संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ६४

उत्तरभागः - अध्यायः ६४

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


अथ कुरुक्षेत्रमाहात्म्यं प्रारभ्यते॥
मोहिन्युवाच॥
वसो कृपालो धर्मज्ञ त्वया बहुविदा मम॥
तीर्थराजस्य माहात्म्यं प्रयागस्य निरूपितम् ॥१॥

यत्सर्वतीर्थमुख्येषु कुरुक्षेत्रं शुभावहम्॥
पावनं सर्वलोकानां तन्ममाचक्ष्व सांप्रतम् ॥२॥

वसुरुवाच॥
श्रृणु मोहिनि वक्ष्यामि कुरुक्षेत्रं सुपुण्यदम्॥
यत्र गत्वा नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥३॥

तत्र तीर्थान्यनेकानि सेवितानि मुनीश्वरैः॥
तान्यहं तेऽभिधास्यामि श्रृण्वतां मुक्तिदानि च ॥४॥

ब्रह्मज्ञानं गयाश्राद्धं गोग्रहे मरणं तथा॥
वासः पुंसां कुरुक्षेत्रे मुक्तिरुक्ता चतुर्विधा ॥५॥

सरस्वतीदृषद्वत्योर्देवनद्योर्यदंतरम्॥
तं देवसेवितं देशं ब्रह्मावर्तं प्रचक्षते ॥६॥

दूरस्थोऽपि कुरुक्षेत्रे गच्छामि च वसाम्यहम्॥
एवं यः सतत ब्रूयात्सोऽपि पापैः प्रमुच्यते ॥७॥

तत्र वै यो वसेद्धीरः सरस्वत्यास्तटे स्थितः॥
तस्य ज्ञानं ब्रह्ममयं भविष्यति न संशयः ॥८॥

देवता ऋषयः सिद्धाः सेवंते कुरुजांगलम्॥
तस्य संसेवनाद्देवि ब्रह्म चात्मनि पश्यति ॥९॥

मोहिन्युवाच॥
कुरुक्षेत्रं द्विजश्रेष्ट सर्वतीर्थाधिकं कथम्॥
तन्मे विस्तरतो ब्रूहि त्वामहं शरणं गता ॥१०॥

वसुरुवाच॥
श्रृणु भद्रे प्रवक्ष्यामि कुरुक्षेत्रं महाफलम्॥
यथा जातं नृणां पापदहनं ब्रह्मणः प्रियम् ॥११॥

आद्यं ब्रह्मसरः पुण्यं तत्र स्थाने समुद्गतम्॥
ततो रामह्रदो जातः कुरुक्षेत्रं ततः परम् ॥१२॥

सरः संनिहितं तच्च ब्रह्मणा निर्मितं पुरा॥
अथैषा ब्रह्मणो वेदी दिशमंतरतः स्थिता ॥१३॥

ब्रह्मणात्र तपस्तप्तं सृष्टिकामेन मोहिनि॥
स्थितिकामेन हरिणा तपस्तप्तं च चक्रिणा ॥१४॥

सरः प्रवेशात्संप्राप्तं स्थाणुत्वं शंभुनापि च॥
पितुर्वधाच्च तप्तेन पशुरामेण भामिनि ॥१५॥

अब्रह्मण्यक्षत्रवधाद्ये च रक्तह्रदाः कृताः॥
तद्रक्तेन तु संतर्प्य कृतवांस्तत्र वै तपः ॥१६॥

रामतीर्थं ततः ख्यातं संजातं पापनाशनम्॥
मार्कंडेयेन मुनिना संतप्तं परमं तपः ॥१७॥

यत्र तत्र समायाता प्लक्षजाता सरस्वती॥
सा सभाज्य स्तुता तेन मुनिना धार्मिकेण ह ॥१८॥

सरः संनिहितं प्लाव्यं पश्चिमां प्रस्थिता दिशम्॥
कुरुणा तु ततः कृष्टं यावत्क्षेत्रं समंततः ॥१९॥

पंचयोजनविस्तारं दयासत्यक्षमोद्गमम्॥
स्यमंतपंचकं तावत्कुरुक्षेत्रमुदाहृतम् ॥२०॥

अत्र स्नाता नरा देवि लभंते पुण्यमक्षयम्॥
मृता विमानमारुह्य ब्रह्मलोकं व्रजंति च ॥२१॥

उपवासश्च दानं च होमो जप्यं सुरार्चनम्॥
अक्षयत्वं प्रयांत्येव नात्र कार्या विचारणा ॥२२॥

ब्रह्मवेद्यां कुरुक्षेत्रे ये मृतास्तेऽपुनर्भवाः॥
ग्रहनक्षत्रताराणां कालेन पतनाद्भयम् ॥२३॥

कुरुक्षेत्रे मृतानां तु न भूयः पतनं भवेत्॥
देवर्षिसिद्धगंधर्वास्तत्सरः सेवनोत्सुकाः ॥२४॥

यत्र नित्यं स्थिता देवि रंतुकं नामतस्ततः॥
तस्य क्षेत्रस्य रक्षार्थं विष्णुना स्थापिताः पुरा ॥२५॥

यक्षः सुचंद्रः सूर्यश्च वासुकिः शंबुकर्णकः॥
विद्याधरः सुकेशी च राक्षसाः स्थापिताः शुभे ॥२६॥

सभृत्यैस्तेऽष्टसाहस्रैर्द्धनुर्बाणधरैः सदा॥
रक्षंति च कुरुक्षेत्रं वारयंति च पापिनः ॥२७॥

रंतुकं तु समासाद्य क्षामयित्वा पुनः पुनः॥
ततः स्नात्वा सरस्वत्यां यक्षं दृष्ट्वा प्रणम्य च ॥२८॥

पुष्पं धूपं च नैवेद्यं कृत्वैतद्वाक्यमुच्चरेत्॥
तव प्रसादाद्यक्षेन्द्र वनानि सरितस्तथा ॥२९॥

भ्रमतो मम तीर्थानि मा विघ्नं जायतां नमः॥
इति प्रसाद्ययक्षेशं यात्रां सम्यक् समाचरेत् ॥३०॥

वनानां चापि तीर्थानां सरितामपि मोहिनि॥
यो नरः कुरुते यात्रां कुरुक्षेत्रस्य पुण्यदाम् ॥३१॥

न तस्य न्यूनता काचिदिह लोके परत्र च ॥३२॥

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे कुरुक्षेत्रमाहात्म्ये क्षेत्रप्रमाणादिनिरूपणं नाम
चतुष्षष्टितमोऽध्यायः ॥६४॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP