उत्तरभागः - अध्यायः ५१
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
वसुरुवाच॥
अथान्यते प्रवक्ष्यामि गंगामाहात्म्यमुत्तमम्॥
वाराणसीस्थितं भद्रे भुक्तिमुक्तिफलप्रदम् ॥१॥
अविमुक्ते कृतं यत्तु तदेवाक्षयतां व्रजेत्॥
अविमुक्तगतः कश्चिन्नरकं नैति किल्बिषी ॥२॥
अविमुक्तकृतं यत्तु पापं वज्रं भवेच्छुभे॥
त्रैलोक्ये यानि तीर्थानि मोक्षदानि च कृत्स्नशः ॥३॥
सेवंते सततं गंगां काश्यामुत्तरवाहिनीम्॥
दशाश्वमेधे यः स्नात्वा दृष्ट्वा विश्वेश्वरं शिवम् ॥४॥
सद्यो निष्पातको भूत्वा मुच्यते भवबंधनात्॥
गंगा हि सर्वतः पुण्या ब्रह्महत्यापहारिणी ॥५॥
वाराणस्या विशेषेण यत्र चोत्तरवाहिनी॥
वरणायास्तथास्याश्च जाह्नव्याः संगमे नरः ॥६॥
स्नानमात्रेण सर्वेभ्यः पातकेभ्यः प्रमुच्यते॥
काश्यामुत्तरवाहिन्यां गंगायां कार्तिके तथा ॥७॥
स्नात्वा माघे च मुच्यंते महापापादिपातकैः॥
सर्वलोकेषु तीर्थानि यानि ख्यातानि तानि च ॥८॥
सर्वाण्येतानि सुभगे काश्यामायांति जाह्नवीम्॥
नित्यं पर्वसु सर्वेषु पुण्यैश्चायतनैः सह ॥९॥
उत्तराभिमुखीं गंगां काश्यामायांति चान्वहम्॥
महापातकदोषादिदुष्टानां स्पर्शनोद्भवम् ॥१०॥
व्यपोहितुं स्वपापं च जंतुपापविमुक्तये॥
जन्मांतरशतेनापि सत्कर्मनिरतस्य च ॥११॥
अन्यत्र सुधिया भद्रे मोक्षो लभ्येत वा न वा॥
एकेन जन्मना त्वत्र गंगायां मरणेन च ॥१२॥
मोक्षस्तु लभ्यते काश्यां नरेणावलितात्मना॥
ख्यातो धर्मनदो नाम ह्रदस्तत्रैव सुंदरि ॥१३॥
धर्म एव स्वरूपेण महापातकनाशनः॥
धूली च धूतपापा सा सर्वतीर्थमयी शुभा ॥१४॥
हरेन्महापापसंघान्कूलजानिव पादपान्॥
किरणा धूतपापा च पुण्यतोया सरस्वती ॥१५॥
गंगा च यमुना चैव पंच नद्यः प्रकीर्तिताः॥
अतः पञ्चनदं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥१६॥
तत्राप्लुतो न गृह्णीयाद्देहितां पांचभौतिकीम्॥
अस्मिन्पंचनदीनां तु संगमेऽघौघभेदने ॥१७॥
स्नानमात्रान्नरो याति भित्वा ब्रह्मांडमंडपम्॥
प्रयागे माघमासे तु सम्यक् स्नानस्य यत्फलम् ॥१८॥
तत्फलं स्याद्दिनैकेन काश्यां पंचनदे ध्रुवम्॥
स्नात्वा पंचनदे तीर्थे कृत्वा च पितृतर्पणम् ॥१९॥
विष्णुं माधवमभ्यर्च्य न भूयो जन्मभाग्भवेत्॥
यावत्संख्यास्तिला दत्ताः पितृभ्यो जलतर्पणे ॥२०॥
पुण्ये पञ्चनदे तीर्थे तृप्तिः स्यात्तावदाब्दिकी॥
श्रद्धया यैः कृतं श्राद्धं तीर्थे पञ्चनदे शुभे ॥२१॥
तेषां पितामहा मुक्तानानायोनिगता अपि॥
यमलोके पितृगणैर्गार्थयं परिगीयते ॥२२॥
महिमानं पांचनदं दृष्ट्वा श्राद्धविधानतः॥
अस्माकमपि वंश्योऽत्र कश्चिच्छ्राद्धं करिष्यति ॥२३॥
काश्यां पञ्चनदं प्राप्य येन मुच्यामहे वयम्॥
तत्र पञ्चनदे तीर्थे यत्किंचिद्दीयते वसु ॥२४॥
कल्पक्षयेऽपि न भवेत्तस्य पुण्यस्य संक्षयः॥
वंध्यापि वर्षपर्यंतं स्नात्वा पञ्चनदे ह्रदे ॥२५॥
समर्च्य मंगलां गौरीं पुत्रं जनयति ध्रुवम्॥
जलैः पांचनदैः पुण्यैर्वाससा परिशोधितैः ॥२६॥
महाफलमवाप्नोति स्नापयित्वेह दिक्श्रुताम्॥
पञ्चामृतानां कलशैरष्टोत्तरशतोन्मितैः ॥२७॥
तुलितोऽधिकतां प्राप्तो बिंदुः पांचनदस्तु सः॥
पंचकूर्चेन पीतेन यात्र शुद्धिरुदाहृता ॥२८॥
सा शुद्धिः श्रद्धया प्राश्य बिन्दुं पञ्चनदांभसाम्॥
भवेदथ ह्रदस्नानाद्राजसूयाश्वमेधयोः ॥२९॥
यत्फलं तच्छतगुणं स्मृतं पञ्चनदांबुना॥
राजसूयाश्वमेधौ च भवेतां स्वर्गसाधने ॥३०॥
आब्रह्मपट्टिकाद्वंद्वान्मुक्तिः पञ्चनदांबुभिः॥
स्वर्गनद्यभिषेकोऽपि न तथा संमतः सताम् ॥३१॥
अभिषेकः पांचनदो यथानन्यो वरप्रदः॥
शतं समास्तपस्तप्त्वा कृते यत्प्राप्यते फलम् ॥३२॥
तत्कार्तिके पञ्चन्दे सकृत्स्नानेन लभ्यते॥
इष्टापूर्तेषु धर्मेषु यावज्जन्मकृतेषु यत् ॥३३॥
अन्यत्र स्यात्फलं तस्याधिकं पञ्चनदांबुभिः॥
न धूतपापसदृशं तीर्थं क्वापि महीतले ॥३४॥
यदेकस्नानतो नश्येदघं जन्मत्रयार्जितम्॥
कृते धर्मंनदं नाम त्रेतायां धूतपातकम् ॥३५॥
द्वापरे बिंदुतीर्थँ च कलौ पञ्चनदं स्मृतम्॥
बिंदुतीर्थे नरो दत्वा कांचनं कृष्णकलोन्मितम् ॥३६॥
न दरिद्रो भवेत्क्वापि न सुखेन वियुज्यते॥
गोभूतिलहिरण्याश्ववासोन्नस्थानभूषणम् ॥३७॥
यत्किंचिद्बिंदुतीर्थेऽत्र दत्वाक्षयमवाप्नुयात्॥
एकामप्याहुतिं कृत्वा समिद्धेऽग्नौ विधानतः ॥३८॥
पुण्ये धर्मनदीतीर्थे कोटिहोमफलं लभेत्॥
न पंचनदतीर्थस्य महिमानमनंतकम्॥। ५१-३९॥
कोऽपि वर्णयितुं शक्तश्चतुर्वर्गशुभौकसः॥
इति ते कथितं भद्रे काशीमाहात्म्यमुत्तमम् ॥४०॥
सुखदं मोक्षदं नॄणां महापातकनाशनम्॥
ब्रह्मघ्नो मधुपः स्वर्णस्तेयी च गुरुतल्पगः ॥४१॥
महापातकयुक्तोऽपि संयुक्तोऽप्युपपातकैः॥
अविमुक्तस्य माहात्म्यश्रवणाच्छुद्धिमाप्नुयात् ॥४२॥
ब्राह्मणो वेदविद्वान्स्यात्क्षत्त्रियो विजयी रणे॥
वैश्यो धनपतिः शूद्रो विष्णुभक्तसमागमी ॥४३॥
श्रवणादस्य सुभगे भूयात्पठनतोऽपि वा॥
सर्वयज्ञेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ॥४४॥
तत्सर्वं समवाप्नोति पठनाच्छ्रवणादपि॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥४५॥
भार्यार्थी लभते भार्यां सुतार्थी पुत्रमाप्नुयात्॥
अविमुक्तस्य माहात्म्यं मया ते परिकीर्तितम् ॥४६॥
विष्णुभक्ताय दातव्यं शिवभक्तिरताय च॥
जगज्जननिभक्ताय सूर्यहेरंबसेविने ॥४७॥
गुरुशुश्रूषवे दत्वा तीर्थास्नानफलं लभेत्॥
शठाय निंदकायापि गोविप्रसुरविद्विषे॥
गुरुद्रुहेऽसूयकाय दत्वा मृत्युमवाप्नुयात् ॥४८॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे वसुमोहिनीसंवादे काशीमाहात्म्ये एकपञ्चाशत्तमोऽध्यायः ॥५१॥
N/A
References : N/A
Last Updated : May 09, 2012
TOP