संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः १६

उत्तरभागः - अध्यायः १६

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


वसिष्ठ उवाच॥
धर्मांगवदचः श्रुत्वा हृष्टो रुक्मांगदोऽब्रवीत्॥
सत्य ते जननी पुत्र संप्राप्ता मंदरे मया ॥१॥

वेदाश्रयसुता बाला मदर्थं कृतनिश्चया॥
कुर्वंती दारुणं पुत्र तपो देवगिरौ पुरा ॥२॥

इतः पंचदशादह्नो हयगामी गतो ह्यहम्॥
मंदरे पर्वतश्रेष्ठे बहुधातुसमन्विते ॥३॥

तस्य मूर्द्धनि बालेयं तोषयंती महेश्वरम्॥
स्थिता गानपरा दृष्टा मया तत्र सुदर्शना ॥४॥

ततोऽहं मूर्च्छया युक्तः पतितो धरणीतले॥
अनंगबाणसंविद्धो व्याधविद्धो यथा मृगः ॥५॥

ततोऽहमनया देव्या चालितश्चारुनेत्रया॥
वृतश्चैवापि भर्तृत्वे किंचित्प्रार्थनया सह ॥६॥

मया चापि प्रतिज्ञातं स्वदक्षिणकरान्वितम्॥
सेयं भार्या विशालाक्षी कृता भूधरमस्तके ॥७॥

अवरुह्य धरापृष्टे समारुह्य तुरंगमम्॥
दिनत्रयेण त्वरितः संप्राप्तस्तव सन्निधौ ॥८॥

पश्यमानो गिरीन्देशान्सरांसिसरितस्तथा॥।
इयं हि जननी पुत्र तव प्रीतिविवर्द्धिनी ॥९॥

अभिवादय चार्वंगीं त्वं निजामिव मातरम्॥
तत्पितुर्वचनं श्रुत्वा हयसंस्थामरिंदमः ॥१०॥

शिरसा धरणीं गत्वा इदं वचनमब्रवीत्॥
प्रसीद देवि मातस्त्वं भृत्यो दासः सुतस्तव ॥११॥

नमस्करोमि जननीं बहुभूपालसंयुतः॥
तं पुत्रमवनीं प्राप्तं मोहिनी प्रेक्ष्य भूपते ॥१२॥

भर्तुर्दाक्षिण्ययोगाच्च अवतीर्य तुरंगमात्॥
अवागूहत बाहुभ्यामुत्थाप्य पतितं सुतम् ॥१३॥

परिष्वक्तस्तदा मात्रा पुनरेवाभ्यनंदयत्॥
ततस्तां सुमनोज्ञैस्तु चारुवस्त्रैस्च भूषणैः ॥१४॥

भूषयित्वा समारोप्य पुनरेव हयोत्तमम्॥
स्वपृष्ठे चरणं कृत्वा तस्या राजीवलोचनः ॥१५॥

तेनैव विधिना भूप पितरं चान्वरोहयत्॥
भूपालैः संवृतो गच्छन्पभ्द्यां धर्मांगदः सुतः ॥१६॥

प्रहर्षपुलको ह्यासीज्जननीं प्रेक्ष्य मोहिनीम्॥
स्तूयमानः स्वयं चापि मेघगंभीरया गिरा ॥१७॥

धन्यः स तनयो लोके मातरो यस्य भूरिशः॥
नवा नवतरा भार्याः पितुरिष्टा मनोहराः ॥१८॥

यस्यैका जननी लोके पिता तस्यैव दुःखभाक्॥
पितुर्दुःखेन किं सौख्यं पुत्रस्य हृदि वर्तते ॥१९॥

एकस्या वंदने मातुः पृथिवीफलमश्नुते॥
मातॄणां वंदने मह्यं महत्पुण्यं भविष्यति ॥२०॥

तस्मादभ्यधिकं पुण्यं भविष्यति दिने दिने॥
एकमुच्चरमाणोऽसौ राजभिः परिवारितः ॥२१॥

प्रविष्टो नगरं रम्यं वैदिशं ऋद्धिसंयुतम्॥
हयस्थः प्रययौ राजा मोहिन्या सह तत्क्षणात् ॥२२॥

ततो गृहवरं प्राप्य पूज्यमानो जनैर्नृपः॥
अवरुह्य हयातस्मान्‌मोहिनीं वाक्यमब्रवीत् ॥२३॥

धर्मांगदस्य पुत्रस्य गृहे गच्छ मनोहरे॥
एष ते गुरुशुश्रूषां करिष्यति यथा गुणम् ॥२४॥

न सखी नैव दासी ते शुश्रूषामाचरेदिति॥
सा चैवमुक्ता पत्या तु प्रस्थिता सुतमन्दिरम् ॥२५॥

धर्मांगदेन सा दृष्टा गच्छंती मन्दिराय वै॥
आत्मनो भर्तृवाक्येन परित्यज्य महीपतीन् ॥२६॥

तिष्ठध्वं पितुरादेशादिमां शुश्रूषये ह्यहम्॥
स एवमुक्त्वा गत्वा तु बाहुभ्यां परिगृह्य वै॥
क्रमे पञ्चदशे प्राप्ते पर्यंके त्ववरोपयत् ॥२७॥

कांचने पट्टसूत्रेण रचिते कोमले दृढे॥
मृद्वास्तरणसंयुक्ते मणिरत्नविभूषिते ॥२८॥

रत्नदीपैश्च बहुशः खचिते सूर्यसप्रभे॥
ततः पादोदकं चक्रे मोहिन्या धर्मभूषणः ॥२९॥

सन्ध्यावल्या गुरुत्वेन ह्यपश्यत्तां नृपात्मजः॥
नैवमस्याभवद्दुष्टं मनस्तां मोहिनीं प्रति ॥३०॥

सुकुमारोऽपि तन्वंगीं पीनोरुजघनस्तनीम्॥
मेने वर्षायुतसमामात्मानं च त्रिवत्सरम् ॥३१॥

प्रक्षाल्य चरणौ तस्यास्तज्जलं शिरसि न्यधात्॥
उवाचावनतो भूत्वा सुकृती मातरस्म्यहम् ॥३२॥

इत्युक्त्वा नरनारीभिः स्वयं च श्रमनाशनम्॥
चकार सर्वभोगैस्तां युयोज च मुदान्वितः ॥३३॥

क्षीरोदमथने जाते कुण्डले चामृतस्रवं॥
ये लब्धे दानवाञ्चित्वा पाताले धर्ममूर्त्तिना ॥३४॥

मोहिन्या कर्णयोश्चक्रे स्वयमेव वृषांगदः॥
अष्टोत्तरसहस्रैश्च धात्रीफलनिभैः शुभैः ॥३५॥

मौक्तिकै रचितैः शुभ्रैर्हारो देव्याः कृतो हृदि॥
निष्कं पलशतं स्वर्णं कुलिशायुतभूषितम् ॥३६॥

हार लघूत्तरं चक्रे मातुर्नृपसुतस्तदा॥
वलया वज्रखचिता द्विरष्टौ करयोर्द्वयोः ॥३७॥

एकैके निष्ककोटीभिर्मूल्यविद्भिर्नरैः कृताः॥
केयूरनूपुरौ तस्या अनर्घौ स नृपात्मजः ॥३८॥

प्रददौ पितुरिष्टाया भूषणार्थं रविप्रभौ॥
कटिसूत्रं तु शर्वाण्या यदासीत्पावकप्रभम् ॥३९॥

तद्भ्रष्टं भयभीतायाः संग्रामे तारकामये॥
कालनेमौ स्थिते राज्ये पतितं मूलपाचने ॥४०॥

तद्गृहीतं तु दैत्येन मयेन लोकमायिना॥
तं हत्वा मलये दैत्यं दैत्यकोटिसमावृतम् ॥४१॥

संवत्सररणे घोरे पितुर्वचनकारणात्॥
अवाप कटिसूत्रं तु दैत्यराजप्रियास्थितम् ॥४२॥

तद्ददौ पितुरिष्टायाः सानन्दपुलको नृपः॥
हिरण्यकशिपोः पूर्वं या भार्या लोकसुन्दरी ॥४३॥

तस्याः सीमंतकश्चासीत्सौदामिनिसमप्रभः॥
सा प्रविष्टा समं पत्या यदा पावकमंगला ॥४४॥

समुद्रे क्षिप्य सीमन्तं दुःखेन महतान्विता॥
सागरस्तत्तु संगृह्य रत्नश्रेष्ठयुगं किल ॥४५॥

ददौ धर्मांगदायाथ तस्य वीर्येण तोषितः॥
जनन्याः प्रददौ हृष्टः सूर्यकोटिसमप्रभम् ॥४६॥

अग्निशौचे शुभे वस्त्रे कंचुके सुमनोहरे॥
सहस्रकोटिमूल्ये ते मोहिन्याः संन्यवेदयत् ॥४७॥

देवमाल्यं सुगंधाढ्यं तथा देवविलेपनम्॥
सर्वदेवगुरोः पूर्वं सिद्धहस्तात्सुदुर्लभम् ॥४८॥

धर्मांगदेन वीरेण द्वीपानां विजये तथा॥
लब्धं तत् प्रददौ देव्या मोहिन्याः कामवर्द्धनम् ॥४९॥

संभूष्य परया भक्त्या पश्चात्षड्रसभोजनम्॥
आनीतं मातृहस्तेन भोजयामास भूमिप ॥५०॥

पुरस्तादेव जननीं वाक्यैः संबोध्य भूरिशः॥
मया त्वया च कर्तव्यं राज्ञो वाक्यं न संशयः ॥५१॥

या इष्टा नृपतेर्देवि सास्माकं हि गरीयसी॥
इष्टा या भूपतेर्भर्तुस्तस्या या दुष्टमाचरेत् ॥५२॥

सा पत्नी नरकं याति यावदिंद्राश्चतुर्दश॥
सापत्नभावं या कुर्याद्भर्तृस्नेहेष्टया सह ॥५३॥

तस्याः स्नेहवियोगार्थं तप्यते ताम्रभ्राष्टके॥
यथा सुखं भवेद्भर्तुस्तथा कार्यं हि भार्यया ॥५४॥

अनुकूलं हितं तस्या इष्टाया भर्तुराचरेत्॥
यथा भर्ता तथा तां हि पश्येत वरवर्णिनि ॥५५॥

हीनायाश्चापि शुश्रूषां कृत्वा याति त्रिविष्टपम्॥
पश्चात्स्थाने भवेत्सापि मनसा याभवत्प्रिये ॥५६॥

सर्वान्भोगानवाप्नोति भर्तुरिष्टं प्रगृह्य हि॥
इर्ष्याभावपरित्यागात्सर्वेश्वरपदं लभेत् ॥५७॥

सपत्नी या सपत्न्यास्तुःशुश्रूषां कुरुते सदा॥
भर्तुरिष्टां संनिरीक्ष्य तस्या लोकोऽक्षयो भवेत् ॥५८॥

भर्तुरिष्टा पुरा वेश्या ह्यभवत्सा कुलेषु वै॥
शूद्रजातेः सुदुष्टस्य परित्यक्तक्रियस्य तु ॥५९॥

आचरद्‌वेश्यया सार्द्धं सा भार्या पतिरंजिनी॥
प्रक्षालनं द्वयोः पादौ द्वयोरुच्छिष्टभोजिनी ॥६०॥

उभयोरप्यधः शेते उभयोर्वै हितं रता॥
वेश्यया वार्यमाणापि सदाचारपथे स्थिता ॥६१॥

एवं शुश्रीषयंत्या हि भर्तारं वेश्यया सह॥
जगाम सुमहान्कालो वर्तंत्या दुःखसागरे ॥६२॥

अपरस्मिन्दिने भर्ता माहिषं मूलकान्वितम्॥
अभक्षयत निष्पावं दुर्मेधास्तैलमिश्रितम् ॥६३॥

तदपथ्यभुजस्तस्य अवमन्य पतिव्रताम्॥
अभवद्दारुणो रोगो गुदे तस्य भगंदरः ॥६४॥

संदह्यमानोऽतितरां दिवा रात्रौ स भूरिशः॥
तस्य गेहे स्थितं वित्तं समादाय जगाम सा ॥६५॥

वेश्यान्यस्मैददौ प्रीत्या यूने कामपरायणा॥
ततः स दीनवदनो व्रीडया च समन्वितः ॥६६॥

उवाच प्ररुदन्भार्यां शूद्रो व्याकुलचेतनः॥
परिपालय मां देवि वेश्यासक्तं सुनिष्ठुरम् ॥६७॥

न मयोपकृतं किंचित्तव सुंदरि पापिना॥
रमते वेश्यया सार्द्धं बहूनब्दान्सुमध्यमे ॥६८॥

यो भार्यां प्रणतां पापोनानुमन्येत गर्वितः॥
सोऽशुभानि समाप्नोति जन्मानि दश पंच च ॥६९॥

दिवाकीर्तिगृहे तस्माद्योनिं प्राप्स्यामि गर्हिताम्॥
तवापमानतो देवि मनो न कलुषीकृतम् ॥७०॥

इति भर्तृवचः श्रुत्वा भार्या भर्तारमब्रवीत्॥
पुराकृतानि पापानि दुःखानि प्रभवंति हि॥
तानि सक्षमते विद्वान् स विज्ञेयो नृणां वरः ॥७१॥

तन्मया पापया पापं कृतं वै पूर्वजन्मनि॥
तद्भजंत्या न मे दुःखं न विषादः कथंचन ॥७२॥

एवमुक्त्वा समाश्वास्य भर्तारमनुशास्य च॥
अनीतं जनकाद्वित्तं बंधुभ्यो वरवर्णिनी ॥७३॥

क्षीरोदनिलयावासं मन्यते स्म सती पतिम्॥
दिवा दिवा त्रिर्यत्नेन रात्रौ गुह्यविशोधनम् ॥७४॥

रजनीकरवृक्षोत्थं गृह्य निर्यासमंजसा॥
नखेन पातयेद्भर्तुः क्रिमीन्कुष्ठाच्छनैः शनैः ॥७५॥

मयूरपुच्छसंयुक्तं पवनं चाकरोत्तदा॥
न देवि रात्रौ स्वपिति न दिवा च वरानना ॥७६॥

भर्तृदुःखेन संतप्ता अपश्यज्ज्वलितं जगत्॥
यद्यस्ति वसुधा देवी पितरो देवतास्तथा ॥७७॥

कुर्वंतु रोगहीनं मे भर्तारं गतकल्मषम्॥
चंडिकायै प्रदास्यामि रक्तं मांससमुद्भवम् ॥७८॥

नृच्छागमहिषोपेतं भर्तुरारोग्यहेतवे॥
सादरं कारयिष्यामि उपवासान्दशैव तु ॥७९॥

शरीरं स्थापयिष्येऽहं सूक्ष्मकंटकसंस्तरे॥
नोपभोक्ष्यामि मधुरं नोपभोक्ष्यामि वै घृतम् ॥८०॥

बाह्याभ्यंगविहीनाहं संस्थास्ये दिनसंचयम्॥
जीवतां रोगहीनो हि भर्ता मे शरदां शतम् ॥८१॥

एवं प्रव्याहरंती सा वासरे वासरे गते॥
अथ कालेन चाल्पेन त्रिदोषोऽस्य व्यजायत ॥८२॥

त्रिकटुं प्रददौ भर्तुर्यत्नेन महता तदा॥
शीतार्तः कंपमानोऽसौ पत्न्यंगुलिमखंडयत् ॥८३॥

उभयोर्दतयोः श्लेषः सहसा समपद्यत॥
तत्खंडमंगुलेर्वक्त्रे स्थितं नृपतिवल्लभे ॥८४॥

अथ विक्रीय वलयं क्रीत्वा काष्ठानि भूरिशः॥
चितां सार्पिर्युतां चक्रे मध्ये धृत्वा पतिं तदा ॥८५॥

अवरुह्य च बाहुभ्यां पादेनाकृष्य पावकम्॥
मुखे सुखं समाधाय हृदये हृदयं तथा ॥८६॥

जघने जघनं देवि आत्मनः संनिवेश्य वै॥
दाहयामास कल्याणी भर्तुर्देहं रुजान्वितम् ॥८७॥

आत्मना सह चार्वंगी ज्वलिते जातवेदसि ॥८८॥

विमुच्य देहं सहसा जगाम पतिं समादाय च देवलोकम्॥
विशोधयित्वा बहुपापसंघान्स्वकर्मणा दुष्करसाधनेन ॥८९॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे पतिव्रतोपाख्यानं नाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP