उत्तरभागः - अध्यायः ७९
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
अथ मथुरामाहात्म्यमारभ्यते॥
मोहिन्युवाच॥
श्रुतं ह्यवंत्या माहात्म्यं वसो पापहरं नृणाम्॥
अधुना श्रोतुमिच्छामि माहात्म्यं मथुराभवम् ॥१॥
वसुरुवाच॥
श्रृणु मोहिनि वक्ष्यामि मथुरायाः शुभावहम्॥
वैभवं यत्र भगवाञ्जातः पद्मभुवार्थितः ॥२॥
आविर्भूय विभुस्तत्र संप्राप्तो नंदगोकुलम्॥
तत्र स्थित्वाखिलाः क्रीडाश्चकार सहगोपकैः ॥३॥
हत्वा च कंसप्रहितान्पूतनादीन्निशाचरान्॥
विजहार स गोपीभिर्वनेषु द्वादशस्वपि ॥४॥
वनेषु यानि तीर्थआनि संति यानि च माथुरे॥
तानि तेऽहं प्रवक्ष्यामि श्रृणु मोहिनि सांप्रतम् ॥५॥
आद्यं मधुवनं नाम स्रातो यत्र नरोत्तमः॥
संतर्प्य देवर्षिपितॄन्विष्णुलोके महीयते ॥६॥
अथ तालाह्वयं देवि द्वितीयं वनमुत्तमम्॥
यत्र स्नातो नरो भक्त्वा कृतकृत्यः प्रजायते ॥७॥
कुमुदाख्यं तृतीयं तु यत्र स्नात्वा सुलोचने॥
लभते वांछितान्कामानिहामुत्र च मोदते ॥८॥
ततः काम्यवनं नाम चतुर्थं परिकीर्तितम्॥
बहुतीर्थान्वितं यत्र गत्वा स्याद्विष्णुलोकभाक् ॥९॥
यत्तत्र विमलं कुंडं सर्वतीर्थोत्तमोत्तमम्॥
तत्र स्नातो नरो भद्रे लभते वैष्णवं पदम् ॥१०॥
पंचमं बहुलाख्यं तु वनं पापविनाशनम्॥
यत्र स्नातस्तु मनुजः सर्वान्कामानवाप्नुयात् ॥११॥
अस्ति भद्रवनं नाम षष्ठं स्नातोऽत्र मानवः॥
कृष्णदेवप्रसादेन सर्वभद्राणि पश्यति ॥१२॥
खादिरं तु वन देवि सप्तमं यत्र मानवः॥
स्नानमात्रेण लभते तद्विष्णोः परमं पदम् ॥१३॥
महावनं चाष्टमं तु सदैव हरिवल्लभम्॥
तद्दृष्ट्वा मनुजो भक्त्या शक्रलोके महीयते ॥१४॥
लोहजंघं तु नवमं वनं यत्राप्लुतो नरः॥
महाविष्णुप्रसादेन भुक्तिं मुक्तिं च विंदति ॥१५॥
बिल्वारण्यं तु दशमं यत्र स्नातः सुमध्यमे॥
शैवं वा वैष्णवं वापि याति लोकं निजेच्छया ॥१६॥
एका दशं तु भांडीरं योगिनामतिवल्लभम्॥
यत्र स्नातो नरो भक्त्या सर्वपापैर्विमुच्यते ॥१७॥
वृन्दावनं द्वादशं तु सर्वपापनिकृंतनम्॥
यत्समं न धरापृष्टे वनमस्त्यपरं सति ॥१८॥
यत्र स्नातस्तु मनुजो देवर्षिपितृतर्पणम्॥
कृत्वा ऋणत्रयान्मुक्तो विष्णुलोके महीयते ॥१९॥
विंशति र्योजनानां तु माथुरं परिमंडलम्॥
यत्र कुत्राप्लुतस्तत्र विष्णुभक्तिमवाप्नुयात् ॥२०॥
तन्मध्ये मथुरा नाम पुरी सर्वोत्तमोत्तमा॥
यस्या दर्शनं मात्रेण भक्तिं विंदति माधवे ॥२१॥
विश्रांतिसंज्ञकं यत्र तीर्थरत्नं नरेश्वरि॥
तत्र स्नातो नरो भक्त्या वैष्णवं लभते पदम् ॥२२॥
विश्रांतिर्निकटे दक्षे विमुक्त तीर्थमुत्तम्॥
तत्र स्नातो नरो भक्त्या मुक्तिमाप्नोति निश्चितम् ॥२३॥
ततोऽपि दक्षिणे भागे रामतीर्थं जनेश्वरि॥
यत्र स्नातो नरोऽज्ञानबंधान्भुक्तो भवेद्ध्रुवम् ॥२४॥
संसारमोक्षण तस्माद्दक्षिणे तीर्थमुत्तमम्॥
तत्र स्नात्वा तु मनुजो विष्णुलोके महीयते ॥२५॥
प्रयागाख्यं ततो दक्षे तीर्थं त्रिदशदुर्लभम्॥
स्नातस्तत्र नरो देवि अग्निष्टोमफलं लभेत् ॥२६॥
ततः कनखलं तीर्थँ यत्र स्नातो नरः सति॥
स्वर्गमासाद्य देहांते मोदते नंदनादिषु ॥२७॥
तद्दक्षे तिन्दुकं तीर्थं यस्मिन्स्नुतो नरोत्तमः॥
राजसूयफलं प्राप्य मोदते दिवि देववत् ॥२८॥
ततः परं पटुस्वामितीर्थं भास्करवल्लभम्॥
स्नात्वा यत्र रविं दृष्ट्वा भुक्तभोगो दिवं व्रजेत् ॥२९॥
तस्माद्दक्षिणतो भद्रे ध्रुवतीर्थमनुत्तमम्॥
यत्र स्नातो ध्रुवं दृष्ट्वा लभते वैष्णवं पदम् ॥३०॥
ध्रुवतीर्थात्ततो दक्षे तीर्थं सप्तर्षिसेवितम्॥
तत्र स्नात्वा मुनीन्दृष्ट्वा ऋषिलोके प्रमोदते ॥३१॥
दक्षिणे ऋषितीर्थस्य मोक्षतीर्थमनुत्तमम्॥
यत्र वै स्नानमात्रेण मुच्यते सर्वपापतः ॥३२॥
तद्दक्षे बोधिनीतीर्थं स्नात्वा यत्र तु मानवः॥
दत्वा पिंडं पितृभ्यश्च नयेत्तांस्त्रिदशालयम् ॥३३॥
तद्दक्षे कोटितीर्थँ वै यत्र स्नानेन मानवः॥
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ॥३४॥
विश्रांतेरुत्तरे भागे तीर्थमस्त्यसिकुंडकम्॥
यत्र स्नातो नरो देवि वैष्णवं लभते पदम् ॥३५॥
असिकुंडस्य सौम्ये तु नवतीर्थं सुलोचने॥
यत्र वै स्नानतो मर्त्यः स्वर्गलोके महीयते ॥३६॥
तीर्थं संयमनं नाम तत उत्तरतः स्थितम्॥
तत्र स्नानेन दानेन यमलोकं न पश्यति ॥३७॥
तदुत्तरे परं तीर्थं धारायतनसंज्ञिकम्॥
तत्र स्नात्वा तु मनुजः पितृभिः सह मोदते ॥३८॥
तदुत्तरे नागतीर्थं यत्र स्नानेन मोहिनि॥
सर्पेभ्यो ह्यभयं लब्ध्वा स्वर्गे लोके महीयते ॥३९॥
तदुत्तरं ब्रह्मलोकं घंटाभरणकाह्वयम्॥
स्नानात्पापापहं तीर्थं ब्रह्मलोकगतिप्रदम् ॥४०॥
अस्मात्सौम्ये परं तीर्थं सोमाख्यं यत्र संप्लुतः॥
सोमलोकमवाप्नोति विपापो मनुजोत्तमः ॥४१॥
स्नात्वा प्राचीसरस्वत्यां तस्मादुत्तरतः शुभे॥
यत्र वै स्नानमात्रेण नरो वागीश्वरो भवेत् ॥४२॥
तदुत्तरे चक्रतीर्थं यत्र स्नातस्तु मानवः॥
जित्वा शत्रुगणं स्वर्गे मोदते युगसप्तकम् ॥४३॥
दशाश्वमेधिकं तीर्थं तस्मादुत्तरतः स्थितम्॥
यत्र स्नानेन सुभगे वाजिमेधफलं लभेत् ॥४४॥
गोकर्णाख्यं शिवं तत्र संपूज्य विधिवन्नरः॥
सर्वान्कामानवाप्यांते शिवलोके महीयते ॥४५॥
विघ्नराजाह्वयं तीर्थँ तस्मादुत्तरतः स्थितम्॥
यत्र स्नात्वा ह्यविघ्नेन सर्वकर्मफलं लभेत् ॥४६॥
तदुत्तरे ह्यनंताख्यं तीर्थं तत्राप्लुतोः नरः॥
चतुर्विंशतितीर्थानां माथुराणां फलं लभेत् ॥४७॥
मथुरायां महाभागे साक्षाद्देवो हरिः स्थितः॥
चतुर्व्यूहस्वरूपेण माथुराणां विमुक्तिदः ॥४८॥
एका वाराहमूर्तिश्च परा नारायणाह्वया॥
वामनाख्या तृतीया च चतुर्थी हलधारिणी ॥४९॥
चतुर्व्ग्रहधरं दृष्ट्वा समभ्यर्च्य विधानतः॥
नरो मुक्तिमवाप्नोति नात्र कार्या विचारणा ॥५०॥
रंगेशं चापि भूतेशं महाविद्यां च भैरवम्॥
दृष्ट्वा संपूज्य विधिवत्तीर्यात्राफलं लभेत् ॥५१॥
चतुःसामुद्रिके कूपे कुब्जायाश्च गणेशितुः॥
तथा कृष्णाख्यगंगायां स्नात्वा मुच्येत पातकात् ॥५२॥
सर्वस्य माथुराख्यस्य मंडलस्य शुभानने॥
आधिपत्ये स्थितो देवः केशवः क्लेशनाशनः ॥५३॥
अदृष्ट्वा केशवं भद्रे माथुरे पुण्यमंडले॥
जनुर्निरर्थकं तस्य संसरेद्भवसागरे ॥५४॥
अन्यान्यसंख्यतीर्थानि तत्र सन्ति शुभानने॥
स्नात्वा तेष्वपि दत्त्वा च किंचित्तत्र स्थिताय च ॥५५॥
नगे न दुर्गतिं याति सत्यं तुभ्यं मयोदितम्॥
मथुरायाश्च माहात्म्यं श्रावयेद्यः श्रृणोति च॥
सोऽपि भक्तिं हरौ लब्ध्वा सर्वान्कामानवाप्नुयात् ॥५६॥
इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे मथुरामाहात्म्यवर्णनं नामैकोनाशीतितमोऽध्यायः ॥७९॥
इति मथुरामाहात्म्यम्॥
N/A
References : N/A
Last Updated : May 09, 2012
TOP