वालनाथ हि काष्ठं पाटयते चिरम् ॥४३॥
सखीभिः सहिता चाहं क्रीडासंसक्तमानसा॥
काष्ठं पाटयतस्तस्य समीपमगमं तदा ॥४४॥
तत्र दृष्टा मया सुभ्रु काष्ठीला दारुनिर्गता॥
नवनीतनिभं देहं बिभ्राणा चांजनत्विषम् ॥४५॥
कनिष्ठिकांगुलिसमा स्थौल्ये ह्यंगुलिमानिका॥
तां दृष्ट्वा पतितां भूमौ हंतुं ध्वांक्षः समागतः ॥४६॥
यावद्गृह्णाति वक्त्रेण काष्ठीलां क्षुधितः स तु॥
तावन्निवारितः सद्यो मया लोष्टेन तत्क्षणात् ॥४७॥
सा मुक्ता ताडितेनेत्थं वायसेन वरानने॥
सक्षता तुंडसंस्पृष्टा न च शक्ता पलायितुम् ॥४८॥
ततः सा वेपमाना तु प्राणत्यागमुपागमत्॥
सिक्ता किंचिज्जलैनैव ततः स्वास्थ्यमुपागता ॥४९॥
तततः सा मानुषीवाचा मामाह वरवर्णिनी॥
संध्यावलीति संबोध्य सखीमध्यसमास्थिताम् ॥५०॥
सुमंतुनाम्नो हि मुनेः सर्वज्ञस्य सुताऽभवम्॥
पूर्वजन्मनि पत्नी च कौंडिन्यस्य शुभानने ॥५१॥
न्यवसं कान्यकुब्जे तु सुसमृद्धा सुदर्पिता॥
जनन्या बंधुवर्गस्य पितुरिष्टतमा ह्यहम् ॥५२॥
पित्रा दत्ता ततश्चाहं कौंडिन्याय महात्मने॥
कुलीनाय सरूपाय स्त्रीसंगरहिताय च ॥५३॥
शयनीयादिकं दत्तं यौतुकं जनकेन मे॥
श्वशुरेणापि मे दत्तं सुवर्णस्यायुतं पुरा ॥५४॥
पितृश्वशूरवित्ताभ्यां परिपूर्णाभवं तदा॥
गोमहिष्यादिसंयुक्ता धनधान्यसमन्विता ॥५५॥
इष्टा श्वशुरयोश्वाहं सौशीन्येन जनस्य च॥
कालेन पंचतां प्राप्तः श्वशुरो वेदतत्त्ववित् ॥५६॥
तं मृतं पतिमादाय श्वश्रूरग्निं विवेश सा॥
ततो भर्तांजलिं दत्वा पित्रोः श्राद्धमथाकरोत् ॥५७॥
गते मासद्वये देवि भर्ता मे राजमंदिरम्॥
गतः कौतुकभावेनहृच्छयेन प्रपीडितः ॥५८॥
तत्र वेश्याः सुरूपाढ्या यौवनेन समन्विताः॥
प्रविशत्यां नृपगृहे दृष्टास्तेन द्विजन्मना ॥५९॥
तासां मध्यात्तु द्वे गृह्यवित्तदानेन भूरिणा॥
स्वगृहे धारयामास क्रीडार्थं दुर्मतिः पतिः ॥६०॥
ताभ्यां वित्तमशेषं तु क्षयं नीतं निषेवणात् ।
वर्षत्रये गते देवि निस्वो जातः पतिर्मम ॥६१॥
ततो मां प्रार्थयामास देहि मेऽङ्गविभूषणम्॥
तन्मया नहि दत्तं तु भर्त्रे व्यसनिने तदा ॥६२॥
सुभगे सर्वमादाय गताहं मंदिरं पितुः॥
ततः पितृगृहे वित्तं भृत्यादिकमशेषतः ॥६३॥
विक्रीय दत्तं वैश्याभ्यां तच्चापि क्षयमागतम्॥
क्षेत्रधान्यादिकं यच्च सभांडं सपरिच्छदम् ॥६४॥
स्वल्पमूल्येन विक्रीयगतो नदनदीपतिम्॥
नावमारुह्य मे भर्ता विवेशांतर्महोदधेः ॥६५॥
स गतो दूरमध्वानं पश्यमानोऽद्भुतानि च॥
शुभे समुद्रजातानि जीवचेष्ठांकितानि च ॥६६॥
प्रभंजनवशं प्राप्ता सा नौका शतयोजनम्॥
गता विशीर्णतां तत्र मृतास्ते नावमाश्रिताः ॥६७॥
मत्पतिर्दैवयोगेन दीर्घ काष्ठं समाश्रितः॥
वायुना नीयमानोऽसौ प्राचीनेन स्वकर्मणा ॥६८॥
आससादाचलं देवि रत्नश्रृंगविभूषितम्॥
बहुनिर्झरणोपेतं बहुपक्षिसमन्वितम् ॥६९॥
बहुवृक्षैः समाकीर्णं नानापुष्पफलोपगैः॥
उल्लिखंतं हि शिखरैः खमध्यं स्वात्मनस्त्रिभिः ॥७०॥
तं दृष्ट्वा पर्वतं दिव्यं त्यक्त्वा नौकाष्ठमद्भुतम्॥
आरुरोह मुदायुक्तो वित्ताकांक्षी सुलोचने ॥७१॥
विशश्राम मुहूर्तं तु क्षुत्पिपासासमन्वितः॥
तत उत्थाय भक्ष्यार्थं वृक्षांस्तत्र व्यलोकयत् ॥७२॥
सुपक्वास्तत्र मृद्वीका दृष्ट्वा भुक्त्वा मुदान्वितः॥
शांतिं प्राप्तस्ततोऽपश्यत्सालमेकं सुनिर्मलम् ॥७३॥
घनच्छायं मेघनिभं पंचाशत्पुरुषोच्छ्रयम्॥
तस्याधस्तात्स सुष्वाप स्वोत्तरीयं प्रसार्य च ॥७४॥
मोहिन्या निद्रया चैव संप्रघूर्णितलोचनः॥
तावत्सुप्तोऽतिखिन्नोऽसौ यावत्सूर्योऽस्ततां गतः ॥७५॥
सूर्येऽस्तं समनुप्राप्ते समायाते निशामुखे॥
अभ्यगाद्राक्षसो घोरो गर्जमानो यथा घनः ॥७६॥
अंकेनादाय तन्वंगीं सीतामिव दशाननः॥
शुभां काशीपतेः पुत्रीं नाम्ना रत्नावलीं शुभाम् ॥७७॥
अधौतपादां सुश्रोणीं सौम्यदिक्छीर्षशायिनीम्॥
पतिकामा कुमारी सा नाविंदत्सदृशं पतिम् ॥७८॥
सर्वयोषिद्वरा बाला रुदती निद्रयाकुला॥
पिता तस्याः प्रदाने तु चिंताविष्टो ह्यहर्न्निशम् ॥७९॥
दीपच्छायाश्रिते तन्वि शयने सा व्यवस्थिता॥
अटमानेन पापेन दृष्टा सा रूपशालिनी ॥८०॥
दीपरत्नैः सुखचिते धारयंती च कंकणे॥
उभयोर्दश रत्नानि निष्के च दशपंच च ॥८१॥
सीमंते सप्त रत्नानि केयूरेऽष्टौ च पंच च॥
एवं रत्नाचितां बालां शातकुम्भसमप्रभाम् ॥८२॥
जहार राजभवनात्तां तदा चारुहासिनीम्॥
वायुमार्गं समाश्रित्य क्षणात्प्राप्तः स्वमालयम् ॥८३॥
तं पर्वतं स यत्रास्ते पतिर्मेशालमाश्रितः॥
तत्र तस्य गुहां दृष्ट्वा सुवर्णसदृशप्रभाम् ॥८४॥
तद्भयस्यासहा तत्र प्रविवेशास्य पश्यतः॥
अनेकैर्मणिविन्यासैः संयुक्तां चित्रमंदिराम् ॥८५॥
नानाद्रव्यसमाकीर्णां शयनासनसंयुताम्॥
भोजनैः पानपात्रैश्च भक्ष्यभोज्यैरनेकधा ॥८६॥
प्रविश्य तत्र शय्यायां मुमोचोत्पललोचनाम्॥
रुदतीमतिसंत्रस्तां पीनश्रोणिपयोधराम् ॥८७॥
तस्यास्तु रुदितं श्रुत्वा तस्य भार्या हि राक्षसी॥
आजगाम त्वरायुक्ता यत्रासौ राक्षसः स्थितः ॥८८॥
तां दृष्ट्वा चारुसर्वांगीं तप्तकांचनसप्रभाम्॥
पप्रच्छ निजभर्तारं क्रुद्धा निर्भर्त्सती सती ॥८९॥
किमर्थमाहृता चेयं जीवंत्यां मयि निर्घृणं॥
अन्यां समीहसे भार्यां नाहं भार्यां भवामि ते ॥९०॥
एवं ब्रुवाणां तां भर्ता राक्षसीमसितेक्षणाम्॥
उवाच राक्षसो हर्षात्स्वां प्रियां चारुलोचनाम् ॥९१॥
त्वदर्थमाहृतं भक्ष्यं मया कोश्याः शुभानने॥
दैवोपपादितं द्वारि द्वितीयं मम तिष्ठति ॥९२॥
शालवृक्षाश्रितः शेते विप्रश्चैको वरानने॥
तमानय त्वरायुक्ता येनाहं भक्ष्यमाचरे ॥९३॥
राक्षसस्य वचः श्रुत्वा कुमारी साब्रवीदिदम्॥
मिथ्या राक्षसि भर्ता ते भाषते त्वद्भयादयम् ॥९४॥
ज्ञात्वा त्वां जरयोपेतां विरूपामतिजिह्यगाम्॥
सुप्तां पितृगृहे रात्रौ मां समासाद्य कामतः ॥९५॥
अनूढां रुदतीं भद्रे भार्यार्थं समुपानयत्॥
इतीरितमुपाकर्ण्य वचनं राजकन्यया ॥९६॥
क्रोधयुक्तातिमात्रं वै बभूव क्षिपती वचः॥
तस्याश्च रूपमालोक्य सत्यमेवावधारयत् ॥९७॥
चिंतयामास चाप्येवं भार्यार्थे ह्याहृतेति च॥
अवश्यं मूर्घ्निं कीलं मे रोषयिष्यति राक्षसः ॥९८॥
मास्म सीमंतिनी काचिद्भेवत्सा भुवनत्रये॥
या सापत्न्येन दुःखेन पीड्यमाना हि जीवति ॥९९॥
सर्वेषामेव दुःखानां महच्चेदं न संशयः॥
सामान्यद्रव्यभोगादि निष्ठा चैवापरा भवेत् ॥१००॥
एवं सा बहु संचिंत्य भर्तारं वाक्यमब्रवीत्॥
मदीया मम भक्ष्यार्थँ त्वयानीता सुलोचना ॥१०१॥
तं विप्रमानयिष्यामि भक्ष्यार्थं तव सुव्रत॥
ततः स राक्षसः प्राह गच्छगच्छेति सत्वरम् ॥१०२॥
सृक्किणी स्रवतेऽत्यर्थं तस्य भक्षणकाम्यया॥
ततः सा राक्षसी घोरा श्रुत्वा पतिसमीरितम् ॥१०३॥
निर्जगाम दुरंताशा ददर्श द्विजसत्तमम्॥
रूपयौवनसंयुक्तं विद्यारत्नविभूषितम् ॥१०४॥
तं दृष्ट्वा मायया भूत्वा सुंदरी षोडशाब्दिका॥
हृच्छयेन समाविष्टा तदंतिकमुपागमत् ॥१०५॥
अब्रवीत्सा पृथुश्रोणी तं विप्रं प्रीतिसंयुता॥
कस्त्वं कस्मादिहायतः किमर्थमिह तिष्ठसि ॥१०६॥
पृच्छामि पतिकामाहं राक्षसी हृच्छयातुरा॥
स्वभर्त्राहं परित्यक्ता त्वां पतिं कर्तुमागता ॥१०७॥
तच्छ्रुत्वा वचनं तस्या भर्ता मे भयसंयुतः॥
उवाच वचनं प्राज्ञो धैर्यमालंब्य तां शुभे ॥१०८॥
रक्षोमानुषसंयोगः कथं राक्षसि संभवेत्॥
मानुषास्तु स्मृता भक्ष्या राक्षसानां न संशयः ॥१०९॥
तच्छ्रुत्वा वचनं सा तु पुनस्तं प्राह सादरम्॥
असंभाव्यं च जगति संभवेद्दैवयोगतः ॥११०॥
पुराणे श्रूयते ह्येतद्भविष्यं भारते स्थितम्॥
हिडंबा राक्षसी विप्र भीमभार्या भविष्यति ॥१११॥
मानुषोत्पादितः पुत्रो भविष्यति घटोत्कचः॥
अवध्यः सर्वशस्त्राणां शक्त्या मृत्युमवाप्स्यति ॥११२॥
तस्माद्विषादं मा विप्रकुरु त्वं दैवयोगतः॥
भार्या तवाहं संजाता दव हि बलवत्तरम् ॥११३॥
मर्त्यलोकं गते शक्त्रे वैरोचनिनिरीक्षणे॥
तदंतरं समासाद्य भर्ता मे घोरराक्षसः ॥११४॥
तद्गृहाच्छक्तिमहरद्दीप्तामग्रिशिखामिव॥
सेयं समाश्रिता चात्र शालवृक्षे तु वासवी ॥११५॥
अहत्वैकं द्विजश्रेष्ठ नगच्छति पुरंदरम्॥
यद्वधाय प्रक्षिपेत्तां सोऽमरोऽपि विनश्यति ॥११६॥
साहमारुह्य शालाग्रं शक्तिमानीय भास्वराम्॥
त्वत्करे संप्रदास्यामि भर्तुर्निधनकाम्यया ॥११७॥
यदि त्वमनया शक्त्या न हिंससि निशाचरम्॥
खादयिष्यति दुर्मेधास्त्वां च मां च न सशयः ॥११८॥
तव शत्रुर्महानेष ममापि च परंतप॥
येनाहृता कुमारीह भार्यार्थं मंदबुद्धिना ॥११९॥
सपत्नभावो जनितो मम भर्त्रा दुरात्मना॥
व्यापादितेऽस्मिन्नुभयोः क्रीडनं संभविष्यति ॥१२०॥
यद्यन्यथा वदेर्वाक्यं त्वामहं रतिवर्द्धन॥
तदात्मकगृतपुण्यस्य न भवेयं हि भागिनी ॥१२१॥
या गतिर्ब्रह्महत्यायां कुत्सिता प्राप्यते नरैः॥
तां गतिं हि प्रपद्येऽहं यद्येतदनृतं भवेत् ॥१२२॥
मद्यं हि पिबतो ब्रह्मन् ब्राह्मणस्य दुरात्मनः॥
या गतिर्विहिता घोरा तां गतिं प्राप्नुयाम्यहम् ॥१२३॥
गुरुदारप्रसक्तस्य जतोः पापनिषेविणः॥
या गतिस्तां द्विजश्रेष्ठ मिथ्या प्रोच्य समाप्नुयाम् ॥१२४॥
स्वर्णन्यासापहरणे मेदिनीहरणे च या॥
आत्मनो हनने या हि विहिता मुनिभिर्द्विज ॥१२५॥
गतिस्तामनुगच्छामि यद्येतदनृतं वदे॥
पंचम्यां च तथाष्टम्यां यत्पापं मांसभक्षणे ॥१२६॥
स्त्रीसंगमे तरुच्छेदे यत्पापं शशिनः क्षये॥
यदुच्छिष्टे घृतं भोक्तुर्मैथुनेन दिवा च यत् ॥१२७॥
वैश्वदेवमकर्तुश्च गृहिणो हि द्विजस्य यत्॥
भिक्षामदातुर्भिक्षुभ्यो विधवाया द्विभोजनात् ॥१२८॥
तैलं भोक्तुश्च संक्रांतौ गोभिस्तीर्थं च गच्छतः॥
तथा मृदमनुद्धृत्य स्नातुः परजलाशये ॥१२९॥
निषिद्धवृक्षजनितं दंतकाष्ठं च खादतः॥
गामसेवयतो बद्ध्वा पाखंडपथगामिनः ॥१३०॥
पितृदेवार्चनं कर्तुः काष्ठग्रावस्थितस्य यत्॥
गोहीनां महिषीं धर्तुर्भिन्नकांस्ये च भुंजतः ॥१३१॥
अधौतभिन्नपारक्यवस्त्रसंवीतकर्मिणः॥
नग्रस्त्रीप्रेक्षणं कर्तुरभक्ष्यस्य च भोजिनः ॥१३२॥
कथायां श्रीहरेर्विघ्नं कर्तुर्यत्पातकं द्विज॥
तेन पापेन लिप्येऽहं यदि वच्मि तवानृतम् ॥१३३॥
उक्तान्येतानि पापानि यान्यनुक्तान्यपि द्विज॥
सर्वेषां भागिनी चाहं यद्येतदनृतं वदे ॥१३४॥
एवं संबोधितो देवि भर्ता मे पापया तया॥
तथेति निश्चयं चक्रे भवितव्येन मोहितः ॥१३५॥
निर्द्रव्यो व्ययसनासक्तो मद्वाक्यकलुषीकृतः॥
उवाच राक्षसीं वाक्यं सर्वंसिद्धिप्रदायकम् ॥१३६॥
शीघ्रमानय तां शक्तिं करोमि वचनं तव॥
सर्वमेतत्प्रदेयं हि त्वया मे राक्षसे हते ॥१३७॥
द्रव्याशया प्रविष्टोऽहं सागरं तिमिसंकुलम्॥
तच्छ्रुत्वा राक्षसी शक्तिं समानीय नगस्थिताम् ॥१३८॥
ददौ मद्भर्तृसिद्ध्यर्थं विमुंचंतीं महार्चिषम्॥
एतस्मिन्नेव काले तु राक्षसः काममोहितः ॥१३९॥
गमनायोद्यतः कन्यां सा भीता वाक्यमब्रवीत्॥
कुमारीसेवने रक्षो महापापं विधीयते ॥१४०॥
छलेनाहं हृता काश्याः सुप्ता पितृगृहात्वया॥
तव दोषो न चेहास्ति भवितव्यं ममेदृशम् ॥१४१॥
गुहामध्यगतायास्तुको मे त्राता भविष्यति॥
विधियोगाद्भवेद्भर्ता विधियोगाद्भवेत्प्रिया ॥१४२॥
भवेद्विधिवशाद्विद्या गृहं सौख्यं धनं कुलम्॥
विधिना प्रेर्यमाणस्तु जनः सर्वत्र गच्छति ॥१४३॥
अवश्यं भविता भर्ता त्वमेव रजनीचर॥
विधइना विहिते मार्गे किं करिष्यति पंडितः ॥१४४॥
तस्मादानयत विप्रं शालवृक्षाश्रित त्विह॥
घृतं जलं कुशानग्निं विवाहं विधिना कुरु ॥१४५॥
विनापि दर्भतोयाग्नीन्न्यथोक्तविधिमतरा॥
ब्राह्मणस्यैव वाक्येन विवाहः सफलो भवेत् ॥१४६॥
न हतो यदि विप्रस्तु भार्यया तव राक्षस॥
वृत्ते होमस्य कार्ये तु तं भवान् भक्षयिष्यति ॥१४७॥
एवमुक्ते तु वचने तया वै राजकन्यया॥
विश्वस्तमानसो दर्पान्निर्जगाम स राक्षसः ॥१४८॥
सत्वरं हृच्छयाविष्टस्तमानेतुं बहिः स्थितः ॥१४९॥
तस्य निर्गच्छतो देवि क्षुतमासीत्स्वयं किल॥
सव्यं चाप्यस्फुरन्नेत्रं स्ववस्त्रं स्खलितं तथा ॥१५०॥
अनाहृत्य तु तत्सर्वं निर्गतोऽसौ दरीमुखात्॥
बिभ्राणां मानुषं रूपं स्वामपश्यन्नितंबिनीम् ॥१५१॥
घटयंतीं तु संबंधं भार्याभर्तृसमुद्भवम्॥
परित्यजामि त्वां पापं राक्षसं क्रूरकर्मिणम् ॥१५२॥
मानुषीप्रमदासक्तं मच्छरीरस्य दूषकम्॥
तच्छ्रुत्वा दारुणं वाक्यं भार्यया समुदीरितम्॥
ईर्ष्याकोपसमायुक्तस्त्वभ्यधावन्निशाचरः ॥१५३॥
उत्क्षिप्य बाहू प्रविदार्य वक्त्रं संप्रस्थितो भक्षयितुं स चोभौ॥
कालेन वेगात्पवनो यथैव समुच्चरन्वाक्यमनर्थयुक्तम् ॥१५४॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलोपाख्यानं नाम सप्तविंशोऽध्यायः ॥२७॥
N/A
References : N/A
Last Updated : May 09, 2012
TOP