उत्तरभागः - अध्यायः ४६
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
वसुरुवाच॥
अथ ते संप्रवक्ष्यामि भुक्तिमुक्तिप्रदायकम्॥
तृतीयदिवसे कृत्यं गयासंगफलप्रदम् ॥१॥
स्नात्वा तु ब्रह्मसरसि श्राद्धं कुर्यात्सपिंडकम्॥
"स्नानं करोमि तीर्थेऽस्मिन्नृणत्रयविमुक्तये ॥२॥
श्राद्धाय पिंडदानाय तर्पणायार्थसिद्धये"॥
तत्कूपयूपयोर्मध्ये कुर्वंस्तारयते पितॄन् ॥३॥
स्नानं कृत्वच्छ्रितो यूपो ब्रह्मणो यूप इत्युत॥
कृत्वा ब्रह्मसरः श्राद्धं ब्रह्मलोकं नयेत्पितॄन् ॥४॥
गोप्रचार समीपस्था आम्रा ब्रह्मप्रकल्पिताः॥
तेषां सेचनमात्रेण पितरो मोक्षगामिनः ॥५॥
"आम्रं ब्रह्मसरोद्भूतं सर्वदेवमयं विभुम्॥
विष्णुरूपं प्रसिंचामि पितॄणां चैव मुक्तये ॥६॥
एको मुनिः कुम्भकुशाग्रहस्त आम्रस्य मूले सलिलं ददाति॥
आम्राश्च सिक्ताः पितरश्च तृप्ता एका क्रिया व्द्यर्थकरीप्रसिद्धा"॥
आचम्य मूले सलिलं ददानो नोपेक्षणीयो विबुधैर्मनुष्यः ॥७॥
यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत्॥
ब्रह्माणं च नमस्कृत्य पितॄन् ब्रह्मपुरं नयेत् ॥८॥
"ॐ नमो ब्रह्मणेऽजाय जगज्जन्मादिकारिणे॥
भक्तानां च पितॄणां च तरकाय नमोनमः" ॥९॥
ततो यमबलिं क्षिप्त्वा मन्त्रेणानेन संयतः॥
"यमराजधर्मराजौ निश्चलार्था इति स्थितौ ॥१०॥
ताभ्यां बलिं प्रयच्छामि पितॄणां मुक्तिहेतवे"॥
ततः श्वानबलिं कृत्वा पूर्वमन्त्रेण मोहिनि ॥११॥
ततः काकबलिं कुर्यान्मन्त्रेणानेन संयतः॥
"ऐंद्रवारुणवायव्या याम्या वैनैऋतास्तथा ॥१२॥
वायसाः प्रतिगृह्णन्तु भूमौ पिंडं मयार्पितम्"॥
ततः स्नानं प्रकुर्वीत ब्रह्मतीर्थे कुशान्वितः ॥१३॥
एवं तृतीयदिवसे समाप्य नियमं सुधीः॥
नत्वा गदाधरं देवं ब्रह्मचर्यपरो भवेत् ॥१४॥
फल्गुतीर्थे चतुर्थे च स्नानादिकमथाचरेत्॥
गयाशिरस्यथो श्राद्धं पदे कुर्यात्सपिंडकम् ॥१५॥
साक्षाद्गयाशिरस्तत्र फल्गुतीर्थाश्रयं कृतम्॥
क्रौंचपादात्फल्गुतीर्थँ यावत्साक्षाद्गयाशिरः ॥१६॥
गयाशिरे नगाद्याश्च साक्षात्तत्फलगुतीर्थकम्॥
मुखं गयासुरस्यैतत्स्नात्वा श्राद्धं समाचरेत् ॥१७॥
आद्यो गदाधरो देवो व्यक्ताव्यक्तार्थमास्थितः॥
विष्ण्वादिपदरूपेण पितॄणां मुक्तिहेतवे ॥१८॥
तत्र विष्णुपदं दिव्यं दर्शनात्पापनाशनम्॥
स्पर्शनात्पूजनाच्चापि पितॄणां मोक्षदायकम् ॥१९॥
श्राद्धं सपिंडकं कृत्वा सहस्रकुलमात्मनः॥
विष्णुलोकं समुद्धृत्य नयेद्विष्णुपदे नरः ॥२०॥
श्राद्धं कृत्वा रुद्रपदे नयेत्कुलशतं नरः॥
सहात्मना शिवपुरं तथा ब्रह्मपदे शुभे ॥२१॥
दक्षिणाग्निपदे श्राद्धी वाजपेयफलं लभेत्॥
गार्हपत्यपदे श्राद्धी राजसूयफलं लभेत् ॥२२॥
श्राद्धँ कृत्वा चंद्रपदे वाजिमेधफलं लभेत्॥
श्राद्धं कृत्वा सत्यपदे ज्योतिष्टोमफलं लभेत् ॥२३॥
आवसथ्यपदे श्राद्धी सोमलोकपवाप्नुयात्॥
श्राद्ध कृत्वा चंद्रपदे शक्रलोकं नयेत्पितॄन् ॥२४॥
अन्येषां च पदे श्राद्धी पितॄन्ब्रह्मपदे नयेत्॥
श्राद्धी सूर्यपदे यश्च पापिनोऽर्कपुरं नयेत् ॥२५॥
कार्तिकेयपदे श्राद्धी शिवलोके नयेत्पितॄन्॥
श्राद्धँ कृत्वागस्त्यपदे ब्रह्मलोकं नयेत्पितॄन् ॥२६॥
सर्वेषां काश्यपं श्रेष्ठं विष्णो रुद्रस्य वै पदम्॥
ब्रह्मणश्च पदं तत्र सर्वश्रेष्ठमुदाहृतम् ॥२७॥
प्रारंभे च समाप्तौ च तेषामन्यतमं स्मृतम्॥
श्रेयस्करं भवेत्तत्र श्राद्धकर्तुश्च मोहिनि ॥२८॥
कश्यपस्य पदे दिव्यो भारद्वाजो मुनिः पुरा॥
श्राद्धं हि चोद्यतो दातुं पित्रादिभ्यश्च पिंडकम् ॥२९॥
शुक्लकृष्णौ तदा हस्तौ पदमुद्भिद्य निष्कृतौ॥
दृष्ट्वा हस्तद्वयं तत्र पितृसंशयमागतः ॥३०॥
ततः स्वमातरं शांतां भारद्वाजस्तु पृष्टवान्॥
कश्यपस्य पदे कस्मिञ्छुक्ले कृष्णे पदे पुनः ॥३१॥
पिंडो देयो मया मातर्जानासि पितरं वद॥
तच्छ्रुत्वा वचनं तस्य भारद्वाजस्य धीमतः ॥३२॥
शांतोवाच प्रसन्नास्या पुत्रं श्राद्धप्रदायिनम्॥
भारद्वाज महाप्राज्ञ पिंडं कृष्णाय देहि भोः ॥३३॥
भारद्वाजस्ततः पिंडं दातुं कृष्णाय चोद्यतः॥
श्वेतो दृश्योऽब्रवीत्पुत्र देहि पुत्रो ममौरसः ॥३४॥
कृष्णोऽब्रवीत् क्षेत्रजस्त्वं ततो मे देहि पिंडकम्॥
शुक्लोऽब्रवीत्स्वौरिणीयं यतोऽतस्त्वं ममौरसः ॥३५॥
स्वैरिणीजो ददौ चादौ क्षेत्रिणे बीजिने ततः॥
ततो भक्त्या महाभागे दत्वापिंडान्महामतिः ॥३६॥
कृतकृत्यं निजात्मानं मेने प्रत्यक्षभाषणात्॥
भीष्मो विष्णुपदे श्राद्ध आहूय तु पितॄन्स्वकान् ॥३७॥
श्राद्धं कृत्वा विधानेन पिंडदानाय चोद्यतः॥
पितुर्विनिर्गतौ हस्तौ गयाशिरसि शंतनोः ॥३८॥
भीष्मः पिंडं ददौ भूमौ नाधिकरः करे यतः॥
शंतनुः प्राह संतुष्टः शास्त्रार्थे निश्चलो भवान् ॥३९॥
त्रिकालदर्शी भव च विष्णुश्चांते गतिस्तव॥
स्वेच्छया मरणं चास्तु इत्युक्त्वा मुक्तिमागतः ॥४०॥
रामो रुद्रपदे रम्ये पिंडार्पणकृतोद्यमः॥
पिता दशरथः स्वर्गात्प्रसार्य करमागतः ॥४१॥
नादात्पिंडं करे रामो ददौ रुद्रपदे ततः॥
शास्त्रार्थातिक्रमाद्भीतो रामं दशरथोऽब्रवीत् ॥४२॥
तारितोऽहं त्वया पुत्र रुद्रलोको ह्यभून्मम॥
पदे पिंडप्रदानेन हस्ते तु स्वर्गतिर्नहि ॥४३॥
त्वं च राज्यं चिरं कृत्वा पालयित्वा निजाः प्रजाः॥
यज्ञान्सदक्षिणान्कृत्वा विष्णुलोकं गमिष्यसि ॥४४॥
सहायोध्याजनैः सर्वैः कृमिकीटादिभिः सह॥
इत्युक्त्वा स नृपो रामं रुद्रलोकं परं ययौ ॥४५॥
कनकेशं च केदारं नारसिंहं च वामनम्॥
रथमार्गे समभ्यर्च्य पितॄन्सवाश्च तारयेत् ॥४६॥
गयाशिरसि यः पिंडं येषां नाम्ना तु निर्वपेत्॥
नरकस्था दिवं यांति स्वर्गस्था मोक्षगामिनः ॥४७॥
गयाशिरसि यः पिंडं शमीपत्रप्रमाणतः॥
कंदमूलफलाद्यैर्वा दद्यात्स्वर्गं नयेत्पितॄन् ॥४८॥
पदानि यत्र दृश्यंते विष्ण्वादीनां तदग्रतः॥
श्राद्धं कृत्वा पदे येषां तेषां लोकान्नेयात्पितॄन् ॥४९॥
सर्वत्र मुंडपृष्ठाद्रिः पदैरेभिः स लक्षितः॥
प्रयांति पितरस्तत्र पूजिता ब्रह्मणः पदम् ॥५०॥
गयासुरस्य तु शिरो गदया यद्द्विधा कृतम्॥
यतः प्रक्षालिता तीर्थे गदालोलस्तदा स्मृतः ॥५१॥
क्रौंचरूपेण हि मुनिर्मुंडपृष्ठे तपोऽकरोत्॥
तस्य पादांकको यस्मात्क्रौंचपादः स्मृतस्ततः ॥५२॥
विष्ण्वादीना पदान्यत्र लिंगरूपस्थितानि च॥
देवादितर्पणं कृत्वा श्राद्धं रुद्रपदादितः ॥५३॥
चतुर्थदिवसे कृत्यमेतत्कृत्वा तु मोहिनि॥
पूतः कर्माधिकारी स्याच्छ्राद्धकृद्ब्रह्मलोकभाक् ॥५४॥
शिलास्थितेषु तीर्थेषु स्नात्वा कृत्वाथ तर्पणम्॥
श्राद्धं सपिंडकं येषां ब्रह्मलोकं प्रयांति ते ॥५५॥
स्थास्यंति च रमिष्यंति यावदाभूतसंप्लवम्॥
देहं त्यक्त्वा शिलापृष्ठे स्वदेजांडजरायुजाः ॥५६॥
गच्छंति विष्णुसायुज्यं कुलैः सप्तशतैः सह ॥५७॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गयामाहात्म्ये विष्ण्वादिपदे पिंडदानमाहात्म्यकथनं नाम
षट्चत्वारिंशत्तमोऽध्यायः ॥४६॥
N/A
References : N/A
Last Updated : May 09, 2012
TOP