संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ४०

उत्तरभागः - अध्यायः ४०

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


वसुरुवाच॥
अथ कालविशेषे तु गंगास्नानस्य ते फलम् ।
कीर्तयिष्यामि वामोरु सावधाना निशामय ॥१॥

नैरंतर्येण गंगाया माघे स्नाति च यो नरः॥
सशक्रलोके सुचिरं कालं तिष्ठेत्सगोत्रजः ॥२॥

ततो ब्रह्मपुरं याति कल्पकोटिशतायुतैः॥
नैरंतर्येण विधिवद्गङ्गायां स्नाति यो नरः ॥३॥

षण्मासमेककालाशी सकृदेवोत्तरायणे॥
सोऽपि विष्णुपदं याति कुलानां शतमुद्धरन् ॥४॥

संक्रांतिषु तु सर्वासु स्नात्वा गङ्गाजले नरः॥
विमानेनार्कवर्णेन स व्रजेद्विष्णुमंदिरम् ॥५॥

विषुवेऽयनसंक्रांतौ विशेषात्फलमीरितम्॥
तपःसमं कार्तिकेऽपि गङ्गास्नाने फलं विदुः ॥६॥

मेषप्रवेशार्ककाले कार्तिक्यां वापि मोहिनि॥
माघस्नानाधिकं प्राहुः कमलासनपूर्वकाः ॥७॥

संवत्सरस्नानजन्यं फलमक्षयके तिथौ॥
कार्तिके वापि वैशाखे इति प्राह पिता तव ॥८॥

मन्वादौ च युगादौ यत्प्रोक्तं गंगाजले फलम्॥
स्नानैन याज्यवनिते त्रिमास्यापि च तत्फलम् ॥९॥

द्वादश्यां श्रवणर्क्षे च अष्टम्यां पुष्ययोगतः॥
आर्द्रायां च चतुर्दश्यां गंगास्नानं सुदुर्लभम् ॥१०॥

पूर्णिमा माधवे पुण्या तथा कार्तिकमाघयोः॥
अमावस्यास्तथैतेषां गंगास्नाने सुदुर्लभाः ॥११॥

कृष्णाष्टम्यां सहस्रं तु शतं स्‌यात्सर्वपर्वसु॥
अमायां च तथाष्टम्यां माघासितदले सति ॥१२॥

अर्धोदयं तदा पर्वकिंचिन्न्यूनं महोदयः॥
महोदये शतगुणं लक्षमर्द्धोदये स्मृतम्॥। ४०-१३॥

स्नानं गंगाजले देवि ग्रहणाच्चन्द्रसूर्ययोः॥
मासत्रयस्नानफलं फाल्गुनाषाढ मासयोः ॥१४॥

जन्मर्क्षे तु कृते स्नाने गंगायां भक्तिभावतः॥
जन्मप्रभृति पापं वै संचितं हि विनश्यति ॥१५॥

चतुर्दश्यां माघकृष्णे व्यतीपातश्च दुर्लभः॥
कृष्णाष्टम्यां विशेषेण वैधृतिर्जाह्नवीजले ॥१६॥

माघं सकलमेवापि नरो यो विधिपूर्वकम्॥
अरुणोदयके स्नायी स तु जातिस्मरो भवेत् ॥१७॥

सर्वशास्त्रार्थविज्ज्ञानी नीरोगश्च भवेद्भ्रुवम्॥
संक्रांत्यां पक्षयोरंते ग्रहणे चंद्रसूर्ययोः ॥१८॥

गंगास्नातो नरः कामाद्ब्रह्मणः सदनं लभेत्॥
इंदोर्लक्षगुणं प्रोक्तं रवेर्दशगुणं ततः ॥१९॥

गंगातीरे तु संप्राप्ता इंदोः कोटी रवेर्दश॥
वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी॥
गंगायां यदि लभ्येत सूर्यग्रहशतैः समा ॥२०॥

ज्येष्ठे मासि क्षितिसुतदिने शुक्लपक्षे दशम्यां हस्ते शैलादवतरदसौ जाह्नवी मर्त्यलोकम्॥
पापान्यस्यां हरति हि तिथौ सा दशैषाद्यगंगा पुण्यं दद्यादपि शतगुणं वाजिमेधक्रतोश्च ॥२१॥

महापातकसंघानि यानि पापानि संति मे॥
गोविंदद्वादशीं प्राप्य तानि मे हन जाह्नवि ॥२२॥

मघासंज्ञेन ऋक्षेण चंद्रः संपूर्णमंडलः॥
गुरुणा याति संयोगं तन्महत्वं तिथेः स्मृतम् ॥२३॥

गंगायां यदि लभ्येत सूर्यग्रहशतैः समा॥
अथ देशविशेषेण स्नानस्य फलमुच्यते ॥२४॥

कुरुक्षेत्राद्दशगुणा यत्र तत्रावगाहिता॥
कुरुक्षेत्राच्छतगुणा यत्र विंध्येन संयुता ॥२५॥

विंध्याच्छतगुणा प्रोक्ता काशीपुर्यां तु जाह्नवी॥
सर्वत्र दुर्लभा गंगा त्रिषु स्थानेषु चाधिका ॥२६॥

गंगाद्वारे प्रयागे च गंगासागरसंगमे॥
एषु स्नाता दिवं यांति ये मृतास्तेऽपुनर्भवाः ॥२७॥

गंगाद्वारे कुशावर्ते स्नाने पुण्यफलं श्रृणु॥
सप्तानां राजसूयानां फलं स्यादश्वमेधयोः ॥२८॥

उषित्वा तत्र मासार्द्धं षण्णां विश्वजितां फलम्॥
दशायुतानां तु गवां दानपुण्यं विदुर्बुधाः ॥२९॥

सरोत्तमेऽथ गोविंदं रुद्रं कनखले स्थितम्॥
स्नात्वा वाप्येषु गंगायां पुण्यमक्षयमाप्नुयात् ॥३०॥

तीर्थं च सौकरं नाम महापुण्यं शुभे श्रृणु॥
यस्मिन्नाविरभूत्पूर्वं वाराहाकृतिरच्युतः ॥३१॥

शतस्याग्निचितां पुण्यं ज्योतिष्टोमद्वयस्य च॥
अग्निष्टोमसहस्रस्य फलमाप्नोति मानवः ॥३२॥

तत्रैव ब्रह्मणस्तीर्थे ज्योतिष्टोमायुतस्य च॥
अश्वमेधत्रयस्यापि स्नातः पुण्यं लभेन्नरः ॥३३॥

कुब्जाख्यं तीर्थमनघं यत्र च व्याधयोऽखिलाः॥
नश्यंति सर्वजन्मोत्थं पातकं चापि मोहिनि ॥३४॥

अत्रान्यत्कापिलं तीर्थं यत्र स्नातो नरः शुभे॥
कपिलाष्टायुतस्यापि दानतुल्यफलं लभेत् ॥३५॥

गंगाद्वारे कुशावर्ते बिल्वके नीलपर्वते॥
तीर्थे कनखले स्नात्वा धूतपापो व्रजेद्दिवम् ॥३६॥

पवित्रार्थं ततस्तीर्थं सर्वतीर्थोत्तमोत्तमम्॥
द्वयोर्विश्वजितोस्तत्र स्नानात्पुण्यं लभेन्नरः ॥३७॥

वेणीराज्यं ततस्तीर्थं सरयूर्यत्र गंगया॥
सुपुण्यया महापुण्या स्वसा स्वस्रेव संगता ॥३८॥

हरेर्दक्षिणपादाब्जक्षालनादमरापगा॥
वामपादोद्भवा वापि सरयूर्मानसप्रसूः ॥३९॥

तीर्थे तत्रार्चयन् रुद्रं विष्णुं विष्णुत्वमाप्नुयात्॥
पञ्चाश्वमेधफलदं स्नानं तत्र प्रकीर्तितम् ॥४०॥

ततस्तु गांडवं तीर्थं गंडकी यत्र संगता॥
गोसहस्रस्य दानं च तत्र स्नानं समं द्वयम् ॥४१॥

रामतीर्थं ततः पुण्यं वैकुंठं यत्र सन्निधौ॥
सोमतीर्थं ततः पुण्यं यत्रासौ नकुलो मुनिः ॥४२॥

समभ्यर्च्य शिवं ध्यायन्गणतां तु समाययौ॥
चंपकाख्यं पुण्यतीर्थं यद्गंगोत्तरवाहिनी ॥४३॥

मणिकर्णिकया तुल्यं महापातकनाशनम्॥
कलशाख्यं ततस्तीर्थं कलशादुत्थितो मुनिः ॥४४॥

अगस्त्यः पूजयन्यत्र रुद्रं मुनिवरोऽभवत्॥
सोमद्वीपं महापुण्यं तीर्थं वाराणसीसमम् ॥४५॥

सोमो यत्रार्चयन्नीशं रुद्रेण शिरसा धृतः॥
विश्वामित्रस्य भगिनी गंगया यत्र संगता ॥४६॥

तत्राप्लुतो नरो भूयाद्वासवस्य प्रियोऽतिथिः॥
जह्नुह्रदे महातीर्थे स्नातो मर्त्यो हि मोहिनि ॥४७॥

एकविंशतिकुल्यानां तारको भवति ध्रुवम्॥
तस्माददितितीर्थं च यत्रावापादितिर्हरिम् ॥४८॥

कश्यपात्तत्र सुभगे स्नानमाहुर्महोदयम्॥
शिलोच्चयं महातीर्थँ यत्र तप्त्वा तपः प्रजाः ॥४९॥

तृणादिभिः सह स्वर्गं यांति तीर्थगणाश्रयात्॥
इंद्राणीनामतीर्थं स्याद्यत्रेंद्राणी तु वासवम् ॥५०॥

तपस्तप्त्वा पतिं लेभे सेव्यमेतत्प्रयागवत्॥
पुण्यदं स्नातकं तीर्थं विश्वामित्रस्तपश्चरन् ॥५१॥

यत्र ब्रह्मर्षितां लेभे क्षत्त्रियस्तीर्था सेवया॥
प्रद्युम्नतीर्थं तपसा ख्यातं यत्र स्मरो हरेः ॥५२॥

प्रद्युम्ननामा पुत्रोऽभूत्परं तत्र महोदयम्॥
ततो दक्षप्रयागं तु गंगातो यमुनागत ॥५३॥

स्नात्वा तत्राक्षयं पुण्यं प्रयाग इव लभ्यते ॥५४॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गंगामाहात्म्ये स्थलविशेषस्नानफलकथनं नाम चत्वारिंशत्तमोऽध्यायः ॥४०॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP