उत्तरभागः - अध्यायः ७१
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
अथ पुष्करमाहात्म्यं प्रारभ्यते॥
मोहिन्युवाच॥
श्रुतं प्रभासमाहात्म्यं द्रिजश्रेष्ठातिपुण्यदम्॥
अधुना श्रोतुमिच्छामि माहात्म्यं पुष्करोद्भवम् ॥१॥
यदाद्यंसर्वतीर्थानां पवित्रं पापनाशनम्॥
मत्पितुर्यज्ञसदनं तन्ममाख्याहि विस्तरात् ॥२॥
वसुरुवाच॥
श्रृणु भद्रे प्रवक्ष्यामि नराणां कामदं सद॥
पुण्यंपुष्करमाहात्म्यं बहुतीर्थसमन्वितम् ॥३॥
विष्णुना सहिता देवा यत्रेन्द्राद्या व्यवस्थिताः॥
गजवक्त्रः कुमारश्च रैवतश्च दिवाकरैः ॥४॥
शिवदूति तथा देवी क्षेत्रक्षेमंकरी सदा॥
ज्येष्ठे तु पुष्करारण्ये यस्तिष्ठति निरुद्यमी ॥५॥
अष्टांगयोगजं पुण्यं स लभेन्नात्र संशयः॥
नातः परतरं किंछित्क्षेत्रमस्तीह भूतले ॥६॥
तस्मात्सर्वप्रयत्नेन सेव्यमेतन्नरोत्तमैः॥
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्रा वा क्षेत्रवासिनः ॥७॥
सर्वात्मना ब्रह्मभक्ताभूतानुग्रहकारिणः॥
ते यांति ब्रह्मणो लोकं यत्र गच्छंति योगिनः ॥८॥
यो नरः सर्वतीर्थेषु यत्फलं लभते प्लुतः॥
तत्सर्वं स लभेन्मर्त्यो ज्येष्ठकुंडेसकृत्प्लुतः ॥९॥
पुष्करारण्यमासाद्य यत्र प्राची सरस्वती॥
मतिः स्मृतिर्दया प्रज्ञा मेधा बुद्धिसमाह्वया ॥१०॥
तत्रस्थं तज्जलं येऽपि प्रपश्यंति तटे स्थिताः॥
तेऽप्यश्वमेधयज्ञस्य फलं प्राप्य व्रजंति कम् ॥११॥
त्रीणि श्रृंगाणि शुभ्राणि त्रीणि प्रस्रवणानि च॥
ज्येष्ठमध्यकनिष्ठानि त्रीणि तत्र सरांसि च ॥१२॥
तत्रान्यत्सुमहत्तीर्थं नंदा नाम सरस्वती॥
यत्र पश्चिमदिश्यास्ते सरसो योजने सति ॥१३॥
तत्र स्नात्वा विधानेन गां च दत्त्वा पयस्विनीम्॥
विप्राय वेदविदुषे व्रजेद्ब्रह्मक्षयं नरः ॥१४॥
कोटितीर्थं तथात्रास्ति यत्रर्षिकोटिरागता॥
तत्र स्नात्वा द्विजान्प्रार्च्य मुच्यते सर्वपातकैः ॥१५॥
अगस्त्याश्रममासाद्य स्नात्वा संपूज्य कुंभजम्॥
दीर्घायुर्जायते भोगी देहांते स्वर्गतिं लभेत् ॥१६॥
सप्तर्षीणां तथा प्राप्य तत्राश्रममनन्यधीः॥
स्नात्वा संपूज्य भक्त्या ताँल्लभते तत्सलोकताम् ॥१७॥
मनूनामाश्रमे स्नात्वा पूजामाप्नोति सर्वतः॥
गंगाविनिर्गमे स्नात्वा गंगास्नानफलं लभेत् ॥१८॥
ज्येष्ठे तु पुष्करे स्नात्वा गां च दत्त्वा द्विजातये॥
भुक्त्वेह भोगानखिलान्ब्रह्मलोके महीयते ॥१९॥
मध्यमे पुष्करे स्नात्वा ब्राह्मणाय महीं ददत्॥
विष्णुलोकमवाप्नोति विमानवरमास्थितः ॥२०॥
कनिष्ठे तु नरः स्नात्वा दत्त्वा विप्राय कांचनम्॥
सर्वान्कामानवाप्यांते रुद्रलोके महीयते ॥२१॥
ततो विष्णुपदे स्नात्वा दत्त्वा किञ्चिद्द्विजातये॥
लभते सकलान्कामान् विष्णोश्चैव प्रसादतः ॥२२॥
नागतीर्थे ततः स्नात्वा नागानभ्यर्च्य मानवाः॥
दत्त्वा दानं द्विजातिभ्यः मोदते त्रिदिवेयुगम् ॥२३॥
पिशाचतीर्थके स्नात्वा दत्त्वा विप्राय भोजनम्॥
न कदाचित्पिशाचत्वं प्राप्नोति त्रिविदं व्रजेत् ॥२४॥
शिवदूतीह्रदेस्नात्वा तत्र शंभुं समर्च्य च॥
विप्रान्संभोज्य मिष्टान्नं स्वर्गलोके महीयते ॥२५॥
आकाशपुष्करे स्नात्वा मंत्रयोगफलप्रदे॥
नरो मुक्तिमवाप्नोति सत्यं सत्यं तवोदितम् ॥२६॥
आपोहिष्ठादिभिर्मंत्रैराकाशस्थं विचिंत्य तत्॥
स्नायाद्यः पुष्करारण्ये स लभेच्छाश्वतं पदम् ॥२७॥
आग्नेयं तु यदा ऋक्षं कार्तिक्यां भवति क्वचित्॥
महती सा तिथिस्तत्र स्नानमाकाशपुष्करे ॥२८॥
याम्यर्क्षयोगे कार्तिक्यां मध्यमे स्नानकृन्नरः॥
तत्फलं समवाप्नोति यन्नभः पुष्करोद्भवम् ॥२९॥
प्राजापत्यर्क्षयुक्तायां कार्तिक्यां तु कनिष्टके॥
स्नातस्तत्फलमाप्नोति यद्वियत्पुष्करोद्भवम् ॥३०॥
नंदा चार्के गुरौ सोमे याम्ये वह्नौ विधौ क्रमात्॥
यदा नभः पुष्करोत्थं तदा स्यात्सकलं फलम् ॥३१॥
विशाखायां यदा भानुः कृत्तिकायां च चंद्रमाः॥
तदा नभः पुष्कराख्ये योगे स्नातो दिवं व्रजेत् ॥३२॥
अंतरिक्षावतीर्णेऽस्मिंस्तीर्थे पैतामहे शुभे॥
कुर्वंति ये नराः स्नानं तेषां लोका महोदयाः ॥३३॥
पंचस्नोतःसरस्वत्यां पुष्करारण्यके सति॥
कृतानि मुनिभिः सिद्धैस्तीर्थान्यायतनानि च ॥३४॥
तेषु सर्वेषु विज्ञेया धर्महेतुः सरस्वती॥
हाटकक्षितिगौरिणां दानं तेषु महाफलम् ॥३५॥
धान्यान्यपि तिलांश्चापि योऽत्र दद्याद्द्विजोत्तमे॥
स नरो लभते भोगानिहामुत्र परां गतिम् ॥३६॥
संगे गंगासरस्वत्योर्यः स्नात्वा पूजयेद्द्विजान्॥
स प्राप्नोति गतिं चाग्र्यां भुक्त्वा भोगानिहेप्सितान् ॥३७॥
अवियोगाभिधायां तु वाप्यां स्नात्वा नरः सति॥
पिंडं दत्त्वा विधानेन पितॄन्नयति वै दिवम् ॥३८॥
तथा सौभाग्यकूपे तु स्नात्वा सतर्प्य पूर्वजान्॥
सद्गतिं लभते मर्त्यो सौभाग्यं चातुलं भुवि ॥३९॥
मर्यादापर्वतौ द्वौ तु स्नात्वा स्पृष्ट्वा समर्च्य च॥
वांछिताँल्लभते लोकान्सांगयात्राफलं तथा ॥४०॥
अजगंधं शिवं प्राप्य समभ्यर्च्य विधानतः॥
लभने वांछितान्कामानिह लोके परत्र च ॥४१॥
सरसो दक्षिणे भागे सावित्रीं पर्वतोपरि॥
संस्थितां यः समभ्यर्चेत्सोऽपि वेदस्य तत्त्ववित् ॥४२॥
वाराहस्य नृसिंहस्य ब्रह्मणस्य हरेस्तथा॥
शिवस्य चापि सूर्यस्य सोमस्य च गुहस्य च ॥४३॥
पार्वत्या ज्वलन स्यापि तत्र तीर्थानि मोहिनि॥
पृथक् तेषु महाभागे नरः स्नात्वा समाहितः ॥४४॥
दानं च दत्त्वा विप्रेभ्यो लभते गतिमुत्तमाम्॥
पुष्करे दुर्लभं स्नानं पुष्करे दुर्लभं तपः ॥४५॥
पुष्करे दुर्लेभे दानं पुष्करे दुर्लभा स्थितिः॥
शतयोजनसंस्थोऽपि स्नानकाले तु यो नरः ॥४६॥
पुष्करं चिंतयेद्भक्त्या स तत्स्नानफलं लभेत्॥
मंकणाद्यास्तपःसिद्धाः सेवन्ते पुष्करं मुदा ॥४७॥
यत्र तत्र गतो भाग्यात्कामितां सिद्धिमाप्नुयात्॥
पुष्करेति च नामापि येनोक्तं विधिनंदिनि ॥४८॥
पुष्करस्नानजं पुण्यं लभेत्सोऽपि न संशयः॥
यः श्रृणोति नरो भक्त्या माहात्म्यं पुष्करस्य च ॥४९॥
सोऽपि स्नानफलं प्राप्य मोदते दिवि देववत् ॥५०॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे वसुमोहिनीसंवादे पुष्करमाहात्म्यं नामैकसप्ततितमोऽध्यायः ॥७१॥
इति पुष्करमाहात्म्यं समाप्तम्॥
N/A
References : N/A
Last Updated : May 09, 2012
TOP