संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः| अध्यायः ७४ श्री नारदीयमहापुराणम् : उत्तरभागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ उत्तरभागः - अध्यायः ७४ `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण अध्यायः ७४ Translation - भाषांतर अथ गोकर्णमाहात्म्यमारभ्यते॥मोहिन्युवाच॥पुंडरीकपुराख्यानं त्वया प्रोक्तं श्रुतं गुरो॥गोकर्णस्याद्य तीर्थस्य माहात्म्यं मे समादिश ॥१॥वसुरुवाच॥श्रृणु मोहिनि वक्ष्यामि तीर्थं पुण्यप्रदं नृणाम्॥गोकर्णाख्यं हरक्षेत्रं सर्वपातकनाशनम् ॥२॥पश्चिमस्थसमुद्रस्य तीरेऽस्ति वरवर्णिनि॥सार्द्धयोजनविस्तारं दर्शनादपि मुक्तिदम् ॥३॥सगरस्यात्मजैर्देवि खनिते भूतले क्रमात्॥सागरो वर्द्धितस्त्वारात्प्लावयामास मेदिनीम् ॥४॥त्रिंशद्योजन विस्तारां सतीर्थक्षेत्रकाननाम्॥ततस्तन्निलयाः सर्वे सदेवासुरमानवाः ॥५॥तत्स्थानं संपरित्यज्य सह्यादिगिरिषु स्थिताः॥ततो गुंह्य परं तीर्थं गोकर्णाख्यं समुद्रगम् ॥६॥चिंतयंतो मुनिवरास्तदुद्धारे मतिं दधुः॥ततः संमंत्र्य ते सर्वे पर्वतोपत्पकास्थिताः ॥७॥महेंद्राचलसंस्थानं पर्शुरामं दिदृक्षवः॥जग्मुर्मुनिवरा देवि गोकर्णोद्धारकांक्षया ॥८॥समारुह्य तु तं शैलं ददृशुस्तस्य चाश्रमम्॥प्रशांतक्रूरसत्वाढ्यं सर्वर्तुषु सुखावहम् ॥९॥फलितैः पुष्पितैर्वृक्षैर्गहनं तत्तपोवनम्॥स्निग्धच्छायमनौपम्यं स्वामोदिसुखमारुतम् ॥१०॥तं तदाश्रममासाद्य ब्रह्मघोषनिनादितम्॥विविशुर्दृष्टमनसो यथावृद्धपुरः सरम् ॥११॥ब्रह्मासने सुखासीनं मृदुकृष्णाजिनोत्तरे॥शिष्यैः परिवृतं शांतं ददृशुस्तं तपोधनम् ॥१२॥कालाग्निमिव लोकांस्त्रीन्दग्ध्वा शांतं तपःस्थितम्॥ते समेत्य भृगुश्रेष्ठं विनयेन ववंदिरे ॥१३॥ततस्तानागतान्दृष्ट्वा मुनीन्भृगुकुलोद्वहः॥अर्घ्यपाद्यादिभिः सम्यक्पूजयामास सादरम् ॥१४॥तानासीनान्कृतातिथ्यानुवाच भृगुनंदनः॥स्वागतं वो महाभागा यदर्थमिह चागताः ॥१५॥तद्वदध्वं सुविश्वस्ताः करणीयं मयास्ति यत्॥ततोऽब्रुवन्मुनिश्रेष्ठा यदर्थं राममागताः ॥१६॥अवेह्यस्मान् भृगुश्रेष्ठ गोकर्णनिलयान्मुनीन्॥खनद्भिः सागरैर्भूमिं तस्मात्तीर्थाद्विवासितान् ॥१७॥स त्वमात्मप्रभावेण क्षेत्रप्रवरमद्य नः॥दातुमर्हसि विप्रेन्द्र समुत्सार्यार्णमवोदकम् ॥१८॥तच्छ्रुत्वा वचनं तेषां न्यस्तशस्त्रो व्यचिंतयत्॥ततो विचिंत्य भगवान्धर्म्यं साध्वभिरक्षणम् ॥१९॥प्रगृह्य स्वधनुर्बाणान्संप्रतस्थे स तैः समम्॥सोऽवरुह्य महेंद्राद्रेर्दिशं दक्षिणपश्चिमाम् ॥२०॥समुद्दिश्य ययौ शीघ्रं स स्वमुल्लंघ्य पर्वतम्॥संप्राप्तः सागरतटं सार्द्धं गोकर्णवासिभिः ॥२१॥मुहूर्त्तं तत्र विश्रम्य वरुणं यादसांपतिम्॥मेघगंभीरया वाचा प्रोवाच वदतां वरः ॥२२॥रामोऽहं भार्गवः प्राप्तो मुनिभिः सह कार्यवान्॥प्रचेतो दर्शनं देहि कार्यमात्यायिकं त्वया ॥२३॥एवं रामसमाहूतो यादः पतिरहन्तया॥श्रुत्वापि तस्य तद्वाक्यं नायतो रामसन्निधौ ॥२४॥एवं पुनः पुनस्तेन समाहूतोऽपि नागतः॥यदा तदाभिसंक्रुद्धो धनुर्जग्राह भार्गवः ॥२५॥तस्मिन्संधाय विशिखं वह्निदैवं तु भार्गवम्॥अस्त्रं संयोजयामास शोषणाय सरित्यतेः ॥२६॥तस्मिन्संयोजितेऽस्त्रे तु भार्गवेण महात्मना॥संक्षुब्धः सागरो भद्रे यादोगणसमाकुलः ॥२७॥वरुणोऽस्त्राभिसंतप्तो रामस्य भयसम्प्लुतः॥स्वरूपेण समागत्य रामपादौ समग्रहीत् ॥२८॥ततोऽस्त्रं स विनिर्वर्त्य वरुणं प्राह सत्वरम्॥गोकर्णो दृश्यतां देव उत्सर्पय जलं किल ॥२९॥ततो रामाज्ञया सोऽपि गोकर्णोदकमाहरत्॥रामोऽपि तं समभ्यर्च्य गोकर्णं नाम शंकरम् ॥३०॥प्राप्तः पुनर्महेंद्राद्रौ तस्थुस्तत्रैव ते द्विजाः॥यत्र सर्वे तपस्तप्त्वा मुनयः शंसितव्रताः ॥३१॥निर्वाणं परम प्राप्ताः पुनरावृत्तिवर्जितम्॥तत्क्षेत्रस्य प्रभावेण प्रीत्या भूतगणैः सह ॥३२॥देव्या च सकलैर्देवैर्नित्यं वसति शंकरः॥एनांसि दर्शनात्तस्य गोकर्णस्य महेशितुः ॥३३॥सद्यो वियुज्य गच्छन्ति प्रवाते शुष्क पर्णवत्॥तत्क्षेत्रसेवनरतिर्नृणां जातु न जायते ॥३४॥निर्बंधेन तु ये तत्र प्राणिनः स्थिरजंगमाः॥म्रियंते देवि सद्यस्ते स्वर्गं यांति सनातनम् ॥३५॥स्मृत्यापि सकलैः पापैर्यस्य मुच्येत मानवः॥तद्गोकर्णाभिधं क्षेत्रं सर्वतीर्थनिकेतनम् ॥३६॥स्नात्वा क्षेत्रेषु सर्वेषु यजंतश्च सदाशिवम्॥लभंते यत्फलं मर्त्यास्तत्सर्वं तत्र दर्शनात् ॥३७॥कामक्रोधादिभिर्हीना ये तत्र निवसंति वै॥अचिरेणैव कालेन ते सिद्धिं प्राप्नुवंति हि ॥३८॥जपहोमरताः शांता नियता ब्रह्मचारिणः॥वसंति तस्मिन्ये ते हि सिद्धिं प्राप्स्यंत्यभीप्सिताम् ॥३९॥दानहोमजपाद्यं च पितृदेवद्विजार्चनम्॥अन्यस्मात्कोटिगुणितं भवेत्तस्मिन्फलं सति ॥४०॥इत्येतत्कथितं भद्रे गोकर्णक्षेत्रसंभवम्॥माहात्म्यं सर्वपापध्नं पठतां श्रृण्वतामपि ॥४१॥इति श्रीबृहन्नारदीयपुराणेबृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे गोकर्णमाहात्म्यं नाम चतुःसप्ततितमोऽध्यायः ॥७४॥इति गोकर्णमाहात्म्यम्॥ N/A References : N/A Last Updated : May 09, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP