संस्कृत सूची|संस्कृत साहित्य|कवच| ॐ श्रीगणेशाय नमः । नारद ... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीगणेशाय नमः । श्रीदेव... विनियोगः - ॐ अस्य त्रैलो... श्रीलक्ष्मण उवाच । कृताञ... सगर उवाच । श्रुतं सर्वं ... श्रीगणेशाय नमः । श्रीदत्... श्रीपादः पातु मे पादावूरू... श्रीगणेशाय नमः । श्रीदत्... ॐ द्रां ॐ नमः, श्रीगुरुद... विनियोगः - ॐ अस्य श्रीमह... भैरव उवाच । कालिकाकवचस्य... विरूपाक्ष उवाच । नमामि ग... भैरव उवाच । कालिका या मह... श्रीपरमशिव उवाच । सर्पिः... श्रीभैरव उवाच । शणु देव... नारायण उवाच । शणु नारद ... श्रीगणेशाय नमः । ईश्वर उ... श्रीगणेशाय नमः । नारद उव... श्रीदेव्युवाच - पुरा श्र... श्री शिव उवाच - शणु देव... भगवन् देव देवेशकृपया त्वं... श्रीगणेशाय नमः । श्रीदुर्... ॐ अस्य श्री चण्डीकवचस्य ॥... देव्युवाच धनदा या महाविद... श्रीगणेशाय नमः । अथ धूमा... श्री गणेशाय नमः । श्रीमद... ब्रह्मोवाच । शिरो ... विनियोगः नागराजस्य देवस्... ॐ श्रीगणेशाय नमः । ॐ नमो... ॐ श्रीगणेशाय नमः । ॐ नमो... तन्त्रराजतन्त्रे अष्टाविं... निम्बार्क-कवचं वक्ष्ये मह... श्रीगणेशाय नमः । अथापरं ... नारद उवाच । इन्द्रादिदेव... ॥ श्रीगणेशाय नमः ॥ ॥ ... अस्य श्रीपञ्चमुखिवीरहनूमत... अस्य श्रीपञ्चमुखिहनुमत्कव... भगवन् ! सर्वमाख्यातं मन्त... श्रीगणेशाय नमः । श्रीभैर... अथ पञ्चाशीतितमः पटलः । श... ॥ श्रीमहा-त्रिपुर-सुन्दर्... ऋषय ऊचुः । अथ नाम्नां सह... देव्युवाच । भगवन् सर्वधर... सूत उवाच - सहस्रादित्यसङ... ॥ अथ बगलामुखीकवचम् ॥ ... कैलासाचलम्ध्यगम्पुरवहं शा... श्री गणेशाय नमः । श्री बग... श्रीगणेशाय नमः । अस्यश्र... श्रीगणेशाय नमः । श्रीपीता... उक्तं च भैरवतन्त्रे । मह... अस्य श्री बटुकभैरवकवचस्य ... देव्युवाच । देवदेव जगन्न... अस्य श्रीबटुकभैरवकवचस्य ... ॥ श्रीगणेशाय नमः ॥ ॥ ... अथ विनियोगः - अस्य श्रीब... दुर्योधन उवाच - गोपीभ्यः... अस्य बाणलिङ्ग कवचस्य संहा... शिवस्य कवचं स्तोत्रं श्रू... नन्दगोप उवाच । रक्षतु त्... वाग्भवः पातु शिरसि कामराज... श्रीपार्वत्युवाच- देवदेव... अस्य श्रीबालात्रिपुरसुन्द... बालार्कमण्डलाभासां चतुर्ब... श्रीभैरव उवाच- अधुना ते ... ॐ अस्य श्रीबालात्रिपुरसुन... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... ॐ श्रीब्रह्मणे नमः । कवच... श्री गणेशाय नमः । श्री बग... ॐ नमो भगवति वज्रशृङ्खले ... श्रीगणेशाय नमः । नारद... ॐ श्रीदेव्युवाच । ॐ भगवन... अगस्तिरुवाच- अतः परं भरत... श्रीगणेशाय नमः । श्री पा... गम्भीरो माहात्म्यात्प्रशम... श्रीगणेशाय नमः । देव्युव... श्रीदेव्युवाच- भगवन्, पर... पार्वत्युवाच - देव देव म... श्रीगणेशाय नमः । श्रीदेव... श्रीपार्वत्युवाच - देवदे... श्रीगणेशाय नमः । अस्य श्... मल्हारिकवचम् श्रीगणेशाय ... ॐ श्रीगणेशाय नमः । श्रीभ... श्रीगणेशाय नमः । श्रीभैर... श्रीदेव्युवाच । देवदेव म... श्रीगणाधिपतये नमः । श्री... ॐ अस्य श्रीमहागणपतिमन्त्र... ॥ पूर्वपीठिका ॥ महादे... श्री गणेशाय नमः । भैरव उ... श्रीदेव्युवाच - भगवन् सर... श्री गणेशाय नमः । अस्य श... नारद उवाच । आविर्भूय हरि... सदाशिव ऋषिर्देवि उष्णिक्छ... शणुदेवि प्रवक्ष्यामि कवच... श्रीभगवानुवाच- अस्य मन्त... श्रीगणेशाय नमः । अथ महाश... श्रीदेव्युवाच- भगवन् देव... अथ वक्ष्ये महेशानि कवचं स... भैरव उवाच । शृणु देवि !... श्रीदेव्युवाच साधु साधु ... अस्य श्रीमातङ्गीकवचमन्त्र... श्रीगणेशाय नमः । श्रीपार... ॐ नमो भगवते विचित्रवीरहनु... ॐ नमोभगवते रुद्राय । राज... श्रीदेव्युवाच - भगवन् सर... ॐ सिद्धिः । ॐ नमो नरसिंह... एवमाराध्य गौरीशं देवं मृत... श्रीदेव्युवाच - भगवन् दे... ईश्वर उवाच - त्रिकालं गो... श्रीगणेशाय नमः ॥ भगवन... मान्धातोवाच - यमुनायाः क... योगनिद्रोवाच । दूरीभूतं ... उन्मत्तभैरव उवाच - शृणु... श्रीगणेशाय नमः । श्रीयोग... देव्युवाच - भगवन् श्रोतु... कवचं राघवेन्द्रस्य यतीन्द... अथ श्रीराघवेन्द्रार्यकवचं... अथ श्रीराघवेन्द्रार्यरक्ष... पार्वती उवाच- देवदेव महा... श्रीपार्वत्युवाच ॥ ॐ ... महेश्वर उवाच । श्रीजगन्म... श्रीगणेशाय नमः ॥ पार्... ॥ श्रीमदानन्दरामायणे मनोह... अस्य श्रीत्रैलोक्यमोहनवज्... कपिकटकधुरीणः कार्मुकन्यस्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॥ॐ श्रीगणेशाय नमः ॥ अ... इदं पवित्रं परमं भक्तानां... श्रीगणेशाय नमः ॥ ॐ अस... ॐ श्रीभैरव उवाच - शृणु ... भैरव उवाच - वक्ष्यामि दे... ॥अथ श्री रुद्रकवचम् ॥ ... पूर्वपीठिका - श्रीकार्ति... श्रीपार्वत्युवाच । देवदे... श्री देव्युवाच । जमदग... ॥श्री गणेशाय नमः ॥ शृ... ॥श्री गणेशाय नमः ॥ श... सनत्कुमार उवाच- अथ ते कव... अथ ते कवचं देव्या वक्ष्ये... ॥ अथ श्रीमदानन्दरामायणे म... श्रीगणेशाय नमः । ॐ अस्य ... श्रीगणेशाय नमः । ॐ अस्य ... अथ श्रीलक्ष्मीकवचप्रारम्भ... शुकं प्रति ब्रह्मोवाच महा... श्रीगणेशाय नमः । श्रीभैर... अथ श्रीनरसिंहकवचम् । श्र... नारद उवाच - भगवन् सर्वधर... श्री गणेशाय नमः । मौलिं ... श्रीगणेशाय नमः । श्रीभैर... आद्यं रङ्गमिति प्रोक्तं व... अस्य श्री सर्व वशीकरण स्त... ॐ श्रीगणेशाय नमः । ॐ श्र... अस्य श्रीवाराहीकवचस्य त्र... श्री नृसिंहाय नमः । ॐ अस... सूत उवाच । शिरो मे विठ्ठ... श्रीगणेशाय नमः । देव्युव... श्रीमत्परात्पर विश्वकर्मप... शौनक उवाच । किं स्तोत्रं... श्रीगणेशाय नमः ॥ नारद... हरिश्चन्द्रः - ब्रह्मन् ... पूर्वे नारायणः पातु वारिज... ॐ अस्य श्री वीरभद्रकवचमहा... आग्नेयपुराणे अस्य श्रीवे... हरिरुवाच । सर्वव्याधिहरं... श्रीगणेशाय नमः । गुहागरस... ऐश्वरं परमं तत्त्वमादिमध्... ॥ श्रीमदानन्दरामायणे मनोह... श्रीदेव्युवाच - श्रुतं व... विनियोगः । ॐ अस्य श्रीशन... ॐ श्रीगणेशाय नमः । श्री ... शक्र उवाच - शाकम्भर्यास्... श्रीवल्लभसोदरी श्रितजनश्च... ॐ महाशाबरी शक्ति परमात्मन... श्रीगणेशाय नमः । देव्युव... ॐ श्रीगणेशाय नमः । अथ शा... विनियोगः । अस्य श्रीशिवक... दधीचिरुवाच कवचं देवदेवस्... नारद उवाच- शिवस्य कवचं ब... श्रीदेव्युवाच - भगवन्देव... पार्वत्युवाच - भगवन् सर्... श्रीगणेशाय नमः । ॐ अस... श्रीशिवः उवाच - अथ वक्ष्... प्रणम्य देवं विप्रेशं प्र... गोप्य ऊचुः - श्रीकृष्णस्... अथातः सम्प्रवक्षामि कवचं ... श्रीशाण्डिल्य उवाच । शान... ॐ श्रीगणेशाय नमः । श्रीग... श्रीविष्णुरुवाच । संसारम... ॥ अथ सङ्ग्रामविजयविद्या ॥... श्रीआनन्दभैरव उवाच शैलजे... श्रीदेव्युवाच- भगवन्देवद... श्रीआनन्दभैरव उवाच कथितं... श्रीगणेशाय नमः । ॐ अस्य ... श्रीसरस्वतीकवचं भैरव उवाच - शृणु देव... नारद उवाच - श्रुतं सर्वं... ॥ ॐ नम उमङ्गेश्वर्यै ॥ ... ॥ गुरु ध्यानम् ॥ ध्या... ॥ श्रीमदानन्दरामायणान्तर्... प्रसीद भगवन् ब्रह्मन् सर्... ॐ अस्य श्री सुदर्शन कवच म... ॐ अस्य श्री सुदर्शनकवचमाल... श्रीकृष्णाय नमः ॥श्रीगोपी... श्रीगणेशाय नमः । श्रीलक्ष... ॥ॐ नमस्सुब्रह्मण्याय ॥ ... ॐ श्रीगणेशाय नमः । नारद ... अस्य श्री सुब्रह्मण्यकवचस... श्रीगणेशाय नमः ॥ श्रीसूर... वज्रपञ्जराख्यसूर्यकवचम् ।... घृणिर्मे शीर्षकं पातु सूर... ॐ अस्य श्रीसूर्यनारायणदिव... बृहस्पतिरुवाच । इन्द्र श... श्रीगणेशाय नमः । याज्ञवल... ॐ श्रीगणेशाय नमः । श्रीग... कैलासशिखरे रम्ये सुखासीनं... गणेश्वर उवाच । कनककुण... श्रीरामदास उवाच - एकदा स... सनत्कुमार उवाच । कार्तवी... अस्य श्रीहयग्रीवकवचमहामन्... ॥ अथ श्री हयग्रीवकवचम् ॥ ... श्रीगणेशाय नमः । ईश्वर उ... अथ चतुरशीतितमः पटलः श्री... श्रीसुब्रह्मण्यकवचम् - ॐ श्रीगणेशाय नमः । नारद ... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र श्रीसुब्रह्मण्यकवचम् Translation - भाषांतर ॐ श्रीगणेशाय नमः । नारद उवाच- देवेश श्रोतुमिच्छामि ब्रह्मन् वागीश तत्त्वतः । सुब्रह्मण्यस्य कवचं कृपया वक्तुमर्हसि ॥१॥ ब्रह्मोवच महर्षे शृणु मद्वाक्यं बहुना किं तवानघ । मन्त्राश्च कोटिशः सन्ति शम्भुविष्ण्वादिदेवताः ॥२॥ सहस्रनाम्नां कोट्यश्च ह्यङ्गन्यासाश्च कोटिशः । उपमन्त्रास्त्वनेके च कोटिशः सन्ति नारद ॥३॥ मालामन्त्राः कोटिशश्च ह्यश्वमेधफलप्रदाः । कुमारकवचं दिव्यं भुक्तिमुक्तिफलप्रदम् ॥४॥ सर्वसम्पत्करं श्रीमद्वज्रसारसमन्वितम् । सर्वात्मके शम्भुपुत्रे मतिरस्त्यत्र किं तव ॥५॥ धन्योऽसि कृतकृत्योऽसि भक्तोऽसि त्वं महामते । यस्येदं शरजं जन्म यदि वा स्कन्द एव च ॥६॥ तेनैव लभ्यते चैतत्कवचं शङ्करोदितम् । ऋषिश्छन्दो देवताश्च कार्याः पूर्ववदेव च ॥७॥ ध्यानं तु ते प्रवक्ष्यामि येन स्वामिमयो भवेत् । ओङ्कांररूपिणं देवं सर्वदेवात्मकं प्रभुम् ॥८॥ देवसेनापतिं शान्तं ब्रह्मविष्णुशिवात्मकम् । भक्तप्रियं भक्तिगम्यं भक्तानामार्तिभञ्जनम् ॥९॥ भवानीप्रियपुत्रं च महाभयनिवारकम् । शङ्करं सर्वलोकानां शङ्करात्मानमव्ययम् ॥१०॥ सर्वसम्पत्प्रदं वीरं सर्वलोकैकपूजितम् । एवं ध्यात्वा महासेनं कवचं वज्रपञ्जरम् ॥११॥ पठेन्नित्यं प्रयत्नेन त्रिकालं शुद्धिसंयुतः । सत्यज्ञानप्रदं दिव्यं सर्वमङ्गलदायकम् ॥१२॥ अस्य श्रीसुब्रह्मण्यकवचस्तोत्रमहामन्त्रस्य परब्रह्म ऋषिः । देवी गायत्री छन्दः । प्रसन्नज्ञानसुब्रह्मण्यो देवता । ॐ बीजं, श्रीं शक्तिः, सौं कीलकम् । प्रसन्नज्ञानसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः । करन्यासः-श्रीसुब्रह्मण्याय अङ्गुष्ठाभ्यां नमः । शक्तिधराय तर्जनीभ्यां नमः । षण्मुखाय मध्यमाभ्यां नमः । षट्त्रिंशत्कोणसंस्थिताय अनामिकाभ्यां नमः । सर्वतोमुखाय कनिष्ठिकाभ्यां नमः । तारकान्तकाय करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । भूर्भुवस्सुवरोम् (इति दिग्बन्धः) । ध्यानम् - षड्वक्त्रं शिखिवाहनं त्रियनं चित्राम्बरालङ्कृतं शक्तिं वज्रमयीं त्रिशूलमभयं खेटं धनुश्चक्रकम् । पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा ध्यायामीप्सितसिद्धये शिवसुतं स्कन्दं सुराराधितम् ॥ द्विषड्भुजं षण्मुखमम्बिकासुतं कुमारमादित्यसमानतेजसम् । वन्दे मयूरासनमग्निसम्भवं सेनान्यमद्याहमभीष्टसिद्धये ॥ गाङ्गेयं वह्निगर्भं शरवणजनितं ज्ञानशक्तिं कुमारं ब्रह्मेशानामरेड्यं गुहमचलसुतं रुद्रतेजः स्वरूपम् । सोनान्यं तारकघ्नं सकलभयहरं कार्तिकेयं षडास्यं सुब्रह्मण्यं मयूरध्वजरथसहितं देवदेवं नमामि ॥ कनककुण्डलमण्डितषण्मुखं वनजराजिविराजितलोचनम् । निशितशस्त्रशरासनधारिणं शरवणोद्भवमीशसुतं भजे ॥ (लमित्यादि पञ्चपूजा ।) लं पृथिव्यात्मने गन्धं कल्पयामि । हं आकाशात्मने पुष्पाणि कल्पयामि । यं वाय्वात्मने धूपं कल्पयामि । रं अग्न्यात्मने दीपं कल्पयामि । वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि । सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ॥ अथ कवचम् । सुब्रह्मण्यः शिरः पातु शिखां पातु शिवात्मजः । शिवः पातु ललाटं मे भ्रूमध्यं क्रौञ्चदारणः ॥१३॥ भुवौ पातु कुमारो मे नेत्रे पातु त्रिनेत्रकः । पायाद्गौरीसुतः श्रोत्रे गण्डयुग्मं हरात्मजः ॥१४॥ दक्षनासापुटद्वारं प्राणरूपी महेश्वरः । सर्वदेवात्मकः पातु जिह्वां सारस्वतप्रदः ॥१५॥ दन्तान् रक्षतु देवेशः तालुयुग्मं शिवात्मजः । देवसेनापतिः पातु चुबुकं चाद्रिजासुतः ॥१६॥ पार्वतीनन्दनः पातु द्वावोष्ठौ मम सर्वदा । षण्मुखो मे मुखं पातु सर्वदेवशिखामणिः ॥१७॥ सिंहगर्वापहन्ता मे ग्रीवां पातु सनातनः । तारकासुरसंहन्ता कण्ठं दुष्टान्तकोऽवतु ॥१८॥ सुभुजो मे भुजौ पातु स्कन्धमग्निसुतो मम । सन्धियुग्मं गुहः पातु करौ मे पातु पावनः ॥१९॥ कराङ्गुलीः श्रीकरोऽव्यात् सुररक्षणदीक्षितः । वक्षः स्थलं महासेनः तारकासुरसूदनः ॥२०॥ कुक्षिं पातु सदा देवः सुब्रह्मण्यः सुरेश्वरः । उदरं पातु रक्षोहा नाभिं मे विश्वपालकः ॥२१॥ लोकेशः पातु पृष्ठं मे कटिं पातु धराधरः । गुह्यं जितेन्द्रियः पातु शिश्नं पातु प्रजापतिः ॥२२॥ अण्डद्वयं महादेव ऊरुयुग्मं सदा मम । सर्वभूतेश्वरः पातु जानुयुग्ममघापहः ॥२३॥ जङ्घे मे विश्वभुक्पातु गुल्फौ पातु सनातनः । वल्लीश्वरः पातु मम मणिबन्धौ महाबलः ॥२४॥ पातु वल्लीपतिः पादौ पादपृष्ठं महाप्रभुः । पादाङ्गुलीः श्रीकरो मे इन्द्रियाणि सुरेश्वरः ॥२५॥ त्वचं महीपतिः पातु रोमकूपांस्तु शाङ्करिः । षाण्मातुरः सदा पातु सर्वदा च हरप्रियः ॥२६॥ कार्तिकेयस्तु शुक्लं मे रक्तं शरवणोद्भवः । वाचं वागीश्वरः पातु नादं मेऽव्यात्कुमारकः ॥२७॥ पूर्वस्यां दिशि सेनानीर्मां पातु जगदीश्वरः । आग्नेय्यामग्निदेवश्च क्रतुरूपी परात्परः ॥२८॥ दक्षिणस्यामुग्ररूपः सर्वपापविनाशनः । खड्गधारी च नैरृत्यां सर्वरक्षोनियामकः ॥२९॥ पश्चिमास्यां दिशि सदा जलाधारो जितेन्द्रियः । वायव्यां प्राणरूपोऽव्यान्महासेनो महाबलः ॥३०॥ उत्तरस्यां दिशि सदा निधिकर्ता स पातु माम् । शम्भुपुत्रः सदा पातु दिश्यैशान्यां महाद्युतिः ॥३१॥ ऊर्ध्वं ब्रह्मपतिः पातु चतुर्मुखनिषेवितः । अधस्तात्पातु विश्वात्मा सदा ब्रह्माण्डभृत्परः ॥३२॥ मध्यं पातु महासेनः शूरसंहारकृत्सदा । अहङ्कारं मनो बुद्धिं स्कन्दः पातु सदा मम ॥३३॥ गङ्गातीरनिवासी मामादियामे सदाऽवतु । मध्ययामे सुरश्रेष्ठस्तृतीये पातु शाम्भवः ॥३४॥ दिनान्ते लोकनाथो मां पुर्वरात्र्यां पुरारिजः । अर्धरात्रे महायोगी निशान्ते कालरूपधृत् ॥३५॥ मृत्युञ्जयः सर्वकालमन्तस्तु शिखिवाहनः । बहिः स्थितं शक्तिधरः पातु मां योगिपूजितः ॥३६॥ सर्वत्र मां सदा पातु योगविद्यो निरञ्जनः । पातु मां पञ्चभूतेभ्यः पञ्चभूतात्मकस्तदा ॥३७॥ तिष्ठन्तमग्निभूः पातु गच्छन्तं शूरसूदनः । विशाखोऽव्याच्छयानं मां निषण्णं तु सुरेश्वरः ॥३८॥ मार्गे मे नीलकण्ठश्च शैलदुर्गेषु नायकः । अरण्यदेशे दुर्गे चाभयं दद्याद्भयापहः ॥३९॥ भार्यां पुत्रप्रदः पातु पुत्रान् रक्षेत् हरात्मजः । पशून् रक्षेन्महातेजा धनं धनपतिर्मम ॥४०॥ राजराजार्चितः पातु ह्रस्वदेहं महाबलः । जीवनं पातु सर्वेशो महामणिविभूषणः ॥४१॥ सूर्योदये तु मां सर्वो ह्यश्विन्याद्याश्च तारकाः । मेषाद्या राशयश्चैव प्रभवाद्याश्च वत्सराः ॥४२॥ अयने द्वे षडृतवो मासाश्चैत्रमुखास्तथा । शुक्लकृष्णौ तथा पक्षौ तिथयः प्रतिपन्मुखाः ॥४३॥ अहोरात्रे च यामादि मुहूर्ता घटिकास्तथा । कलाः काष्ठादयश्चैव ये चान्ये कालभेदकाः ॥४४॥ ते सर्वे गुणसम्पन्नाः सन्तु सौम्यास्तदाज्ञया । ये पक्षिणो महाक्रूराः उरगाः क्रूरदृष्टयः ॥४५॥ उलूकाः काकसङ्घाश्च श्येनाः कङ्कादिसंज्ञकाः । शुकाश्च सारिकाश्चैव गृध्राः कङ्का भयानकाः ॥४६॥ ते सर्वे स्कन्ददेवस्य खड्गजालेन खण्डिताः । शतशो विलयं यान्तु भिन्नपक्षा भयातुराः ॥४७॥ ये द्रव्यहारिणश्चैव ये च हिंसापरा द्विषः । ये प्रत्यूहकरा मर्त्या दुष्टमर्त्या दुराशयाः ॥४८॥ दुष्टा भूपालसन्दोहाः ये भूभारकराः सदा । कायविघ्नकरा ये च ये खला दुष्टबुद्धयः ॥४९॥ ये च मायाविनः क्रूराः सर्वद्रव्यापहारिणः । ये चापि दुष्टकर्माणो म्लेच्छाश्च यवनादयः ॥५०॥ नित्यं क्षुद्रकरा ये च ह्यस्मद्बाधाकराः परे । दानवा ये महादैत्याः पिशाचा ये महाबलाः ॥५१॥ शाकिनीडाकिनीभेदाः वेताला ब्रह्मराक्षसाः । कूष्माण्डभैरवाद्या ये कामिनी मोहिनी तथा ॥५२॥ अपस्मारग्रहा ये च रक्तमांसभुजो हि ये । गन्धर्वाप्सरसः सिद्धा ये च देवस्य योनयः ॥५३॥ ये च प्रेताः क्षेत्रपालाः ये विनायकसंज्ञकाः । महामेषा महाव्याघ्रा महातुरगसंज्ञकाः ॥५४॥ महागोवृषसिंहाद्याः सैन्धवा ये महागजाः । वानराः शुनका ये च वराहा वनचारिणः ॥५५॥ वृकोष्ट्रखरमार्जाराः ये चातिक्षुद्रजन्तवः । अगाधभूता भूताङ्गग्रहग्राह्यप्रदायकाः ॥५६॥ ज्वालामालाश्च तडितो दुरात्मानोऽतिदुःखदाः । नानारोगकरा ये च क्षुद्रविद्या महाबलाः ॥५७॥ मन्त्रयन्त्रसमुद्भूताः तन्त्रकल्पितविग्रहाः । ये स्फोटका महारोगाः वातिकाः पैत्तिकाश्च ये ॥५८॥ सन्निपातश्लेष्मकाश्च महादुःखकरास्तथा । माहेश्वरा वैष्णवाश्च वैरिञ्चाश्च महाज्वराः ॥५९॥ चातुर्थिकाः पाक्षिकाश्च मासषाण्मासिकाश्च ये । सांवत्सरा दुर्निवार्या ज्वराः परमदारुणाः ॥६०॥ सृष्टका ये महोत्पाता ये जाग्रत्स्वप्नदूषकाः । ये ग्रहाः क्रूरकर्तारो ये वा बालग्रहादयः ॥६१॥ महाशिनो मांसभुजो मनोबुद्धीन्द्रियापहाः । स्फोटकाश्च महाघोराः चर्ममांसादिसम्भवाः ॥६२॥ दिवाचोरा रात्रिचोरा ये सन्ध्यासु च दारुणाः । जलजाः स्थलजाश्चैव स्थावरा जङ्गमाश्च ये ॥६३॥ विषप्रदाः कृत्रिमाश्च मन्त्रतन्त्रक्रियाकराः । मारणोच्चाटनोन्मूलद्वेषमोहनकारिणः ॥६४॥ गरुडाद्याः पक्षिजाता उद्भिदश्चाण्डजाश्च ये । कूटयुद्धकरा ये च स्वामिद्रोहकराश्च ये ॥६५॥ क्षेत्रग्रामहरा ये च बन्धनोपद्रवप्रदाः । मन्त्रा ये विविधाकाराः ये च पीडाकरास्तथा ॥६६॥ यो चोक्ता ये ह्यनुक्ताश्च भूपातालान्तरिक्षगाः । ते सर्वे शिवपुत्रस्य कवचोत्तारणादिह ॥६७॥ सहस्रधा लयं यान्तु दूरादेव तिरोहिताः । फलश्रुतिः । इत्येतत्कवचं दिव्यं षण्मुखस्य महात्मनः ॥६८॥ सर्वसम्पत्प्रदं नृणां सर्वकायार्थसाधनम् । सर्ववश्यकरं पुण्यं पुत्रपौत्रप्रदायकम् ॥६९॥ रहस्यातिरहस्यं च गुह्याद्गुह्यतरं महत् । सर्वेदेवप्रियकरं सर्वानन्दप्रदायकम् ॥७०॥ अष्टैश्वर्यप्रदं नित्यं सर्वरोगनिवारणम् । अनेन सदृशं वर्म नास्ति ब्रह्माण्डगोलके ॥७१॥ सत्यं सत्यं पुनः सत्यं शृणु पुत्र महामुने । एकवारं जपन्नित्यं मुनितुल्यो भविष्यति ॥७२॥ त्रिवारं यः पठेन्नित्यं गुरुध्यानपरायणः । स एव षण्मुखः सत्यं सर्वदेवात्मको भवेत् ॥७३॥ पठतां यो भेदकृत्स्यात् पापकृत्स भवेद्ध्रुवम् । कोटिसङ्ख्यानि वर्माणि नानेन सदृशानि हि ॥७४॥ कल्पवृक्षसमं चेदं चिन्तामणिसमं मुने । सकृत्पठनमात्रेण महापापैः प्रमुच्यते ॥७५॥ सप्तवारं पठेद्यस्तु रात्रौ पश्चिमदिङ्मुखः । मण्डलान्निगडग्रस्तो मुच्यते न विचारणा ॥७६॥ विद्वेषी च भवेद्वश्यः पठनादस्य वै मुने । कृत्रिमाणि च सर्वाणि नश्यन्ति पठनाद्ध्रुवम् ॥७७॥ यं यं च याचते कामं तं तमाप्नोति पूरुषः । नित्यं त्रिवारं पठनात्खण्डयेच्छत्रुमण्डलम् ॥७८॥ दशवारं जपन्नित्यं त्रिकालज्ञो भवेन्नरः । इन्द्रस्येन्द्रत्वमेतेन ब्रह्मणो ब्रह्मताऽभवत् ॥७९॥ चक्रवर्तित्वमेतेन सर्वेषां चैव भूभृताम् । वज्रसारतमं चैतत्कवचं शिवभाषितम् ॥८०॥ पठतां शृण्वतां चैव सर्वपापहरं परम् । गुरुपूजापरो नित्यं कवचं यः पठेदिदम् ॥८१॥ मातुः स्तन्यं पुनः सोऽपि न पिबेन्मुनिसत्तम । कुमारकवचं चेदं यः पठेत्स्वामिसन्निधौ ॥८२॥ सकृत्पठनमात्रेण स्कन्दसायुज्यमाप्नुयात् । सेनानीरग्निभूः स्कन्दस्तारकारिर्गुणप्रियः ॥८३॥ षाण्मातुरो बाहुलेयः कृत्तिकाप्रियपुत्रकः । मयूरवाहनः श्रीमान् कुमारः क्रौञ्चदारणः ॥८४॥ विशाखः पार्वतीपुत्रः सुब्रह्मण्यो गुहस्तथा । षोडशैतानि नामानि शृणुयात् श्रावयेत्सदा ॥८५॥ तस्य भक्तिश्च मुक्तिश्च करस्थैव न संशयः । गोमूत्रेण तु पक्त्वान्नं भुक्त्वा षण्मासतो मुने ॥८६॥ सहस्रं मूलमन्त्रं च जप्त्वा नियमतन्त्रितः । सप्तविंशतिवारं तु नित्यं यः प्रपठेदिदम् ॥८७॥ वायुवेगमनोवेगौ लभते नात्र संशयः । य एवं वर्षपर्यन्तं पूजयेद्भक्तिसंयुतः ॥८८॥ ब्रह्मलोकं च वैकुण्ठं कैलासं समवाप्स्यति । तस्मादनेन सदृशं कवचं भुवि दुर्लभम् ॥८९॥ यस्य कस्य न वक्तव्यं सर्वथा मुनिसत्तम । पठन्नित्यं च पूतात्मा सर्वसिद्धिमवाप्स्यति । सुब्रह्मण्यस्य सायुज्यं सत्यं च लभते ध्रुवम् ॥९०॥ इति श्रीस्कन्दपुराणानतः श्रीसुब्रह्मण्यकवचं सम्पूर्णम् । N/A References : N/A Last Updated : December 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP