उत्तरभागः - अध्यायः ४५
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
वसुरुवाच॥
श्रृणु मोहिनि वक्ष्यामि पुण्यं प्रेतशिलाभवम्॥
माहात्म्यं यत्र दत्वा तु पिंडान्पितॄन्समुद्धरेत् ॥१॥
आच्छादितशिलापादः प्रभासेनात्रिणा ततः॥
प्रभासो मुनिभिस्तुष्टः शिलांगुष्ठानिर्गतः ॥२॥
अंगुष्ठस्थित ईशोऽपि प्रभासेशः प्रकीर्तितः॥
शिलांगुष्ठैकदेशो यः सा च प्रेतशिला स्थिता ॥३॥
पिंडदानाद्यतस्तस्मात्प्रेतत्वान्मुच्यते नरः॥
महानदी प्रभासात्र्योः संगमे स्नानकृन्नरः ॥४॥
वामदेवः स्वयं भूयाद्वामतीर्थं ततः स्मृतम्॥
प्रार्थितोऽथ महानद्यां रामस्नातोऽभवद्यदा ॥५॥
रामतीर्थं त्वत्रजातं सर्वलोकसुपावनम्॥
जन्मांतरसहस्रैस्तु यत्कृतं पातकं नरैः ॥६॥
तत्सर्वं विलयं याति रामतीर्थाभिषेचनात्॥
मंत्रेणानेन यः स्नात्वा श्राद्धं कुर्वीत मानवः ॥७॥
रामतीर्थे पिंडदस्तु विष्णुलोके महीयते॥
"रामराम महाबाहो देवानामभयंकर ॥८॥
त्वां नमस्ये तु देवेश मम नश्यतु पातकम्"॥
नमस्कृत्य प्रभासेशं भासमानं शिवं व्रजेत् ॥९॥
तं च शंभुं नमस्कृत्य कुर्याद्याम्यबलिं ततः॥
"आपस्त्वमसि देवेशँ ज्योतिषां पतिरेव च ॥१०॥
पापं नाशय मे शीघ्रं मनोवाक्कायकर्म्मजम् "॥
शिलाया जघनं भूयः समाक्रांतं यमेन च ॥११॥
धर्मराजेनाद्रिरुक्तो न गच्छेति नगः स्मृतः॥
यमराजधर्मराजौ निश्चलायेह संस्थितौ ॥१२॥
ताभ्यां बलिमकृत्वा स्याद्गयाश्राद्धमपार्थकम्॥
"श्वानौ द्वौ श्यामशबलौ वैवस्वतकुलोद्भवौ ॥१३॥
ताभ्यां पिंडं प्रदास्यामि स्यातामेतावहिंसकौ"॥
तीर्थे प्रेतशिलादौ च चरुणा सघृतेन च ॥१४॥
पितॄनावाह्य तेभ्यश्च मंत्रैः पिंडांस्तु निर्वपेत्॥
कृत्वा ध्यानं पितॄणां तु प्रयतः प्रतपर्वते ॥१५॥
प्राचीनावीतिको भूयाद्दक्षिणाभिमुखः स्मरन्॥
"कव्यवालोऽनलः सोमो यमश्चैवार्यमा तथा ॥१६॥
अग्निष्वात्ता बर्हिषदः सोमपाः पितृदेवताः॥
आगच्छंतु महाभागा युष्माभी रक्षितास्त्विह ॥१७॥
मदीयाः पितरो ये च कुले जाताः सनाभयः॥
तेषां पिंडप्रदानार्थमागतोऽस्मि गयामिमाम् ॥१८॥
ते सर्वे तृप्तिमायांतु श्राद्धेनानेन शाश्वतीम्"॥
आचम्योक्त्वाथ पंचांगं प्राणानायम्ययत्नतः ॥१९॥
पुनरावृत्तिरहितब्रह्मलोकाप्तिहेतवे॥
एवं संकल्प्य विवच्छ्राद्धं कुर्याद्यथाक्रमम् ॥२०॥
पितॄनावाह्य चाभ्यर्च्य मंत्रैः पिंडप्रदो भवेत्॥
प्रज्वाल्य पूर्वं तत्स्थानं पंचगव्यैः पृथक् पृथक् ॥२१॥
दत्वा श्राद्धं सपिंडानां तेषां दक्षिणभागतः॥
कुशैरास्तीर्य तेषां तु संकृद्दत्वा तिलोदकम् ॥२२॥
गृहीत्वांजलिना तेभ्यः पितृतीर्थेन यत्नतः॥
सक्तना मुष्टिमात्रेण दद्यादक्षय्यपिंडकम् ॥२३॥
तिलाज्यदधिमध्वादि पिंडद्रव्येषु योजयेत्॥
संबधिनस्तिलाद्यैश्च कुशैष्वावाहयेत्ततः ॥२४॥
एतांस्तु मंत्रांस्त्रीञ्छ्राद्धे स्त्रीलिंगान्वै समुच्चरेत्॥
पिंडान्दद्याद्यथा पूर्वं पितॄनावाह्य पूर्ववत् ॥२५॥
स्वगोत्रे वा विगोत्रे वा दंपत्योः पिंडपातने॥
अपृथङ्निष्फलं श्राद्धं पिंडं चोदकतर्पणम् ॥२६॥
पिंडपात्रे तिलान्दत्वा पूरयित्वा शुभोदकैः॥
मंत्रेणानेन पिंडांस्तान्प्रदक्षिणकरं यथा ॥२७॥
परिषिंचेत्त्रिधा सर्वान्प्रणिपत्य क्षमापयेत्॥
पितॄन्विसृज्य चाचम्य साक्षिणः श्रावयेत्सुरान् ॥२८॥
सर्वस्थानेषु चैवं स्यात्पिंडदानं तु मोहिनि॥
गयायां पिंडदाने तु न च कालं विचिंतयेत् ॥२९॥
अधिमासे जनिदिने ह्यस्ते च गुरुशुक्रयोः॥
न त्यजेत्तु गयाश्राद्धं सिंहस्थे च बृहस्पतौ ॥३०॥
दंडं प्रदर्शयेद्भिक्षुर्गयां गत्वा न पिंडदः॥
न्यस्य विष्णुपदे दंडं मुच्यते पितृभिः सह ॥३१॥
पायसेन गयायां च सक्तुना पिष्टकेन वा॥
चरुणा तंदुलाद्यैर्वा पिंडदानं विधीयते ॥३२॥
गयां दृष्ट्वा तु सुभगे महापापोऽपि पातकी॥
पूतः कृत्याधिकारी च श्राद्धकृद्ब्रह्मलोकभाक् ॥३३॥
अश्वमेधसहस्राणां सहस्रं यः समाचरेत्॥
नासौ तत्फलमाप्नोति फल्गुतीर्थे यदाप्नुयात् ॥३४॥
गयां प्राप्यार्पयेत्पिंडान्पितॄणां चातिवल्लभान्॥
विलंबो नैव कर्तव्यो नैव विघ्नं समाचरेत् ॥३५॥
पिता पितामहश्चैव तथैव प्रपितामहः॥
माता पितामही चैव तथैव प्रपितामही ॥३६॥
मातामहस्तत्पिता च प्रमातामहकादयः॥
तेषां पिंडोमया दत्तो ह्यक्षय्यमुपतिष्ठताम् ॥३७॥
अस्मत्कुले मृता ये च गतियषां न विद्यते॥
तेषामुद्धरणार्थाय इमं पिण्डंददाम्यहम् ॥३८॥
बंधुवर्गकुले ये च गतिर्येषां न विद्यते॥
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥३९॥
अजातदंता ये केचिद्ये च गर्भे प्रपीडिताः॥
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥४०॥
अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथा परे॥
विद्युच्चौरहता ये च तेभ्यः पिंडं ददाम्यहम् ॥४१॥
दावदाहे मृता ये च सिंहव्याघ्रहताश्च ये॥
दंष्ट्रिभिः श्रृंगिभिर्वापि तेभ्यः पिंडं ददाम्यहम् ॥४२॥
उद्ब्रंधनमृता ये च विषशस्त्रहताश्च ये॥
आत्मनो घातिनो ये च तेभ्यः पिंडं ददाम्यहम् ॥४३॥
अरण्ये वर्त्मनि वने क्षुधया तृषया हताः॥
भूतप्रेतपिशाचैश्च तेभ्यः पिण्डं ददाम्यहम् ॥४४॥
रौरवे ये च तामिस्रे कालसूत्रे च ये स्थिताः॥
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥४५॥
अनेकयातनासंस्थाः प्रेतलोकं च ये गताः॥
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥४६॥
दुर्गतिं समनुप्राप्य अभिशापादिना हताः॥
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥४७॥
नरकेषु समस्तेषु यमदूतवशं गताः॥
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥४८॥
पशुयोनिगता ये च पक्षिकीटसरीसृपाः॥
अथवा वृक्षयोनिस्थास्तेभ्यः पिंडं ददाम्यहम् ॥४९॥
जात्यं तरसहस्रेषु ये भ्रमंति स्वकर्मणा॥
मानुष्यं दुर्लभं येषां तेभ्यः पिंडं ददाम्यहम् ॥५०॥
दिव्यंतरिक्षभूमिष्ठाः पितरो बांधवादयः॥
असंस्कृत मृता ये च तेभ्यः पिंडं ददाम्यहम् ॥५१॥
ये केचित्प्रेतरूपेण वर्तंते पितरो मम॥
ते सर्वे तृप्तिमायांतु पिंडेनानेन सर्वदा ॥५२॥
ये बांधवाबांधवा वा येऽन्यजन्मनि बांधवाः॥
तेषां पिंडो मया दत्ते ह्यक्षय्यमुपतिष्ठताम् ॥५३॥
पितृवंशे मृता ये च मातृवंशे च ये मृताः॥
गुरुश्वशुरबंधूनां ये चान्ये बांधवा मृताः ॥५४॥
ये मे कुले लुप्तपिंडाः पुत्रदारविवर्जिताः॥
क्रियालोपगता ये च जात्यंधाः पंगवश्च ये ॥५५॥
विरूपा आमगर्भाश्च ज्ञातज्ञाताः कुले मम॥
तेषां पिंडो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ॥५६॥
आ ब्रह्मणो ये पितृवंशजाता मातुस्तथा वंशभवा मदीयाः॥
कुलद्वये ये मम संगताश्च तेभ्यः स्वधा पिंडमहं ददामि ॥५७॥
साक्षिणः संतु मे देवा ब्रह्मेशानादयस्तथा॥
मया गयां समासाद्य पितॄणां निष्कृतिः कृता ॥५८॥
आगतोऽस्मि गयां देव पितृकार्ये गदाधर॥
त्वमेव साक्षी भगवाननृणोऽहमृणत्रयात् ॥५९॥
अपरेऽह्नि शुचिर्भूत्वा गच्छेत्तु प्रेतपर्वतम्॥
ब्रह्मकुंडे ततः स्नात्वा देवादींस्तर्पयेत्सुधीः ॥६०॥
कृत्वाह्वानं पितॄणां तु प्रयतः प्रेतपर्वते॥
पूर्ववच्चैव संकल्प्य ततः पिंडान्प्रदापयेत् ॥६१॥
स्वमंत्रैरथ संपूज्य परमाः पितृदेवताः॥
यावंतस्तु तिलाः पुंभिर्गृहीताः पितृकर्मणि ॥६२॥
गच्छंति भीता असुरा स्तावंतो गरुडाहिवत्॥
पूर्ववत्सकलं कर्म कुर्यात्तत्रापि मोहिनि ॥६३॥
तिलमिश्रांस्तथा सक्तून्निःक्षिपेत्प्रेतपर्वते॥
ये केचित्प्रेतरूपेण वर्तंते पितरो मम ॥६४॥
ते सर्वे तृप्तिमायांतु सक्तुभिस्तिलमिश्रितैः॥
आब्रह्मस्तंबपर्यंतं यकिंचित्सचराचरम् ॥६५॥
मया दत्तेन पिंडेन तृप्तिमायांतु सर्वशः॥
आदौ तु पंचतीर्थेषु चोत्तरे मानसे विधिः ॥६६॥
आचम्य कुशहस्तेन शिरश्चिभ्युक्ष्य वारिणा॥
उत्तरं मानसं गत्वा मंत्रेण स्नानमाचरेत् ॥६७॥
उत्तरे नानसे स्नान करोम्यात्भविशुद्धये॥
सूर्यलोकादिसंप्राप्तिसिद्धये पितृमुक्तये ॥६८॥
स्नात्वाथ तर्पणं कुर्याद्देवादीनां यथाविधि॥
आब्रह्मस्तंबपर्यंतं देवर्षिपितृमानवाः ॥६९॥
तृप्यंतु पितरः सर्वे मातृमातामहादयः॥
श्राद्धे सपिंडकं कुर्यात्स्वसूत्रोक्त विधानतः ॥७०॥
अष्टकासु च वृद्धौ च गयायां च क्षयेऽहनि॥
मातुः श्राद्धं पृथक्कुर्यादन्यत्र स्वामिना सर ॥७१॥
"ॐ नमोऽस्तु भानवे भत्रैसोमभौमज्ञरूपिणे॥
जीवभार्गवशनैश्चरराहुकेतुस्वलरूपिणे" ॥७२॥
सूर्यं नत्वार्चयित्वा च सूर्यलोकं नयेत्पितॄन्॥
मानसं हि सरो ह्यत्र तस्मादुत्तरमानसम् ॥७३॥
उत्तरान्मानसान्मौनी व्रजेहक्षिणमानसम्॥
उदीचीतीर्थमित्युक्तं ततोदीच्यां विमुक्तिदम् ॥७४॥
उद्दीच्यां मुंडपृष्टस्य देवर्षिपितृतर्पणम्॥
मध्ये कनखलं तीर्थं पितॄणां गतिदायकम् ॥७५॥
स्नातः कनकवद्भाति नरो याति पवित्रताम्॥
अतः कनखलं लोके ख्यातं तीर्थमनुत्तमम् ॥७६॥
तस्माद्दक्षिणभागे तु तीर्थं दक्षिणमानसम्॥
दक्षिणे मानसे चैवं तीर्तत्रयमुदाहृतम् ॥७७॥
स्नात्वा तेषु विधानेन कुर्याच्छ्राद्धं पृथक् पृथक्॥
"दिबाकर करोमीह स्नानं दक्षिणमानसे ॥७८॥
ब्रह्महत्यादिपापौ३घघातनाय विमुक्तये"॥
अनेन स्नानपूजादि कुर्याच्छ्राद्धं सपिंडकम् ॥७९॥
"नमामि सूर्यं तृप्त्यर्थं पितॄणां तारणाय च॥
पुत्रपौत्रधनैश्वर्य आयुरारोग्यवृद्धये" ॥८०॥
दृष्ट्वा संपूज्य मौनार्कमिमं मंत्रमुदीरयेत्॥
"कव्यवाडादयो ये च पितॄणां देवतास्तथा ॥८१॥
मदीपैः पितृभिः सार्द्धं पर्तिताः स्थ स्वधाभुजः"॥
फल्गुतीर्थँ व्रजेत्तस्मात्सर्वतीर्थोत्तमोत्तमम् ॥८२॥
मुक्तिर्भवति कर्तॄणां पितॄणां श्राद्धतः सदा॥
ब्रह्मणा प्रार्थितो विष्णुः फल्गुको ह्यभवत्पुरा ॥८३॥
दक्षिणाग्रौ कृतं नूनं तद्भवं फल्गुतीर्थकम्॥
यस्मिन्फलति फल्ग्वां गौः कामधेनुर्जलं मही ॥८४॥
सृष्टेरंतर्गतं यस्मात्फल्गुतीर्थँ न निष्फलम्॥
तीर्थानि यानि सर्वाणि भवनेष्वखिलेषु च ॥८५॥
तानि स्नातुं समायांति फल्गुतीर्थँ न संशयः॥
गंगा पादोदकं विष्णोः फल्गुश्चादिगदाधरः ॥८६॥
हिमं च द्रवरूपेण तस्माद्गंगाधिकं विदुः॥
अश्वमेधसहस्राणां फलं फल्गुजलाप्लवात् ॥८७॥
"फल्गुतीर्थे विष्णुजले करोमि स्नानमद्य वै॥
पितॄणां विष्णुलोकाय भुक्तिमुक्तिप्रसिद्धये" ॥८८॥
फल्गुतीर्थे नरः स्नात्वा तर्पणं श्राद्धमाचरेत्॥
सपिंडकं स्वसूत्रोक्तं नमेदथ पितामहम् ॥८९॥
"नमः शिवाय देवाय ईशानपुरुषाय च॥
अघोर वामदेवाय सद्योजाताय शंभव" ॥९०॥
नत्वा पितामहं देवं मंत्रेणानेन पूजयेत्॥
फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् ॥९१॥
आनम्य पितृभिः सार्द्धं स्वं नयेद्वैष्णवं पदम्॥
"ॐ नमो वासुदेवाय नमः संकर्षणाय च ॥९२॥
प्रद्युम्नायानिरुद्धाय श्रीधराय च विष्णवे"॥
पंचतीर्थ्यां नरः स्नात्वा ब्रह्मलोके नयेत्पितॄन् ॥९३॥
अमृतैः पंचभिः स्नातं पुष्पवस्त्राद्यलंकृतम्॥
न कुर्याद्यो गदापाणिं तस्य श्राद्धमपार्थकम् ॥९४॥
नाग कूटाद्गध्रकूटाद्विष्णोश्चोत्तरमानसात्॥
एतद्गयाशिरः प्रोक्तं फल्गुतीर्थँ तदुच्यते ॥९५॥
मुंडपृष्ठनगाधस्तात्फल्गुतीर्थमनुत्तमम॥
अत्र श्राद्धादिना सर्वे पितरो मोक्षमाप्नुयुः ॥९६॥
शमीपत्रप्रमाणेन पिंडं दद्याद्गयाशिरे॥
यन्नाम्ना पातयेत्पिंडं तं नयेद्ब्रह्म शाश्वतम् ॥९७॥
अव्यक्तरूपौ यो देवो मुंडपृष्ठाद्रि रूपतः॥
फल्गुतीर्थादिरूपेण नमस्यति गदाधरम् ॥९८॥
शिलापर्वतफल्ग्वादिरूपेणाव्यक्तमास्थितः॥
गदाधरादिरूपेण व्यक्तमादिधरस्तथा ॥९९॥
धर्मारण्यं ततो गच्छेद्धर्मो यत्र व्यवस्थितः॥
मतंगवाप्यां स्नात्वा तु तर्पणं श्राद्धमाचरेत् ॥१००॥
गत्वा नत्वा मंतगेशमिमं मंत्रमुदीरयेत्॥
"प्रमाणं देवताः शंभुर्लोकपालाश्च साक्षिणः ॥१०१॥
मयागत्य मतंगेऽस्मिन्पितॄणां निष्कृतिः कृता"॥
पूर्वं तु ब्रह्मतीर्थे च कूपे श्राद्धादि कारयेत् ॥१०२॥
तत्कूपयूपयोर्मध्ये कुर्वंस्तुत्रायते पितॄन्॥
धर्मं धर्मेश्वरं नत्वा महाबोधितरुं नमेत् ॥१०३॥
द्वितीयदिवसे कृत्यं मया ते समुदाहृतम्॥
स्नानतर्पणपिंडार्चानत्याद्यैः पितृसौख्यदम् ॥१०४॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गयामाहात्म्ये पिंडदानविधिर्नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥४५॥
N/A
References : N/A
Last Updated : May 09, 2012
TOP