उत्तरभागः - अध्यायः २४
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
राजोवाच॥
यत्त्वया व्याहृतं वाक्यं ममेदं गौतमेरितम्॥
मंदरे पर्वतश्रेष्ठे हरिवासरभोजनम् ॥१॥
अमतेन पुराणानां व्याहृतं यद्द्विजन्मना॥
क्षुद्रशास्त्रोपदेशेन लोलुपेन वरानने ॥२॥
पुराणे निर्णयो ह्येष विद्वद्भिः समुदाहृतः॥
न शंखेन पिबेत्तोयं न हन्यात्कूर्मसूकरौ ॥३॥
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि॥
अगम्यागमने देवि अभक्ष्यस्य च भक्षणे ॥४॥
अकार्यकरणे जंतोर्गोसहस्रवधः स्मृतः॥
जानन्नपि कथं देवि भोक्ष्येऽहं हरिवासरे ॥५॥
पुरोडाशोऽपि वामोरु संप्राप्ते हरिवासरे॥
अभक्ष्येण समः प्रोक्तः किं पुनश्चात्तनक्रिया ॥६॥
अनुकूलं नृणां प्रोक्तं क्षीणानां वरवर्णिनि॥
मूलं फलं पयस्तोयमुपभोज्यं मुनीश्वरैः ॥७॥
नत्वत्र भोजनं कैश्चिदेकादश्यां प्रदर्शितम्॥
ज्वरिणां लंघनं शस्तं धार्मिकाणामुपोषणम् ॥८॥
शुभं गतिप्रदं प्रोक्तं संप्राप्ते हरिवासरे॥
ज्वरमध्ये कृतं पथ्यं निधनाय प्रकल्पते ॥९॥
वैष्णवे तु दिने भुक्तं नरकायैव केवलम्॥
माग्रहं कुरु वामोरु व्रतभंगो भवेन्मम ॥१०॥
यदन्यद्वोचते तुभ्यं तत्कर्तास्मि न संशयः॥
मोहिन्युवाच॥
न चान्यद्रोचते राजन्विना वै भोजनं तव ॥११॥
जीवितस्यापि दानेन न मे किंचित्प्रयोदजनम्॥
न च वेदेषु दृष्टोऽयमुपवासो हरेर्दिने ॥१२॥
अग्निमन्तो न विप्रा हि मन्यंते समुपोषणम्॥
वेदबाह्य कथं धर्मं भवांश्चरितुमिच्छति ॥१३॥
वचो निशम्य मोहिन्या राजा वेदविदां वरः॥
उवाच मानसे क्रुद्धः प्रहसन्निव भूपते ॥१४॥
श्रृणु मोहिनि मद्वाक्यं वेदोऽयं बहुधा स्थितः॥
यज्ञकर्मक्रिया वेदः स्मृतिर्वेदो गृहाश्रमे ॥१५॥
स्मृतिर्वेदः क्रियावेदः पुराणेषु प्रतिष्ठितः॥
पुराणपुंरुषाज्जातं यथेदं जगदद्भुतम् ॥१६॥
तथेदं वाङ्मयं जातं पुराणेभ्यो न संशयः॥
वेदार्थादधिकं मन्ये पुराणार्थँ वरानने ॥१७॥
वेदाः प्रतिष्ठिताः सर्वे पुराणेष्वेव सर्वदा॥
बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥१८॥
न वेदे ग्रहसंचारो न शुद्धिः कालबोधिनी॥
तिथिवृद्धिक्षयो वापि पर्वग्रहविनिर्णयः ॥१९॥
इतिहासपुराणैस्तु निश्चयोऽयं कृतः पुरा॥
यन्न दृष्टं हि वेदेषु तत्सर्वं लक्ष्यते स्मृतौ ॥२०॥
उभयोर्यन्न दृष्टं हि तत्पुराणैः प्रगीयते॥
प्रायश्चित्तं तु हत्यायामातुरस्यौषधं प्रिये ॥२१॥
न चापि पापशुद्धिः स्यादात्मनश्च परस्य वा॥
यद्वेदैर्गीयते सुभ्रु उपांगैर्यत्प्रगीयते ॥२२॥
पुराणैः स्मृतिभिश्चैव वेद एव निगद्यते॥
रटंतीह पुराणानि भूयो भूयो वरानने ॥२३॥
न भोक्तव्यं न भोक्तव्यं संप्राप्ते हरिवासरे॥
पुराणमन्यथा मत्वा तिर्यग्योनिमवाप्नुयात् ॥२४॥
संस्रातोऽपि सुदांतोऽपि न गतिं प्राप्नुयादिति॥
पितरं को न वंदेत मातरं को न पूजयेत् ॥२५॥
को न गच्छेत्सरिच्छ्रेष्ठां को भुंक्ते हरिवासरे॥
को हि दूषयते वेदं ब्राह्मणं को निपातयेत् ॥२६॥
को गच्छेत्परदारान् हि को भुंक्ते हरिवासरे ॥२७॥
नहीदृशं पापमिहास्ति जंतोर्विमूढचित्तस्य दिने हरेः प्रिये॥
यद्भोजनेनात्मनिपातकारिणा यमस्य रवातेषु चिरं सुलोचने ॥२८॥
मोहिन्युवाच॥
शीघ्रमानय विप्रांस्त्वं घूर्णिके वेदपारगान्॥
येषां वाक्येन युक्तोऽयं राजा कुर्याद्धि भोजनम् ॥२९॥
सा तद्वाक्यमुपाकर्ण्य ब्राह्मणान्वेदशालिनः॥
गौतमादीन्समाहूय मोहिनीपार्श्वमानयत् ॥३०॥
तान्विप्रानागतान्दृष्ट्वा वेदवेदांगपारगान्॥
मोहिनी सहिता राज्ञा ववंदे कार्यतत्परा ॥३१॥
उपविष्टास्तु ते सर्वे शातकौंभमयेषु च॥
आसनेषु महीपाल ज्वलदग्निसमप्रभाः ॥३२॥
तेषां मध्ये वयोवृद्धो गौतमो वाक्यमब्रवीत्॥
वयं समागता देवि नानाशास्त्रविशारदाः ॥३३॥
सर्वसंदेहहर्तारो यदर्थं ते समाहुताः॥
तच्छ्रुत्वा वचनं तेषां मोहिनी ब्रह्मणः सुता ॥३४॥
सर्वासाध्यकृतं कर्तुं प्रवृत्तांस्तानुवाच ह॥
मोहिन्युवाच॥
संदेहस्तु जडौ ह्येष स्वल्पो वा स्वमतिर्यथा ॥३५॥
सोऽयं वदति राजा वै नाहं भोक्ष्ये हरेर्दिने॥
अन्नाधारमिदं सर्वं जगत्स्थावरजंगमम् ॥३६॥
मृता ह्यपि तथान्नेन प्रीयन्ते पितरो दिवि॥
कर्कंधुमात्रं प्रहुतं पुरोडाशं हि देवताः ॥३७॥
कामयंति द्विजश्रेष्ठास्ततोऽन्नं ह्यमृतं परम्॥
पिपीलिकापि क्षुधिता मुखेनादाय तण्डुलम् ॥३८॥
बिलं व्रजति दुःखेन कस्यान्नं नहि रोचते॥
अयं खादति नान्नाद्यं संप्राप्ते हरिवासरे ॥३९॥
निजधर्मं परित्यज्य परधर्मे व्यवस्थितः॥
विधावानां यतीनां च युज्यते व्रतसेवनम् ॥४०॥
परधर्मरतो यः स्यात्स्वधर्मविमुखो नरः॥
सोंऽधे तमसि मज्जेत यावदिंद्राश्चतुर्द्दश ॥४१॥
उपवासादिकरणं भूभुजां नोदितं क्वचित्॥
प्रजासंरक्षणं त्यक्त्वा चतुर्वर्गफलप्रदम् ॥४२॥
नारीणां भर्तृशूश्रूषा पुत्राणां पितृसेवनम्॥
शूद्राणां द्विजसेवा च लोकरक्षा महीभृताम् ॥४३॥
स्वकं कर्म परित्यज्य योऽन्यत्र कुरुते श्रमम्॥
अज्ञानाद्वा प्रमादाच्च पतितः स न संशयः ॥४४॥
सोऽयमद्य महीपालो यतिधर्म्मे व्यवस्थितः॥
सुबुद्ध्याचारशीलश्च वेदोक्तं त्यजति द्विजाः ॥४५॥
स्वेच्छाचारा तु या नारी योऽविनीतः सुतो द्विजाः॥
एकांतशीलो नृपतिर्भृत्यः कर्मविवर्जितः ॥४६॥
सर्वे ते नरकं यांति ह्यप्रतिष्ठश्च यो द्विजाः॥
अयं हि नियमोपेतो हरिपूजनतत्परः ॥४७॥
आक्रन्दे वर्त्तमाने तु न यद्येष प्रधावति॥
व्यपोह्य हरिपूजां वै ब्रह्महत्यां तु विंदति ॥४८॥
क्षीणदेहे हरिदिने कथं संयमयिष्यति॥
अन्नात्प्रभवति प्राणः प्राणाद्देहविचेष्टनम् ॥४९॥
चेष्टया रिपुनाशश्च तद्धीनः परिभूयते॥
एवं ज्ञात्वा मया राजा बोध्यमानो न बुद्ध्यति ॥५०॥
एतदेव व्रतं राज्ञो यत्प्रजापालनं चरेत्॥
न व्रतं किंचिदस्त्यन्यन्नृपस्य द्विजसत्तमाः ॥५१॥
किं देव कार्येण नराधिपस्य कृत्वा हि मन्युं विषयस्थितानाम्॥
तद्देवकार्यं स च यज्ञहोमो यद्रक्तपातो न भवेत् स्वराष्ट्रे ॥५२॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीप्रश्नो नाम चतुर्विंशोऽध्यायः ॥२४॥
N/A
References : N/A
Last Updated : May 09, 2012
TOP