संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः १९

उत्तरभागः - अध्यायः १९

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


वसिष्ठ उवाच॥
सोऽनुज्ञातो महीपालः प्रियाभिः प्रियकामुकः॥
प्रहर्षमतुलं लेभे धर्मांगदमुवाच ह ॥१॥

एतां द्वीपवतीं पृथ्वीं परिपालय पुत्रक॥
कृत्वा दुष्टवधं त्वादावप्रमत्तः सदोद्यतः ॥२॥

सदावसरसंयुक्तः सदाचारनिरीक्षकः॥
सदा चेतनसंयुक्तः सदा वाणिज्यवल्लभः ॥३॥

सदा भ्रमणशीलश्च सदा दानरतिर्भव॥
सदा कौटिल्यहीनश्च सदाचाररतः सदा ॥४॥

अपरं श्रृणु मे पुत्र यत्कर्त्तव्यं त्वयाधुना॥
अविश्वासस्तु सर्वत्र भूमिपानां प्रशस्यते ॥५॥

कोषस्य च परिज्ञानं जनानां जनवल्लभ॥
रसवद्द्रव्यमाकर्षेः पुष्पेभ्य इव षट्पदः ॥६॥

त्वया पुत्रेण संप्राप्तं पुनरेवेह यौवनम् ॥७॥

इमामपूर्वां वररूपमोहिनीं संप्राप्य भार्यां द्विजराजवक्त्राम्॥
सुखेन संयोज्य च तेऽद्य भारं सप्तोदधिद्वीपभवं प्ररंस्ये ॥८॥

व्रीडाकरस्तात मनुष्यलोके समर्थपुत्रे सुरताभिकामी॥
भवेत्पिता चेद्ब्रलिभिश्च युक्तो जीर्णद्विजः श्वेतशिरोरुहश्च ॥९॥

जीर्णोऽप्यजीर्णस्तव सौख्यवृद्धो वांछे इमां लोकवरां वरार्हाम्॥
संत्यज्य देवान्मम हेतुमागतामनंगबाणाभिहतां सुनेत्राम् ॥१०॥

कामं रमिष्ये द्रुतकां चनाभां ह्येकांतशीलः परिपूर्णचेताः॥
भूत्वा तु गुप्तो वननिर्झरेषु रम्येषु दिव्येषु नदीतटेषु ॥११॥

इयं पुरंध्री मम जीविताधिका सुखेन धार्या त्रिदिवैकनारी॥
अस्यास्तु हेतोर्विबुधा विमूढा यथा रमायै धरणीशसंघाः ॥१२॥

तद्वाक्यमाकर्ण्य पितुः सुबुद्धिः प्रणम्य भक्त्या जननीसमेतम्॥
नृपोत्तमं तं नृपनन्दनोऽसौ दिदेश भोगार्थमनेकवित्तम् ॥१३॥

आज्ञाविधेयांस्तु पितुर्नियोज्य दासांश्च दासीश्च हिरण्यकंठीः॥
मत्स्यध्वजार्त्तस्य सुखाय पुत्रस्ततो महीरक्षणमाचचार ॥१४॥

नृपैस्तुतो धर्मविभूषणोऽसौ समावृतो द्वीपवतीं समग्राम्॥
तस्येत्थमुर्वीं चरतश्च भूप न पापबुद्धिं कुरुते जनौघः ॥१५॥

न चापि वृक्षः फलपुष्पहीनो न क्षेत्रमासीद्यवशालिहीनम्॥
स्रवंति गावो घटपूरदुग्धं घृताधिकं शर्करवत्सुमिष्टम् ॥१६॥

क्षीरं सुपेयं सकलार्तिनाशनं पापापहं पुष्टिविवर्धनं च॥
जनो न कश्चिद्विभवस्य गोप्ता भर्तुहिं भार्या न कटूक्तिवादिनी ॥१७॥

पुत्रो विनीतः पितृशासने रतो वधूः स्थिता हस्तपुटे च श्वश्रोः॥
द्विजोपदेशे हि जनो व्यवस्थितो वेदोक्तधर्माचरणाद्द्विजोत्तमाः ॥१८॥

न भुंजते माधववासरे जना न यांति शोषं भुविः निम्नगास्तु॥
संभुज्य माना नहि यांति संपदः संभोगयुक्तैरपि मानवैः क्षयम् ॥१९॥

विवृद्धिमायांति जलैरिवोर्द्ध्वं दूर्वातृणं शाद्वलतामुपैति॥
कृती च लोको ह्यभवत्समस्तो धर्मांगदे पालनसंप्रवृत्ते ॥२०॥

भुक्त्वा तु सौख्यानि च यांति मानवा हरेः पदं तद्दिनसेवनेन॥
द्वाराणि सध्वान्तनिशासु भूप गुप्तानि कुर्वंति न दस्यु भीताः ॥२१॥

न चापि गोपेषु ददंति वृत्तिं स्वेच्छाचरा मंदिरमाव्रजंति॥
क्षीरं क्षरंत्यो घटवत्सुभूरिशो वत्सप्रियाः शांतिकराश्च गावः ॥२२॥

अकृष्टपच्या धरणी समस्ता प्ररूढसस्या किल लांगलं विना॥
मातुः पयोभिः शिशवः सुपुष्टा भर्तुः प्रयोगैः प्रमदाः सुपुष्टाः ॥२३॥

नृपैः सुगुप्तास्तु जनाः सुपुष्टाः सत्याभियुक्तो हि वृषः सुपुष्टः॥
एवंविधे धर्मरतिप्रधाने जने प्रवृत्ते हरिभक्तियुक्ते॥
संरक्ष्यमाणे हि नृपात्मजेन जगाम कालः सुखहे तुभूतः ॥२४॥

निरामयो भूतिसमन्वितश्च सभूरिवर्षोत्सवकारकश्च॥
पृथ्वीपतिश्चातिविमोहितश्च विमोहिनीचेष्टितसौख्ययुक्तः ॥२५॥

दिनं न जानाति न चापि रात्रिं मासं च पक्षं च स वत्सरं च॥
अतीव मुग्धः सुरतेन तस्या विरंचिपुत्र्याः शुभचेष्टितायाः ॥२६॥

विमोहिनीसंगमने नृपस्य बभूव शक्तिस्त्वधिका मनोजे॥
यथा यथा सेवत एव भूपस्तथा तथा वृद्धिमियर्ति वीर्यम्॥
पक्षेषु शुक्लेष्विव शीतभानुर्न क्षीयते संततसेवनेन ॥२६॥

वृंदारकः पीतसुधारसो यथा संस्पृश्य संस्पृश्य पुनर्नवोऽसौ॥
पिबंस्तु पानं सुमनोहरं हि श्रृण्वंस्तु गीतं सुपदप्रयुक्तम् ॥२७॥

पश्यंश्च रूपं स नितंबिनीनां स्पृशन्स्पृशन्मोहिनिवक्त्रचंद्रम्॥
विमर्द्दमानस्तु करेण तुंगौ सुखेन पीनौ पिशितोपरूढौ ॥२९॥

घनस्तनौ कांचनकुंभतुल्यौ प्रच्छादितौ हारविभूषणेन॥
वलित्रयं नातिविवर्द्धमानं मनोहरं लोमशराजिशोभम् ॥३०॥

स्तनस्य रूपं परितो विलोक्य दध्रे वरांग्याः शुभलोचनायाः॥
नहीदृशं चारुतरं नितांतं नितंबिनीनां मनसोऽभिरामम् ॥३१॥

यादृग्विधं मोहिनमोहनार्थं विनिर्मितं यद्विधिना स्वरूपम्॥
मृगेंद्रशत्रोःकरसन्निकाशे जंघे विलोमे द्रुतकांचनाभे ॥३२॥

शशांककांतिर्द्दशनस्य पंक्तिर्निगूढगुल्फे जनमोहनार्थम्॥
आपादशीर्षं किल तत्स्वरूपं संपश्यतच्चारुविशालनेत्र्याः ॥३३॥

मेने सुराणामधिकं हि राजा कृतार्थमात्मानमतीव हर्षात्॥
अहो सुतन्वी विपुलेक्षणेयं याचिष्यते यच्च तदेव देयम् ॥३४॥

अस्यास्तु रम्ये सुरते शुभाया दास्यामि चांते निजवित्तजातम्॥
सुदुर्लभं देयमदेयमन्यैर्दास्यामि चास्या यदि वाप्यदेयम् ॥३५॥

यद्यप्यदेयं मम जीवितं हि याचिष्यते चेद्यदि हेमवर्णा॥
दास्यामि चेदं न विचारयिष्ये पुत्रं विना नास्ति नदेयमस्याः ॥३६॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीप्रणयवर्णनं नामैकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP