उत्तरभागः - अध्यायः ३८
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
वसुरुवाच॥
श्रृणु मोहिनी वक्ष्यामि तीर्थानां लक्षणं पृथक्॥
येन विज्ञातमात्रेण पापिनां गतिरुत्तमा ॥२॥
सर्वेषामपि तीर्थानां श्रेष्ठा गंगा धरातले॥
न तस्या सदृशं किंचिद्विद्यते पापनाशनम् ॥३॥
तच्छ्रुत्वा वचनं तस्य वसोः स्वस्य पुरोधसः॥
प्रणता मोहिनी प्राह गंगास्नानकृतादरा ॥४॥
मोहिन्युवाच॥
भगवन्वाडवश्रेष्ठ गंगामाहात्म्यमुत्तमम्॥
सर्वेषां च पुराणानां संमतं वद सांप्रतम् ॥५॥
श्रुत्वा माहात्म्यमतुलं गंगायाः पापनाशनम्॥
पश्चात्पापविनाशिन्यां स्नातुं यास्ये त्वया सह ॥६॥
तच्छ्रुत्वा मोहिनीवाक्यं वसुः सर्वपुराणवित्॥
माहात्म्यं कथयामास गंगायाः पापनाशनम् ॥७॥
वसुरुवाच॥
ते देशास्ते जनपदास्ते शैला स्तेऽपि चाश्रमाः॥
येषां भागीरथी पुण्या समीपे वर्तते सदा ॥८॥
तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः॥
तां गतिं न लभेज्जंतुर्गंगां संसेव्य यां लभेत् ॥९॥
पूर्वे वयसि पापानि कृत्वा कर्माणि ये नराः॥
शेषे गंगां निषेवंते तेऽपि यांति परां गतिम् ॥१०॥
तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान्॥
मासमेकं तु गंगायां स्नातस्तुल्यफलावुभौ ॥११॥
तिष्ठेतार्वाक्छिरा यस्तु युगानामयुतं पुमान्॥
तिष्ठेद्यथेष्टं यश्चापि गंगायां स विशिष्यते ॥१२॥
भूतानामिह सर्वेषां दुःखोपहतचेतसाम्॥
गतिमन्वेषमाणानां न गंगासदृशी गतिः ॥१३॥
प्रकृष्टैः पातकै र्घोरैः पापिनः पुरुषाधमान्॥
प्रसह्य तारयेद्गुंगा गच्छतो निरयेऽशुचौ ॥१४॥
ते समानास्तु मुनिभिर्नूनं देवैः सवासवैः॥
येऽभिगच्छंति सततं गंगामभिमतां सुरैः ॥१५॥
अंधाञ्जडान्द्रव्यहीनांश्च गंगा संपावयेद्बृहती विश्वरूपा॥
देवैः सेंद्रैर्मुनिभिर्मानवैश्च निषेविता सर्वकालं समृद्ध्ये ॥१६॥
पक्षादौ कृष्णपक्षे तु भूमौ संनिहिता भवेत्॥
यावत्पुण्या ह्यमावास्या दिनानि दश मोहिनि ॥१७॥
शुक्लप्रतिपदादेश्च दिनानि दश संख्यया॥
पाताले सन्निधानं तु कुरुते स्वयमेव हि ॥१८॥
आरभ्य शुक्लैकादश्या दिनानि दश यानि तु॥
पंचम्यं तानि सा स्वर्गे भवेत्सन्निहिता सदा ॥१९॥
कृते तु सर्वतीर्थानि त्रेतायां पुष्करं परम्॥
द्वापरे तु कुरुक्षेत्रं कलौ गंगा विशिष्यते ॥२०॥
कलौ तु सर्वतीर्थानि स्वं स्वं वीर्यं स्वभावतः॥
गंगायां प्रतिमुंचंति सा तु देवी न कुत्रचित् ॥२१॥
गंगांभः कणदिग्धस्य वायोः संस्पर्शनादपि॥
पापशीला अपि नराः परां गतिमवाप्नुयुः ॥२२॥
योऽसौ सर्वगतो विष्णुश्चित्स्वरूपी जनार्दनः॥
स एव द्रवरूपेण गंगांभो नात्र संशयः ॥२३॥
ब्रह्महा गुरुडा गोघ्नः स्तेयी च गुरुतल्पगः॥
गंगांभसा च पूयंते नात्र कार्या विचारणा ॥२४॥
क्षेत्रस्थमृद्धृतं वापि शीतमुष्णमथापि वा॥
गांगेयं तु हरेत्तोयं पापमामरणांतिकम् । ३८-२५॥
वर्ज्यं पर्युषितं तोयं वर्ज्यं पुर्युषितं दलम्॥
न वर्ज्यं जाह्नवीतोयं न वर्ज्यं तुलसीदलम् ॥२६॥
मेरोः सुवर्णस्य च सर्वरत्नैः संख्योपलानामुदकस्य वापि॥
गंगाजलानां न तु शक्तिरस्ति वक्तुं गुणाख्यापरिमाणमत्र ॥२७॥
तीर्थयात्राविधिं कृत्स्नमकुर्वाणोऽपि यो नरः॥
गंगातोयस्य माहात्म्यात्सोऽप्यत्र फलभाग्भवेत् ॥२८॥
चिंतामणिगुणाच्चापि गंगायास्तोयबिंदवः॥
विशिष्टा यत्प्रयच्छंति भक्तेभ्यो वांछितं फलम् ॥२९॥
गंडूषमात्रतो भक्त्या सकूद्गंगांभसा नरः॥
कामधेनु स्तनोद्भूतान्भुंक्ते दिव्यरसान्दिवि ॥३०॥
शालग्रामशिलायां यस्तु गंगाजलं क्षिपेत्॥
अपहत्य तमस्तीव्रं भाति सूर्यो यथोदये ॥३१॥
मनोवाक्कायजैर्ग्रस्तः पापैर्बहुविधैरपि॥
वीक्ष्य गंगां भवेत्पूतः पुरुषो नात्र संशयः ॥३२॥
गंगातोयाभिषिक्तां तु भिक्षामश्नाति यः सदा॥
सर्पवत्कंचुकं मुक्त्वा पापहीनो भवेत्स वै ॥३३॥
हिमवद्विंध्यसदृशा राशयः पापकर्मणाम्॥
गंगांभसा विनश्यंति विष्णुभक्त्या यथापदः ॥३४॥
प्रवेशमात्रे गंगायां स्नानार्थं भक्तितो नृणाम्॥
ब्रह्महत्यादिपापानि हाहेत्युक्त्वा प्रयांत्यलम् ॥३५॥
गंगातीरे वसेन्नित्यं गंगातोयं पिबेत्सदा॥
यः पुमान्स विमुच्येत पातकैः पूर्वसंचितैः ॥३६॥
यो वै गंगां समाश्रित्य नित्यं तिष्ठति निर्भयः॥
स एव देवैर्मर्त्यैश्च पूजनीयो महर्षिभिः ॥३७॥
किमष्टांगेन योगेन किं तपोभिः किमध्वरैः॥
वास एव हि गंगायां सर्वतोऽपि विशिष्यते ॥३८॥
किं यज्ञैर्बहुभिर्जाप्यैः किं तपोभिर्धनार्पणैः॥
स्वर्गमोक्षप्रदा गंगा सुखसेव्या यतः स्थिता ॥३९॥
यज्ञैर्यमैश्च नियमैर्दानैः संन्यासतोऽपि वा॥
न तत्फलमवाप्रोति गंगां सेव्य यदाप्नुयात् ॥४०॥
प्रभासे गोसहस्त्रेण राहुग्रस्ते दिवाकरे॥
यत्फलं लभते मर्त्यो गंगायां तद्दिनेन वै ॥४१॥
अन्योपायांश्च यस्त्यक्त्वा मीक्षकामः सुनिश्चितः॥
गंगातीरे सुखं तिष्ठेत्स वै मोक्षस्य भाजनम् ॥४२॥
वाराणस्यां विशेषण गंगा सद्यस्तु मोक्षदा॥
प्रतिमासं चतुर्दश्यामष्टम्यां चैव सर्वदा ॥४३॥
गंगातीरे निवासश्च यावज्जीवं च सिद्धिदः॥
कृच्छ्राणि सर्वदा कृत्वा यत्फलं सुखमश्नुते ॥४४॥
सदा चांद्रायणं चैव तल्लभेज्जाह्नवीतटे॥
गंगासेवापरस्येह दिवसार्द्धेन यत्फलम् ॥४५॥
न तच्छक्यं ब्रह्मसुते प्राप्तुं क्रतुशतैरपि॥
सर्वयज्ञतपोदानयोगस्वाध्यायकर्मभिः ॥४६॥
यत्फलं तल्लभेद्भक्त्या गंगातीरनिवासतः॥
यत्पुण्यं सत्यवचनैर्नैष्ठिकब्रह्मचारिणाम् ॥४७॥
यदग्निहोत्रिणां पुण्यं तत्तु गंगानिवासतः॥
समातृपितृदाराणां कुलकोटिमनंतकम् ॥४८॥
गंगाभक्तिस्तारयते संसारार्णवतो ध्रुवम्॥
संतोषः परमैश्वर्यं तत्त्वज्ञानं सुखात्मनाम् ॥४९॥
विनयाचारसंपत्तिर्गंगाभक्तस्य जायते॥
कृतकृत्यो भवेन्मर्त्यो गंगां प्राप्यैव केवलम् ॥५०॥
तद्भक्तस्तत्परश्च स्यान्मृतो वापि न संशयः॥
भक्त्या तज्जलसंस्पर्शी तज्जलं पिबते च यः ॥५१॥
अनायासेन हि नरो मोक्षोपायं स विंदति॥
दीक्षितः सर्वयज्ञेषु सोमपानं दिने दिने ॥५२॥
सर्वाणि येषां गंगायास्तोयैः कृत्यानि सर्वदा॥
देहं त्यक्त्वा नरास्ते तु मोदंते शिवसन्निधौ ॥५३॥
देवाः सोमार्कसंस्थानि यथा शक्रादयो मुखैः॥
अमृतान्युपभुंजंति तथा गंगाजलं नराः ॥५४॥
कन्यादानैश्च विधिवद्भूमिदानैश्च भक्तितः॥
अन्नदानैश्च गोदानैः स्वर्णदानादिभिस्तथा ॥५५॥
रथाश्वगजदानैश्च यत्पुण्यं परिकीर्तितम्॥
ततः शतगुणं पुण्यं गंगांभश्चुलुकाशनात् ॥५६॥
चांद्रायणसहस्राणां यत्फलं परिकीर्तितम्॥
ततोऽधिकफलं गंगातोयपानादवाप्यते ॥५७॥
गंडूषमात्रपाने तु अश्वमेधफलं लभेत्॥
स्वच्छंदं यः पिबेदंभस्तस्य मुक्तिः करे स्थिता ॥५८॥
त्रिभिः सारस्वतं तोयं सप्तभिस्त्वथ यामुनम्॥
नार्मदं दशभिर्मासैर्गांगं वर्षेण जीर्यति ॥५९॥
शास्त्रेणाकृततोयानां मृतानां क्वापि देहिनाम्॥
तदुत्तरफलावाप्तिर्गंगायामस्थियोगतः ॥६०॥
चांद्रायणसहस्रं तु यश्चरेत्कायशोधनम्॥
यः पिबेत्तु यथेष्ठं हि गंगाम्भः स विशिष्यते ॥६१॥
गंगां पश्यति यः स्तौति स्नाति भक्त्या पिबेज्जलम्॥
स स्वर्गं ज्ञानममलं योगं मोक्षं च विंदति ॥६२॥
यस्तु सूर्य्यांशुनिष्टप्तं गांगेयं पिबते जलम्॥
गोमूत्रयावकाहाराद्गांगपानं विशिष्यते ॥६३॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गंगामाहात्म्यवर्णनं नामाष्टत्रिंशत्तमोऽध्यायः ॥३८॥
N/A
References : N/A
Last Updated : May 09, 2012
TOP