उत्तरभागः - अध्यायः ४२
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
मोहिन्यु वाच॥
धन्याहं कृतकृत्याहं सफलं जीवितं मम॥
यच्छ्रुतं त्वन्मुखांभोजाद्गामाहात्म्यमुत्तमम् ॥१॥
अहो गङ्गासमं तीर्थं नास्ति किंचिद्धरा तले॥
यस्याः संदर्शनादीनामीदृशं पुण्यमीरितम् ॥२॥
गुडधेन्वादिधेनूनां विधानं च यथाक्रमम्॥
तथा कथयविप्रेन्द्र भक्ताहं तव सर्वदा ॥३॥
वसिष्ठ उवाच॥
तच्छ्रुत्वा मोहिनीवाक्यं वसुस्तस्याः पुरोहितः॥
वेदागमानां तत्त्वज्ञः स्मयमान उवाच ह ॥४॥
वसुरुवाच॥
श्रृणु मोहिनि वक्ष्यामि यत्पृष्टं हि त्वया मम॥
गुडधेनुविधानं च यथा शास्त्रे प्रकीर्तितम् ॥५॥
कृष्णाजिनं चतुर्ग्रीवं विन्यसेद्भुवि॥
गोमयेनोपलिप्तायां कुशानास्तीर्य यत्नतः ॥६॥
प्राङ्मुखीं कल्पयेद्धेनुमुदक्पादां सवत्सकाम्॥
उत्तमा गुडधेनुस्तु चतुर्भारैः प्रकीर्तिता ॥७॥
वत्सं भारेण कुर्वीत भाराभ्यां मध्यमा स्मृता॥
अर्द्धभारेण वत्सः स्यात्कनिष्ठा भारकेण तु ॥८॥
चतुर्थांशेन वत्सः स्याद् गृहवित्तानुसारतः॥
प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तयेत् ॥९॥
न सांपरायिकं तस्य दुर्मतेर्जायते फलम्॥
धेनुवत्सौ घृतस्यैतौ सितश्लक्ष्णांबरावृतौ ॥१०॥
शुक्तिकर्णाविक्षुपादौ शुद्धमुक्तालेक्षणौ॥
सितसूत्रशिरालौ च सितकंबलकंबलौ ॥११॥
ताम्रगंडूकपृष्ठौ तौ सितचामरलोमकौ॥
विद्रुमक्रमगो पेतौ नवनीतस्तनान्वितौ ॥१२॥
कांस्यदोहाविंद्रनीलमणिकल्पिततारकौ॥
सुवर्णश्रृंगाभरणौ शुद्धरौप्यखुरावुभौ ॥१३॥
नानाफलं समायुक्तौ घ्राणगन्धकरंडकौ॥
इत्येवं रचयित्वा तु धूपदीपैरथार्चयेत् ॥१४॥
या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता॥
धेनुरूपेण सा देवी मम शांतिं प्रयच्छतु ॥१५॥
देहस्था या च रुद्राणां शंकरस्य सदा प्रिया॥
धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥१६॥
विष्णोर्वक्षसि या लक्ष्मीः स्वाहारूपा विभावसोः॥
चन्द्रार्कशक्रशक्तिर्या धेनुरूपास्तु सा श्रिये ॥१७॥
चतुर्मुखस्य या लक्ष्मीर्लक्ष्मीर्या धनदस्य च॥
लक्ष्मीर्या लोकपालानां सा धेनुर्वरदास्तु मे ॥१८॥
स्वधा या पितृमुख्यानां स्वाहा यज्ञमुजा च या॥
सर्वपापहरा धेनुः सा मे शांतिं प्रयच्छतु ॥१९॥
एवमांमत्र्य तां धेनुं ब्राह्मणाय निवेदयेत्॥
विधानमेतद्धेनूनां सर्वासामिह पठ्यते ॥२०॥
यास्तु पापर्विनाशिन्यः कीर्तिता दशधेनवः॥
तासां स्वरूपं वक्ष्यामि शास्त्रोकं श्रृणु मोहिनि ॥२१॥
प्रथमा गुडधेनुः स्याद् घृतधेनुरथापरा॥
तिलधेनुस्तृतीया च चतुर्थी जलसंज्ञिता ॥२२॥
पञ्चमी क्षीरधेनुश्च षष्ठी मधुमयी स्मृता॥
सप्तमी शर्कराधेनुर्दधिधेनुस्तथाष्टमी ॥२३॥
रत्नधेनुश्च नवमी दशमी तु स्वरूपतः॥
कुंभाः स्युर्द्रवधेनूनां चेतरासां तु राशयः ॥२४॥
सुर्वणधेनुमप्यत्र केचिदिच्छंति सूरयः॥
नवनीतेन तैलेन तथा केऽपि महर्षयः ॥२५॥
एतदेव विधानं स्यादेत एव ह्युपस्कराः॥
मन्त्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि ॥२६॥
यथाश्रद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः॥
अनेकयज्ञफलदाः सर्वपापहराः शुभाः ॥२७॥
अयने विषुवे पुण्ये व्यतीपातेऽथवा पुनः॥
युगादौ चैव मन्वादौ चोपरागादिपर्वसु ॥२८॥
गुडधेन्वादयो देया भक्तिश्रद्धासमन्वितैः॥
तीर्थेषु स्वगृहे वापि गंगातीरे विशेषतः ॥२९॥
एवं दत्वा विधानेन धेनुं द्विजवराय च॥
प्रदक्षिणीकृत्य विप्रं दक्षिणाभिः प्रतोष्य च ॥३०॥
ऋत्विजः प्रीतिसंयुक्तो नमस्कृत्य विसर्जयेत्॥
ततः संपूजयेद्गंगां विधिना सुसमाहितः ॥३१॥
अष्टमूर्तिधरां देवीं दिव्यरूपां निरीक्ष्य च॥
शालितंदुलप्रस्थेन द्विप्रस्थपयसा तथा ॥३२॥
पायसं कारयित्वा च दत्वा मधु घृतं तथा॥
प्रत्येकं पलमात्रं च भक्तिभावेन संयुतः ॥३३॥
तत्पायसमपूपांश्च मोदका मंडलानि च॥
तथा गुंजार्द्धमात्रं च सुवर्णं रूप्यमेव च ॥३४॥
चंदनागरुकर्पूरकुंकुमानि च गुग्गुलम्॥
बिल्वपत्राणि दूर्वाश्च रोचना सितचंदनम् ॥३५॥
नीलोत्पलानि चान्यानि पुष्पाणि सुरभीणि च॥
यथाशक्ति महाभक्त्या गंगायां चैव निक्षिपेत् ॥३६॥
मन्त्रेणानेन सुभगे पुराणोक्तेन चापि हि॥
ॐगंगायै नारायण्यै शिवायै च नमोनमः ॥३७॥
एतदेव विधानं तु मासि मासि च मोहिनि॥
पौर्णमास्यामपायां वा कार्यं प्रातः समाहितैः ॥३८॥
वर्षं यस्तु नरो भक्त्या यथा शक्त्यर्चयन्मुदा॥
हविष्याशी मिताहारो ब्रह्मचर्यसमन्वितः ॥३९॥
दिने वापि तथा रात्रा नियमेन च मोहिनि॥
संवत्सरान्ते तस्येषा गंगा दिव्यवपुर्द्धरा ॥४०॥
दिव्यमाल्यांबरा चैव दिव्यरत्नविभूषिता॥
प्रत्यक्षरूपा पुरतस्तिष्टत्येव वरप्रदा ॥४१॥
एवं प्रत्यक्षरूपां तां गंगां दिव्यवपुर्द्धराम्॥
दृष्ट्वा स्व चक्षुषा मर्त्यः कृतकृत्यो भवेच्छुभे ॥४२॥
यान्यान्कामयते मर्त्यः कामांस्तांस्तानवाप्नुयात्॥
निष्कामस्तु लभेन्मोक्षं विप्रस्तेनैव जन्मना ॥४३॥
एतद्धिधानं च मयोदितं ते पृष्टं हि सर्वं गुडधेनुपूर्वम्॥
गंगार्चनं मुक्तिकरं व्रतं त्त सांवत्सरं श्रीपतितुष्टिदं हि ॥४४॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गंगामाहात्म्ये गुडधेनुविधिकथनं नाम द्विचत्वारिंशत्तमोऽध्यायः ॥४२॥
N/A
References : N/A
Last Updated : May 09, 2012
TOP