उत्तरभागः - अध्यायः ७
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
यम उवाच॥
प्राप्तं तात मया सार्द्धं वेदांघ्रिनमने हितम्॥
नाहं गच्छामि योगांतं पुनरेव जगत्पते ॥१॥
प्रशासति महीं भूपेहाटकांगदसंज्ञके॥
तमेकं देवताश्रेष्ठं संप्राप्ते हरिवासरे ॥२॥
यदि चालयसे धैर्यात्ततोऽहं तव किंकरः॥
स मे शत्रुर्महान्देव तेन लुप्तः पटो मम ॥३॥
तमेकं भोजयित्वा तु कार्ष्णेऽहनि महीपतिम्॥
कृतकृत्यो भविष्यामि गयापिंडप्रदो यथा ॥४॥
अद्य प्रभृति देवेशोयैर्नरैः संस्मृतो हरिः॥
उपोषितः स्तुत्वोपि न नियम्या मया हि ते ॥५॥
हरिरिति सहसा ये संगृणंतिच्छलेन जननिजठरमार्गात्ते विमुक्ते विमुक्ता हि मर्त्याः॥
मम पटविलिपिं ते नो विशंति प्रवीणा दिविचरवरसंघैस्ते नमस्या भवन्ति ॥६॥
सौतिरुवाच॥
वैवस्वतस्य कार्येण तत्सम्मानचिकीर्षया॥
चिंतयामास देवेशो विरिंचिः कुशलांछनः ॥७॥
चिंतयित्वा क्षणं देवः सर्वभूतैश्च भूषितः॥
भूतत्रासनमात्रं तु रूपं स जगृहे विभुः ॥८॥
तस्मिन्नुत्पादयामास प्रमदां लोकमोहिनीम्॥
सर्वयोषिद्वरा देवीमनसा निर्भिता बभौ ॥९॥
सा बभूवाग्रतस्तस्य सर्वालंकारभूषिता॥
दृष्ट्वा पितामहस्तां तु रूपद्रविणसंयुताम् ॥१०॥
प्राहेमान् पश्यतो ह्येतां स्वकान्वै काममोहितान्॥
प्रत्यवायभयाद्ब्रह्या चक्षुषी संन्यमीलयत् ॥११॥
सरागेणेह मनसा सरागेणेह चक्षुषा॥
चिंतयेद्वीक्षयेद्वापि जननीं वा सुतामपि ॥१२॥
वधूं वा भ्रातृजायां वा गुरोभार्यां नृपस्त्रियम्॥
स याति नरकं घोरं संचिंत्य श्वपचीमपि ॥१३॥
दृष्ट्वा हि प्रमदा ह्येता यः क्षोभं व्रजते नरः॥
तस्य जन्मकृतं पुण्यं वृथा भवति नान्यथा ॥१४॥
प्रसंगे दशसाहस्रं पुण्यमायाति संक्षयम्॥
पुण्यस्य संक्षयात्पापी पाषाणाखुर्भवेद्ध्रुवम् ॥१५॥
तस्मान्न चिंतयेत्प्राज्ञो ह्येता रागेण चक्षुषा॥
जनन्या अपि पादौ तु नादेयौ द्वादशाब्दिकैः ॥१६॥
सुतैस्त्वभ्यंगकरणे पुनर्यौवनसंस्थितैः॥
षष्ट्यतीतां सुतोऽभ्यंगे नियुञ्जीत विचक्षणः ॥१७॥
वृद्धो वापि युवा वापि न पादौ धावयेद्वधूम्॥
उभयोः पतनं प्रोक्तं रौरवेऽङ्गारसंचये ॥१८॥
या वधूर्दर्शयेदंगं विवृतं श्वशुरस्य हि॥
पाणिपादाहता राजन् क्रिमिभक्ष्या भवेत्तु सा॥
वधूहस्तेन यः पापः पादशौचं करोति हि ॥१९॥
स्नानं वाप्यथवाभ्यंगं तस्याप्येवंविधा गतिः॥
सूचीमुखैः कृष्णवक्रैःर्भुज्यते कल्पसंस्थितिम् ॥२०॥
तस्मान्न वीक्षयेन्नारीं सुतां वापि वधूं नरः॥
साभिलाषेण मनसा तत्क्षणात्पतते नरः ॥२१॥
एवं संचिंतयित्वा च सूक्ष्मां दृष्टिं चकार ह॥
यदिदं वर्तुलं वक्त्रं सोन्नतं दृश्यते शुभम् ॥२२॥
अस्थिपंजरमेतद्धि चर्ममांसावृतं त्विति॥
वसा मेदोऽथ नयने सोज्वले स्त्रीषु संस्थिते ॥२३॥
अत्युच्छ्रितमिदं मांसं स्तनयोः समवस्थितम्॥
निम्नांशतां दर्शयति त्रिवली जठरस्थिता ॥२४॥
पुनरेवाधिकं क्षिप्तं मांसं जघनवत्मनि॥
मूत्रद्वारमिदं गुह्यं यत्र मुग्धं जगत्त्रयम् ॥२५॥
अपानवायुना जुष्टं सदैव प्रतिकुत्सितम् ।
भस्त्रावर्गाधिकं क्षिप्तं मांसं जघनवर्त्मनि ॥२६॥
कृतं यद्विद्द्विधा काष्ठं तद्वज्जंघा द्विधा ध्रुवम्॥
शुक्रास्थिपूरितं मांसैः कथं सुन्दरतां व्रजेत् ॥२७॥
मांसमेदोवसासारे किं सारं देहिनां वद॥
विष्ठामूत्रमलैः पुष्टे को देहे रज्यते नरः ॥२८॥
एवं विचार्य बहुधा विरिंचिर्ज्ञानचक्षुषा॥
धैर्यं कृत्वा च नारीं तामुवाच गजगामिनीम् ॥२९॥
यथाहि मनसा सृष्टा मया त्वं वरवर्णिनी॥
तथा भूतासि चार्वंगि मानसोन्मादकारिणी ॥३०॥
तमुवाच तदा सा तु प्रणम्य चतुराननम्॥
पश्य मूर्छान्वत्नांथ जगत्स्थावरजंगमम् ॥३१॥
मोहितं मम रूपेण सयोगि यदकल्मषम्॥
स नास्ति त्रिषु लोकेषु यः पुमान्मम दर्शनात् ॥३२॥
भवंतमादितः कृत्वा न क्षोभं याति पद्मज॥
आत्मस्तुतिर्न कर्तव्या केनचिच्छुभमिच्छता ॥३३॥
स्तवनान्नरकं याति विशुद्धोऽपि च मानवः॥
तथापि स्तवनं ब्रह्मन् कर्तव्यं कार्यहेतुना ॥३४॥
साहं सृष्टा त्वया ब्रह्मन् कस्यचित्क्षोभणाय वै॥
तमादिश जगन्नाथ क्षोभयिष्ये न संशयः ॥३५॥
मां दृष्ट्वापि क्षितौ देव भूधरश्चापि मुह्यति॥
किं पुनश्चेतनोपेतः श्वासोच्छासी नरस्त्विति ॥३६॥
तथा चोक्तं पुराणेषु नारीवीक्षणवर्णनम्॥
उन्मादकरणं नॄणां दुश्चरव्रतनाशनम् ॥३७॥
सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेंद्रियाणां लज्जां तावद्विधत्ते विनयमपि समालंबते तावदेव॥
भ्रूचापाक्षेपयुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतंति ॥३८॥
धिक्तस्य मूढमनसः कुकवेः कवित्वं यः स्त्रीमुखं च शशिनं च समीकरोति॥
भ्रूक्षेपविस्मितकटाक्षनिरीक्षनिरीक्षितानि कोपप्रसादहसितानि कुतः शशांके ॥३९॥
पीतं हि मद्यं मनुजेन नाथ करोति मोहं सुविचक्षणस्य॥
स्मृता च दृष्टा युवती नरेण विमोहयेदेव सुराधिका हि ॥४०॥
मोहनार्थं त्वया सृष्टा नराणां प्रपितामह॥
तमादिशजगन्नाथ त्रैलोक्यं मोहयाम्यहम् ॥४१॥
ब्रह्मोवाच॥
सत्यमुक्तं त्वया देवि नासाध्यं भुवनत्रये॥
नागनासोरु सुभगे मत्तमातंगगामिनि ॥४२॥
या त्वं दूषयसे चेतो ममापि वरवर्णिनि॥
तन्मया सुगृहीतं तु कृतं ज्ञानांकुशेन हि ॥४३॥
सा त्वं कथं न लोकानां चेतांस्यपहरिष्यसि॥
सत्यमेतद्विशालाक्षि तव रूपं विमोहनम् ॥४४॥
सामरं हि जगत्सर्वं निश्चेष्टमपि लक्षये॥
यन्निमित्तं मया सृष्टा तत्साधय वरानने ॥४५॥
वैदिशे नगरे राजा नाम्ना रुक्मांगदः क्षितौ॥
यस्य सन्ध्यावली भार्या तव रूपोपमा शुभे ॥४६॥
यस्यां धर्मांगदो जातो पितुरत्यधिकः सुतः॥
दशनागायु तबलः प्रतापेन रविर्यथा ॥४७॥
यः क्षांत्या धरया तुल्यो गांभीर्ये सांगरोपमः॥
तेजसा वह्निवद्द्वीप्तः क्रोधे वैवस्वतोपमः ॥४८॥
त्यागे वैरौचनिर्यद्वद्गतौ हि पवनोपमः॥
सौम्यत्वे शशितुल्यस्तु रूपवान् मन्मथो यथा ॥४९॥
जीवभार्गवयोस्तुल्यो यो नीतौ राजनन्दनः॥
पित्रा भुक्तं समस्तैकं जंबूद्वीपं वरानने ॥५०॥
धर्मांगदेन द्वीपानि संजितान्यपराण्यपि॥
पित्रोस्तु व्रीडया येन न ज्ञातं प्रमदासुखम् ॥५१॥
स्वयं प्राप्ताः परित्यक्ता येन भार्याः सहस्रशः॥
यो न वाक्याद्विचलते सहैव हि पितुर्गृहे ॥५२॥
यस्य वै त्रीणि सुभगे मातॄणां चारुहासिनि॥
शतानि कनकाभासे त्वविशेषेण पश्यति॥७-५३॥
तस्य धर्मप्रधानस्य पुत्ररत्नांचितस्य च॥
समीपं गच्छ चार्वंगि मंदरे पर्वतोत्तमे ॥५४॥
तत्र वत्स्यति राजा वै तुरगेणातिवाहितः॥
तव गीतेन चार्वंगि मोहितोऽश्वं विहाय च ॥५५॥
अधिरुह्य गिरेः पृष्ठं स संगं यास्यति त्वया॥
तत्र देवि त्वयावाच्यं मिलित्वा भूभुजा त्विह ॥५६॥
अहं भार्या भविष्यामि तव राजन्न संशयः॥
यद्ब्रवीमि ह्यहं नाथ तत्कार्यं हि त्वया ध्रुवम् ॥५७॥
मोहितस्तव रूपेण तथैव प्रतिपद्यते॥
यतस्तं शपथैर्धृत्वा दक्षिणेन करेण वै ॥५८॥
वाच्यः कतिपयैः सुभ्रु दिनैरपगतैस्त्विति॥
सुरते तव चार्वंगि यदा मुग्धो हि लक्ष्यते ॥५९॥
तदा प्रहस्य राज्ञो वै स्मारणीयं पुरा वचः॥
यस्त्वया शपथो राजन्कृतो मद्वाक्यपालने ॥६०॥
तत्पालयमहीपाल मन्येऽहं समयस्त्विति॥
एवमुक्ते त्वया मुग्धो राजा वै सत्यगौरवात् ॥६१॥
पालयामि न संदेहो ब्रूहि किं ते ददाम्यहम्॥
एवमुक्ते तु वचने त्वया वाच्यो वरानने ॥६२॥
रुक्मांगदो महीपालो धर्मांगदपिता शुभे॥
नोपवासस्त्वया कार्यो जातु वै हरिवासरे ॥६३॥
सुरतस्रं सकारी मे ह्युपवासो भवेत्प्रिय॥
सुमुग्धां यौवनोपेतां स्वभार्यां यो न सेवते ॥६४॥
पर्वापेक्षी दुराचारः स याति नरकं ध्रुवम्॥
त्रिरात्रमपविद्धाहं त्वया भूप उपोषणात् ॥६५॥
नाहं निमेषमप्येकं स्थातुं शक्ता त्वया विना॥
श्राद्धकाले तु संप्राप्ते उपाविष्टैर्द्विजैः किल ॥६६॥
याचते संगमं भार्या यदि भोग्या तदैव सा॥
एवं संबोध्यमानोऽपि यदा राजा वचस्तव ॥६७॥
न करिष्यति चार्वंगि तदा वाच्यं परं वचः॥
यदि न त्यजसे राजन्नुपवासं हरेर्दिने ॥६८॥
स्वहस्तेन शिरश्च्छित्वा स्वपुत्रस्य वरासिना॥
धर्मांगदस्य राजेंद्र ममोत्संग्क्षिप स्वयम् ॥६९॥
यद्येतन्मत्प्रियं त्वं हि न करोषि महीपते॥
धर्मक्षीणो भवान् गंता नरके नात्र संशयः ॥७०॥
श्रुत्वा त्वदीयं वचनं वरांगने न हिंस्यते प्राणसमं च पुत्रम्॥
संगृह्य वाक्यं वसुधामराणां सम्भोक्ष्यते माधववासंरेऽसौ ॥७१॥
ततो जनो यास्यति पूर्ववच्च यमांतिकं किंकरपाशबद्धः॥
लिपिप्रमाणं नरकाधिवासी भविष्यते साधु कृतं त्वया हि ॥७२॥
अथ यदि निहंति तनयं राजा सत्येन संयुतः श्रीमान्॥
निःशेषामरपूज्यं व्रजति पदं पद्मनाभस्य ॥७३॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीं प्रति ब्रह्मवाक्यं नाम सप्तमोऽध्यायः ॥७॥
N/A
References : N/A
Last Updated : May 09, 2012
TOP