संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ६५

उत्तरभागः - अध्यायः ६५

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


मोहिन्युवाच॥
वनानि कानि विप्रेंद्र तत्र संति शुभावहाः॥
सरितश्च क्रमाद्यात्रां वद मे सर्वसिद्धिदाम् ॥१॥

यानि तीर्थानि संत्यत्र कुरुक्षेत्रे सुपुण्यदे॥
तानि सर्वाणि मे ब्रूहि गतिदस्त्वं गुरुंर्यतः ॥२॥

वसुरुवाच॥
श्रृणु मोहिनि वक्ष्यामि कुरुक्षेत्रस्य पुण्यदम्॥
यात्राविधानं यत्कृत्वा लभते गतिमुत्तमाम् ॥३॥

वनानि सप्त संतीह कुरुक्षेत्रस्य मध्यतः॥
तेषां नामानि वक्ष्यामि पुण्यदानां नृणामिह ॥४॥

काम्यकं च वनं पुण्यं तथादितिवनं महत्॥
व्यासस्य च वनं पुण्यं फलकीवनमेव च ॥५॥

तथा सूर्यवनं चात्र पुण्यं मधुवनं च वै॥
सीतावनं तथा ख्यातं नृणां कल्मषनाशनम् ॥६॥

वनान्येतानि सप्तात्र तेषु तीर्थान्यनेकशः॥
सरस्वती नदी पुण्या तथा वैतरणी नदी ॥७॥

गंगा मंदाकिनी पुण्या तथैवान्या मधुस्रवा॥
दृषद्वती कौशिकी च पुण्या हैरण्वती नदी ॥८॥

वर्षकालवहाश्चैता वर्जयित्वा सरस्वतीम्॥
एतासामुदकं पुण्यं स्पर्शे पाने समाप्नुतौ ॥९॥

रजस्वलात्वं नैतासां पुण्यक्षेत्रप्रभावतः॥
रंतुकं तु पुरासाद्य द्वारपालं महाबलम् ॥१०॥

यक्षं समभिवाद्याथ तत्र यात्रां समारभेत्॥
ततो गच्छेन्नरः पुण्यं भद्रेऽदिति वनं महत् ॥११॥

अदित्या तत्र पुत्रार्थं सम्यक् चीर्णं महत्तपः॥
तत्र स्नात्वा समभ्यर्च्य देवमातरमंगना ॥१२॥

सूते पुत्रं महाशूरं सर्वलक्षण संयुतम्॥
ततो गच्छेद्वरारोहे विष्णोः स्थानमनुत्तमम् ॥१३॥

विमलं नाम विख्यातं यत्र सन्निहितो हरिः॥
विमले तु नरः स्नात्वा दृष्ट्वा च विमलेश्वरम् ॥१४॥

विमलः स लभेल्लोकं देवदेवस्य चक्रिणः॥
हरिं च बलदेवं च दृष्ट्वैकासनमास्थितौ ॥१५॥

मुच्यते किल्बिषात्सद्यो मोहिन्यत्र न संशयः॥
ततः पारिप्लवं गच्छेत्तीर्थं लोकेषु विश्रुतम् ॥१६॥

तत्र स्नात्वा च पीत्वा यो ब्राह्मणं वेदपारगम्॥
संतोष्यदक्षिणाद्येन ब्राह्मयज्ञफलं लभेत् ॥१७॥

यत्रास्ति संगमो भद्रे कौशिक्याः पापनाशनः॥
तत्र स्नात्वा नरो भक्त्या प्राप्नोति प्रियसंगमम् ॥१८॥

ततस्तु पृथिवीतीर्थमासाद्य क्षांतिमान्नरः॥
स्नातो भक्त्या महाभागे प्राप्नोति गतिमुत्तमाम् ॥१९॥

धरम्यामपराधा ये कृताः स्युः पुरुषेण वै॥
तान्सर्वान्क्षमते देवी तत्र स्नातस्य देहिनः ॥२०॥

ततो दक्षाश्रमे पुण्ये दृष्ट्वा दक्षेश्वरं शिवम्॥
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥२१॥

ततः शालकिनीं गच्छेत्तत्र स्नात्वा समर्चयेत्॥
हरिं हरेण संयुक्तं वांछितार्थस्य लब्धये ॥२२॥

नागतीर्थं ततः प्राप्य स्नात्वा तत्र विधानवित्॥
सर्पिश्चास्य दधि प्राश्य नागेभ्यो ह्यभयं लभेत् ॥२३॥

ततः सायमुपावृत्य रंतुकं द्वारपालकम्॥
एकरात्रोषितस्तत्र पूजयेत्तं परेऽहनि ॥२४॥

गंधाद्यैरुपचारैस्तु ब्राह्मणं प्रार्च्य भोजयेत्॥
ततः पंचनदं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् ॥२५॥

पंच नादाः कृता यत्र हरेणासुरभीषणाः॥
तेन पंचनदं नाम सर्वपातकनाशनम् ॥२६॥

तत्र स्नानेन दानेन निर्भयो जायते नरः॥
कोटितीर्थँ ततो गच्छेद्यत्र रुद्रेण मोहिनि ॥२७॥

कोटितीर्थान्युपाहृत्य स्थापितानि महात्मना॥
तत्र तीर्थे नरः स्नात्वा दृष्ट्वा कोटीश्वरं हरम् ॥२८॥

पंचयज्ञभवं पुण्यं तत्प्रभत्याप्नुयात्सदा॥
तत्रैव वामनो देवः सर्वैर्देवैः प्रतिष्ठितः ॥२९॥

तस्मात्तं तत्र संपूज्य अग्निष्टोमफलं लभेत्॥
ततोऽश्वितीर्थमासाद्ये श्रद्धावान्विजितेन्द्रियः ॥३०॥

स्नात्वा तत्र यशस्वी च रूपवांश्च नरो भवेत्॥
ततो वाराहतीर्थं च प्राप्य विष्णुप्रकल्पितम् ॥३१॥

आप्लुत्य श्रद्धया तत्र नरः सद्गतिमाप्नुयात्॥
ततो व्रजेत्सोमतीर्थँ यत्र सोमो वरानने ॥३२॥

तपस्तप्त्वा ह्यरोगोऽभूत्तत्र स्नानं समाचरेत्॥
दत्वा च तत्र गामेकां राजसूयफलं लभेत् ॥३३॥

भूतेश्वरं च तत्रैव ज्वालामालेश्वरं तथा॥
तांडलिंगं समभ्यर्च्य न भूयो भवमाप्नुयात् ॥३४॥

एकहंसे नरः स्नात्वा गो सहस्रफलं लभेत्॥
कृतशौचे नरः स्नात्वा पुंडरीकफलं लभेत् ॥३५॥

ततो मुंजवटं नाम प्राप्य देवस्य शूलिनः॥
समुष्य च निशामेकां प्रार्च्येशं गणपोभवेत् ॥३६॥

प्रसाद्य यक्षिणीं तत्र द्वारस्थामुपवासकृत्॥
स्नात्वाभ्यर्च्याशयेद्विप्रान्महापातकशांतये ॥३७॥

प्रदक्षिणमुपावृत्य पुष्करं च ततो व्रजेत्॥
तत्र स्नात्वा पितॄन्प्रार्च्य कृतकृत्यो नरो भवेत् ॥३८॥

कन्यादानं च यस्तत्र कार्तिक्यां वै समाचरेत्॥
प्रसन्ना देवतास्तस्य यच्छंत्यभिमतं फलम् ॥३९॥

कपिलश्च महायक्षो द्वारपालोऽत्र संस्थितः॥
विघ्नं करोति पापानां सुकृतं च प्रयच्छति ॥४०॥

पत्नी तस्य महाभागा नाम्नोलूखलमेखला॥
आहत्य दुंदुभिं सा तु भ्रमते नित्यमेव हि ॥४१॥

वारयेत्पापिनः स्नानात्तथा सुकृतिनो नयेत्॥
ततो रामह्रदं गच्छेत्स्नात्वा तत्र विधानतः ॥४२॥

देवान्पितॄनृषीनिष्ट्वा भुक्तिं मुक्तिं च विंदति॥
राममभ्यर्च्य सच्छद्धः स्वर्णं दत्त्वा धनी भवेत् ॥४३॥

वंशमूलं समासाद्य स्रात्वा स्वं वंशमुद्दरेत्॥
कायशोधनके स्नात्वा शुद्धदेहो हरिं विशेत् ॥४४॥

लोकोद्धारं ततः प्राप्य स्नात्वाभ्यर्च्य जनार्दनम्॥
प्राप्नोति शाश्वतं लोकं यत्र विष्णुः सनातनः ॥४५॥

श्रीतीर्थं च ततः प्राप्य शालग्राममनुत्तमम्॥
स्नात्वाभ्यर्च्य हरिं नित्यं पश्यति स्वांतिके स्थितम् ॥४६॥

कपिलाह्रदमासाद्य स्नात्वाभ्यर्च्य सुरान्पितॄन्॥
सहस्रकपिलापुण्यं लभते नात्र संशयः ॥४७॥

कपिलं तत्र विश्वेशं समभ्यर्च्य विधानतः॥
देवैश्च सत्कृतो भद्रे साक्षाच्छिवपदं लभेत् ॥४८॥

सूर्यतीर्थे ततो भानुं सोपवासः समर्चयेत्॥
अग्निष्टोमस्य यज्ञस्य फलं लब्ध्वा व्रजेद्दिवम् ॥४९॥

पृथिवीविवरद्वारि स्थितो गणपतिः स्वयम्॥
तं दृष्ट्वाथ समभ्यर्च्य यज्ञस्य फलमाप्नुयात् ॥५०॥

देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम्॥
ब्रह्मावर्ते नरः स्नात्वा ब्रह्मज्ञानमवाप्नुयात् ॥५१॥

सुतीर्थके नरः स्नात्वा देवर्षिपितृमानवान्॥
समभ्यर्च्याश्वमेधस्य यज्ञस्य फलमाप्नुयात् ॥५२॥

कामेश्वरस्य तीर्थे तु स्नात्वा श्रद्धासमन्वितः॥
सर्वव्याधिविनिर्मुक्तो ब्रह्म प्राप्नोति शाश्वतम् ॥५३॥

स्नातस्य मातृतीर्थे तु श्रद्धयाभ्यर्चकस्य तु॥
आसप्तमं कुलं देवि वर्द्धते श्रीरनुत्तमा ॥५४॥

ततः सीतावनं गच्छेत्तत्र तीर्थं महच्छुभे॥
पुनातिदर्शनादेवपुरुषानेकविशतिंम् ॥५५॥

केशान्प्रक्षिप्य वै तत्र पूतो भवति पापतः॥
दशाश्वमेधिकं तत्र तीर्थं त्रैलोक्यविश्रुतम् ॥५६॥

दर्शनात्तस्य तीर्थस्य मुक्तो भवति किल्बिषैः॥
मानुषाह्वें ततस्तीर्थं प्राप्य स्रानं समाचरेत् ॥५७॥

यदीच्छेन्मानुषं जन्म पुनश्च विधिनंदिनि॥
मानुषाच्च ततस्तीर्थात्कोशमात्रे महानदी ॥५८॥

आपगा नाम विख्याता तत्र स्नात्वा विधानतः॥
श्यामाकं पयसा सिद्धं भोजयद्द्विजसत्तमान् ॥५९॥

तस्य पापं क्षयं याति पितॄणां श्राद्धतो गतिः॥
नभस्ये मासि कृष्णे तु पितृपक्षे महालये ॥६०॥

चतुर्दश्यां तु मध्याह्ने पिंडदो मुक्तिमाप्नुयात्॥
ब्राह्मोदुंबरकं गच्छेद्ब्रह्मणः स्थानकं ततः ॥६१॥

तत्र ब्रह्मर्षिकुंडेषु स्नातः सोमफलं लभेत्॥
वृद्धकेदारके तीर्थे स्थाणुं दंडिसमन्वितम् ॥६२॥

समर्च्य यत्र चाप्नोति नरोंऽतर्द्धानमिच्छया॥
कलश्यां च ततो गच्छेद्यत्र देवी स्वयं स्थिता ॥६३॥

स्नात्वास्यामंबिकां प्रार्च्य तरेत्संसारसागरम्॥
सरके कृष्णभूतायां दृष्ट्वा देवं महेश्वरम् ॥६४॥

शैवं पदमवाप्नोति नरः श्रद्धासमन्वितः॥
तिस्रः कोट्यस्तु तीर्थानां सरके संति भामिनि ॥६५॥

रुद्रकोटिस्तथा कूपे सरोमध्ये व्यस्थिता॥
तस्मिन्सरसि यः स्नात्वा रुद्रकोटिं स्मरेन्नरः ॥६६॥

पूजिता रुद्रकोटिस्तु तेन स्यान्नात्र संशयः॥
ईहास्पदं च तत्रैव तीर्थं पापप्रणाशनम् ॥६७॥

यस्मिन्मुक्तिमवाप्नोति दर्शनादेव मानवः॥
तत्रस्थानर्चयित्वा च देवान्पितृगणानपि ॥६८॥

न दुर्गतिमवाप्नोति मनसा चिंतितं लभेत्॥
केदारं च महातीर्थं सर्वकल्मषनाशनम् ॥६९॥

तत्र स्नात्वा च पुरुषः सर्वदानफलं लभेत्॥
अन्यजन्मेति विख्यातं सरकस्य तु पूर्वतः ॥७०॥

सरो महत्स्वच्छजलं देवौ हरिहरौ यतः॥
विष्णुश्चतुर्भुजस्तत्र लिंगाकारः शिवः स्थितः ॥७१॥

तत्र स्नात्वा च तौ दृष्ट्वा स्तुत्वा मोक्षं लभेन्नरः॥
नागह्रदे ततो गत्वा स्नात्वा चैत्रे सितांतके ॥७२॥

श्राद्धदो मुक्तिमाप्नोति यमलोकं न पश्यति॥
ततस्त्रिविष्टपं गच्छेत्तीर्थं देवनिषेवितम् ॥७३॥

यत्र वैतरणी पुण्या नदी पापप्रमोचिनी॥
तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम् ॥७४॥

सर्वपाप विशुद्धात्मा गच्छत्येव परां गतिम्॥
रसावर्ते नरः स्नात्वा सिद्धिमाप्नोत्यनुत्तमाम् ॥७५॥

चैत्रस्य सितभूतायां स्नानं कृत्वा विलेपके॥
पूजयित्वा शिवं भक्त्या सर्वपापैः प्रमुच्यते ॥७६॥

ततो गच्छेन्नरो देवि फलकीवनमुत्तमम्॥
यत्र देवाः सगंधर्वास्तप्यंते परमं तपः ॥७७॥

तत्र नद्यां दृषद्वत्यां नरः स्नात्वा विधानतः॥
देवान्पितॄंस्तर्पयित्वा ह्यग्निष्टोमातिरात्रभाक् ॥७८॥

दर्शे तथा विधुदिने तत्र श्राद्धं करोति यः॥
गयाश्राद्ध समं तत्र लभते फलमुत्तमम् ॥७९॥

श्राद्धे फलमरण्यस्य स्मरणं पितृतृप्तिदम्॥
पाणिघाते ततस्तीर्थे पितॄन्संतर्प्य मानवः ॥८०॥

राजसूय फलं प्राप्य सांख्यं योगं च विंदति॥
ततस्तु मिश्रके तीर्थे स्नात्वा मर्त्यो विधानतः ॥८१॥

सर्वतीर्थफलं प्राप्य लभते गतिमुत्तमाम्॥
ततो व्यासवने गत्वा स्नात्वा तीर्थे मनोजवे ॥८२॥

मनीषिणं विभुं दृष्ट्वा मनसा चिंतितं लभेत्॥
गत्वा मधुवनं चैव देव्यास्तीर्थे नरः शुचिः ॥८३॥

स्नात्वा देवानृषीनिष्ट्वा लभते सिद्धिमुत्तमाम्॥
कौशिकीसंगमे तीर्थे दृषद्वत्यां नरः प्लुतः ॥८४॥

नियतो नियताहारः सर्वपापैः प्रमुच्यते॥
ततो व्यासस्थलीं गच्छेद्यत्र व्यासेन धीमता ॥८५॥

पुत्रशोकाभिभूतेन देहत्यागो विनिश्चितः॥
पुनरुत्थापितो देवैस्तत्र गत्वा न शोकभाक् ॥८६॥

किंदुशूकूपमासाद्य तिलप्रस्थं प्रदाप्य च॥
गच्छेद्धि परमां सिद्धिं मृतो मुक्तिमवाप्नुयात् ॥८७॥

आह्नं च मुदितं चैव द्वै तीर्थे भुवि विश्रुते॥
तयोः स्नात्वा विशुद्धात्मा सूर्यलोकमवाप्नुयात् ॥८८॥

मृगमुच्यं ततो गत्वा गंगायां प्रणतः स्थितः॥
अर्चयित्वा महादेवमश्वमेधफलं लभेत् ॥८९॥

कोटितीर्थं ततो गत्वा स्नात्वा कोटीश्वरं शिवम्॥
दृष्ट्वा स्तुत्वा श्रद्दधानः कोटियज्ञफलं लभेत् ॥९०॥

ततो वामनकं गच्छेत्त्रिषु लोकेषु विश्रुतम्॥
यत्र वामनजन्माभूद्बलेर्यज्ञजिहीर्षया ॥९१॥

तत्र विष्णुपदे स्नात्वा पूजयित्वा च वामनम्॥
सर्वपापविशुद्धात्मा विष्णुलोके महीयते ॥९२॥

ज्येष्ठाश्रमं च तत्रैव सर्वपातकनाशनम्॥
ज्येष्ठस्य शुक्लैकादश्यां सोपवासः परेऽहनि ॥९३॥

स्नात्वा तत्र विधानेन श्रेष्ठत्वं लभते नृषु॥
श्राद्धं तत्र कृतं देवि पितॄणामतितुष्टिदम् ॥९४॥

तत्रैव कोटितीर्थं च त्रिषु लोकेषु विश्रुतम्॥
तस्मिंस्तीर्थे नरः स्नात्वा कोटियज्ञफलं लभेत् ॥९५॥

तत्र कोटीश्वरं नाम देवदेवं महेश्वरम्॥
समभ्यर्च्य विधानेन गाणपत्यमवाप्नुयात् ॥९६॥

सूर्यतीर्थं च तत्रैव स्नात्वात्र रविलोकभाक्॥
कुलोत्तारणके तीर्थे गत्वा स्नानं समाचरन् ॥९७॥

उद्धृत्य स्वकुलं स्वर्गे कल्पांतं निवसेत्ततः॥
पवनस्य ह्रदे स्नात्वा दृष्ट्वा देवं महेश्वरम् ॥९८॥

विमुक्तः सर्वपापेभ्यः शैवं पदमवाप्नुयात्॥
स्नात्वा च हनुमत्तीर्थे नरो मुक्तिमवाप्नुयात् ॥९९॥

शालहोत्रस्य राजर्षेस्तीर्थे स्नात्वाघवर्जितः॥
श्रीकुंभाख्ये सरस्वत्यास्तीर्थए स्नात्वाथ यज्ञवाक् ॥१००॥

स्नातश्च नैमिषे कुंडे नैमिषस्नानपुण्यभाक्॥
स्नात्वा वेदवतीतीर्थे स्त्री सतीत्वमवाप्नुयात् ॥१०१॥

ब्रह्मतीर्थे नरः स्रात्वा ब्राह्मण्यं लभते नरः॥
ब्रह्मणः परमं स्थानं यत्र गत्वा न शोचति ॥१०२॥

सोमतीर्थे नरः स्नात्वा स्वर्गतिं समवाप्नुयात्॥
सप्तसारस्वतं तीर्थं प्राप्य स्नात्वा च मुक्तिभाक् ॥१०३॥

यत्र सप्त सरस्वत्यः सम्यगैक्यं समागताः॥
सुप्रभा कांचनाक्षी च विशाला च मनोहरी ॥१०४॥

सुनंदा च सुवेणुश्च सप्तमी विमलोदका॥
तथैवौशनसे तीर्थे स्नात्वा मुच्येत पातकैः ॥१०५॥

कपाल मोचने स्नात्वा ब्रह्महापि विशुध्यति॥
वैश्वामित्रे नरः स्नातो ब्राह्मण्यं समवाप्नुयात् ॥१०६॥

ततः पृथूदके स्नात्वा मुच्यते भवबंधनात्॥
अवकीर्णे नरः स्नात्वा ब्रह्मचर्यफलं लभेत् ॥१०७॥

मधुस्रावेऽथप्रयातः स्नातो मुच्यते पातकैः॥
स्नात्वा तीर्थे च वासिष्ठे वासिष्ठं लोकमाप्नुयात् ॥१०८॥

अरुणासंगमे स्नात्वा त्रिरात्रोपोषितो नरः॥
स्नात्वा मुक्तिमवाप्नोति नात्र कार्या विचारणा ॥१०९॥

समुद्रास्तत्र चत्वारस्तेषु स्नातो नरः शुभे॥
गोसहस्रफलं लब्ध्वा स्वग्रलोके महीयते ॥११०॥

सोमतीर्थं च तत्रान्यत्तस्मिन्स्नात्वा च मोहिनि॥
चैत्रे षष्ठ्यां च शुक्लायां श्राद्धं कृत्वोद्धरेत्पितॄन् ॥१११॥

अथ पञ्चवटे स्नात्वा योगमूर्तिधरं शिवम्॥
समभ्यर्च्य विधानेन दैवतैः सहमोदते ॥११२॥

कुरुतीर्थे ततः स्नातः सर्वसिद्धिमवाप्नुयात्॥
स्वर्गद्वारे प्लुतो मर्त्यः स्वर्गलोके महीयते ॥११३॥

स्नातो ह्यनरके तीर्थे मुच्यते सर्वकिल्बिषैः॥
ततो गच्छेन्नरो देवि काम्यकं वनमुत्तमम् ॥११४॥

यस्मिन्प्रविष्टमात्रस्तु मुच्यते सर्वसंचयैः॥
अथादित्यवनं प्राप्य दर्शनादेव मुक्तिभाक् ॥११५॥

स्नानं रविदिने कृत्वा तत्र वांछितमाप्नुयात्॥
यज्ञोपवीतिके स्नात्वा स्वधर्मफलभाग्भवेत् ॥११६॥

ततश्चतुःप्रवाहाख्ये तीर्थे स्नात्वा नरोत्तमः॥
सर्वतीर्थफलं प्राप्य मोदते दिवि देववत् ॥११७॥

स्नातस्तीर्थे विहारे तु सर्वसौख्यमवाप्नुयात्॥
दुर्गातीर्थे नरः स्नात्वा न दुर्गतिमवाप्नुयात् ॥११८॥

ततः सरस्वतीकूपे पितृतीर्थापराह्वये॥
स्नात्वा संतर्प्य देवादींल्लभते गतिमुत्तमाम् ॥११९॥

स्नात्वा प्राचीसरस्वत्यां श्राद्धं कृत्वा विधानतः॥
दुर्लभं प्राप्नुयात्कामं देहांते स्वर्गतिं लभेत् ॥१२०॥

शुक्रतीर्थे नरः स्नात्वा श्राद्धदः प्रोद्धरेत्पितॄन्॥
अष्टम्यां वा चतुर्दश्यां चैत्रे कृष्णे विशेषतः ॥१२१॥

सोपवासो ब्रह्मतीर्थे मुक्तिभाङ्नात्र संशयः॥
स्थाणुतीर्थे ततः स्नात्वा दृष्ट्वा स्थाणुवटं नरः ॥१२२॥

मुच्यते पातकैर्घोरैरितिप्राह पितामहः॥
दर्शनात्स्थाणुलिंगस्य यात्रा पूर्णा प्रजायते ॥१२३॥

कुरुक्षेत्रस्य देवेशि सत्यं सत्यं मयोदितम्॥
कुरुक्षेत्रसमं तीर्थं न भूतं न भविष्यति ॥१२४॥

तत्र द्वादश यात्रास्तु कृत्वा भूयो न जन्मभाक्॥
पूर्तमिष्टं तपस्तप्तं हुतं दत्तं विधानतः ॥१२५॥

तत्र स्यादक्षयं सर्वमिति वेदविदो विदुः॥
मन्वादौ च युगादौ च ग्रहणे चंद्रसूर्ययोः ॥१२६॥

महापाते च संक्रांतौ पुण्ये चाप्यन्यवासरे॥
स्नातस्तत्र कुरुक्षेत्रे फलानंत्यमवाप्नुयात् ॥१२७॥

कलिजानां तु पापानां पावनाय महात्मनाम्॥
ब्रह्मणा कल्पितं तीर्थं कुरुक्षेत्रं सुखावहम् ॥१२८॥

य इमां कीर्तयेत्पुण्यां कथां पापप्रणाशिनीम्॥
श्रृणुयाद्वा नरो भक्त्या सोऽपि पापैः प्रमुच्यते ॥१२९॥

यद्यद्ददाति यस्तत्र कुरुक्षेत्रे रविग्रहे॥
तत्तदेव सदाप्नोति नरो जन्मनि जन्मनि ॥१३०॥

अथ किं बहुनोक्तेन विधिजे श्रृणु निश्चितम्॥
सेवेतैव कुरुक्षेत्रं यदीच्छेद्भवमोक्षणम् ॥१३१॥

एतदेव महत्पुण्यमेतदेव महत्तपः॥
एतदेव महज्ज्ञानं यद्व्रजेत्स्थाणुतीर्थकम् ॥१३२॥

कुरुक्षेत्रसमं तीर्थं नान्यद्भुवि शुभावहम्॥
साचारो वाप्यनाचारो यत्र मुक्तिमवाप्नुयात् ॥१३३॥

एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वयानघे॥
कुरुक्षेत्रस्य माहात्म्यं सर्वपापनिकृंतनम् ॥१३४॥

पुण्यदं मोक्षदं चैव किमन्यच्छ्रोतुमिच्छसि ॥१३५॥

इति श्रीहृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे कुरुक्षेत्रमाहात्म्ये तीर्थयात्रावर्णनं नाम पञ्चषष्टितमोऽध्यायः ॥६५॥
॥ इति कुरुक्षेत्रमाहात्म्यं समाप्तम्॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP