उत्तरभागः - अध्यायः ३९
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
वसुरुवाच॥
श्रृणु मोहिनि वक्ष्यामि गंगाया दर्शने फलम्॥
यदुक्तं हि पुराणेषु मुनिभिस्तत्त्वदर्शिभिः ॥१॥
भवंति निर्विषाः सर्पा यथा तार्क्ष्यस्य दशनात्॥
गंगासंदर्शनात्तद्वत्सर्वपापैः प्रमुच्यते ॥२॥
सप्तावरान् सप्तपरान् पितृंस्तेभ्यश्च ये परे॥
पुमांस्तारयते गंगां वीक्ष्य स्पृष्ट्वावगाह्य च ॥३॥
दर्शनात्स्पर्शनात्पानात्तथा गंगेति कीर्तनात्॥
पुमान्पुनाति पुरुषाञ्छतशोऽथ सहस्रशः ॥४॥
ज्ञानमैश्वर्यमतुलं प्रतिष्ठायुर्यशस्तथा ।
शुभानामाश्रमाणां च गंगादर्शनजं फलम् ॥५॥
सर्वेन्द्रियाणां चांचल्यं व्यसनानि च पातकम्॥
निर्घृणत्वं च नश्यंति गंगादर्शन मात्रतः ॥६॥
परहिंसा च कौटिल्यं परदोषाद्यवेक्षणम्॥
दांभिकत्वं नृणां गंगादर्शनादेव नश्यति ॥७॥
मुहुर्मुहुस्तथा पश्येत्स्पृशेद्वापि मुहुर्मुहुः॥
भक्त्या यदिच्छति नरः शाश्वतं पदमव्ययम् ॥८॥
वापीकूपतडागादिप्रपासत्रादिभिस्तथा॥
अन्यत्र यद्भवेत्पुण्यं तद्गंगादर्शनाद्भवेत् ॥९॥
यत्फलं जायते पुंसां दर्शने परमात्मनः॥
तद्भवेदेव गंगाया दर्शनाद्भक्तिभावतः ॥१०॥
नैमिषे च कुरुक्षेत्रे नर्मदायां च पुष्करे॥
स्नानात्संस्पर्शना सेव्य यत्फलं लभते नरः ॥११॥
तद्गंगादर्शनादेव कलौ प्राहुर्महर्षयः॥
अथ ते स्मरणस्यापि गंगाया भूपभामिनि ॥१२॥
प्रवक्ष्यामि फलं यत्तु पुराणेषु प्रकीर्तितम्॥
अशुभैः कर्मभिर्युक्तान्मज्जमानान्भवार्णवे ॥१३॥
पततो नरके गङ्गा स्मृता दूरात्समुद्धरेत्॥
योजनानां सहस्रेषु गंगां स्मरति यो नरः ॥१४॥
अपि दुष्कृतकर्मा हि लभते परमां गतिम्॥
स्मरणादेव गंगायाः पापसंघातपंजरम् ॥१५॥
भेदं सहस्रधा याति गिरिर्वज्रहतो यथा॥
गच्छंस्तिष्ठन्स्वपन्ध्यायञ्जाग्रद्भुंजन् हसन् रुदन् ॥१६॥
यः स्मरेत्सततं गंगां स च मुच्येत बंधनात्॥
सहस्रयोजनस्थाश्च गंगां भक्त्या स्मरंति ये ॥१७॥
गंगागंगेति चाक्रुश्य मुच्यंते तेऽपि पातकात्॥
ये च स्मरंति वै गंगां गंगाभक्तिपराश्च ये ॥१८॥
तेऽप्यशेषैर्महापापैर्मुच्यंते नात्र संशयः॥
भवनानि विचित्राणि विचित्राभरणाः स्त्रियः ॥१९॥
आरोग्यं वित्त्रसंपत्तिर्गंगास्मरणंज फलम्॥
मनसा संस्मरेद्यस्तु गंगां दूरस्थितो नरः ॥२०॥
चांद्रायणसहस्रस्य स फलं लभते ध्रुवम्॥
गङ्गा गङ्गा जपन्नाम योजनानां शते स्थितः ॥२१॥
मुच्यते सर्वपापेभ्यो विष्णुलोकं च गच्छति॥
कीर्तनान्मुच्यते पापाद्दर्शनान्मंगलं लभेत् ॥२२॥
अवगाह्य तथा पीत्वा पुनात्यासप्तमं कुलम्॥
सप्तावपरान्परान्सप्त सप्ताथ परतः परान् ॥२३॥
गंगा तारयते पुंसां प्रसंगेनापि कीर्तिता॥
अश्रद्धयापि गंगाया यत्तु नामानुकीर्तनम् ॥२४॥
करोति पुण्यवाहिन्याः सोऽपि स्वर्गस्य भाजनम्॥
सर्वावस्थां गतो वापि सर्वधर्मविवर्जितः ॥२५॥
गंगायाः कीर्तनेनैव शुभां गतिमवाप्नुयात्॥
ब्रह्महा गुरुहागोघ्नः स्पृष्टो वा सर्वपातकैः ॥२६॥
गंगातोयं नरः स्पृष्ट्वा मुच्यते सर्वपातकैः॥
कदा द्रक्ष्यामि तां गंगां कदा स्नानं लभे ह्यहम् ॥२७॥
इति पुंसाभिलषिता कुलानां तारयेच्छतम्॥
अथ स्नानफलं देवि गंगायाः प्रवदामि ते ॥२८॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः॥
स्नातस्य गंगासलिले सद्यः पापं प्रणश्यति ॥२९॥
अपूर्वपुण्यप्राप्तिश्च सद्यो मोहिनि जायते॥
स्नातानां शुचिभिस्तोयैर्गांगेयैः प्रयतात्मनाम् ॥३०॥
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि॥
अपहत्य तमस्तीव्रं यथा भात्युदये रविः ॥३१॥
तथापहत्य पाप्मानं भाति गंगाजलोक्षितः॥
एकेनैवापि विधिना स्नानेन नृपसुन्दरि ॥३२॥
अश्वमेधफलं मर्त्यो गंगायां लभते ध्रुवम्॥
अनेकजन्मसंभूतं पुंसः पापं प्रणश्यति ॥३३॥
स्नानमात्रेण गंगायाः सद्यः स्यात्पुण्यभाजनम्॥
अन्यस्थानकृतं पापं गंगातीरे विनश्यति ॥३४॥
गंगातीरे कृतं पापं गङ्गास्नानेन नश्यति॥
रात्रौ दिवा च संध्यायां गंगायां तु प्रयत्नतः ॥३५॥
स्नात्वाश्वमेधजं पुण्यं गृहेऽप्युद्धृततज्जलैः॥
सर्वतीर्थेषु यत्पुण्यं सर्वेष्टायतनेषु च ॥३६॥
तत्फलं लभते मर्त्यो गङ्गास्नानान्न संशयः॥
महापातकसंयुक्तो युक्तो वा सर्वपातकैः ॥३७॥
गङ्गास्नानेन विधिवन्मुच्यते सर्वपातकैः॥
गङ्गा स्नानात्परं स्नानं न भूतं न भविष्यति ॥३८॥
विशेषतः कलियुगे पापं हरति जाह्नवी॥
निहत्य कामजान्दोषान्कायवाक्चित्तसंभवान् ॥३९॥
गङ्गास्नानेन भक्त्या तु मोदते दिवि देववत्॥
वर्षं स्नाति च गंगायां यो नरो भक्तिसंयुतः ॥४०॥
तस्य स्याद्वैष्णवे लोके स्थितिः कल्पं न संशयः॥
आमृत्युं स्नाति गंगायां यो नरो नित्यमेव च ॥४१॥
समस्तपापनिमुक्तः समस्तकुलसंयुतः॥
समस्तभोगसंयुक्तो विष्णुलोके महीयते ॥४२॥
परार्द्धद्वितयं यावन्नात्र कार्या विचारणा॥
गंगायां स्नाति यो मर्त्यो नैरंतर्येण नित्यदा ॥४३॥
जीवन्मुक्तः स चात्रैव मृतो विष्णुपदं व्रजेत्॥
प्रातःस्नानाद्दशगुणं पुण्यं मध्यंदिने स्मृतम् ॥४४॥
सायंकाले शतगुणमनन्तं शिवसन्निधौ॥
कपिलाकोटिदानाद्धि गंगास्नानं विशिष्यते ॥४५॥
कुरुक्षेत्रसमा गंगा यत्र तत्रावगाहिता॥
हरिद्वारे प्रयागे च सिंधुसंगे फलाधिका ॥४६॥
ये मदीयांशुसंतप्ते जले ते स्नांति जाह्नवि॥
ते भित्वा मंडलं यांति मोक्षं चेति रवेर्वचः ॥४७॥
यो गृहे स्वे स्थितोऽपि त्वां स्नाने संकीर्तयिष्यति॥
सोऽपि यास्यति नाकं वै इत्याह वरुणश्च ताम् ॥४८॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते गंगास्नानमाहात्म्यं नामैकोनचत्वारिंशोऽध्यायः ॥३९॥
N/A
References : N/A
Last Updated : May 09, 2012
TOP