संस्कृत सूची|संस्कृत साहित्य|कवच|
ॐ अस्य श्रीमदादित्यकवचस्त...

आदित्यकवचम् - ॐ अस्य श्रीमदादित्यकवचस्त...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ॐ अस्य श्रीमदादित्यकवचस्तोत्रमहामन्त्रस्य याज्ञवल्क्यो महर्षिः । अनुष्टुप्-जगतीच्छन्दसी । घृणिरिति बीजम् । सूर्य इति शक्तिः । आदित्य इति कीलकम् । श्रीसूर्यनारायणप्रीत्यर्थे जपे विनियोगः । ध्यानं उदयाचलमागत्य वेदरूपमनामयम् । तुष्टाव परया भक्त्या वालखिल्यादिभिर्वृतम् ॥१॥
देवासुरैस्सदा वन्द्यं ग्रहैश्च परिवेष्टितम् । ध्यायन् स्तुवन् पठन् नाम यस्सूर्यकवचं सदा ॥२॥
घृणिः पातु शिरोदेशं सूर्यः फालं च पातु मे । आदित्यो लोचने पातु श्रुती पातु प्रभाकरः ॥३॥
घ्राणं पातु सदा भानुः अर्कः पातु मुखं तथा । जिह्वां पातु जगन्नाथः कण्ठं पातु विभावसुः ॥४॥
स्कन्धौ ग्रहपतिः पातु भुजौ पातु प्रभाकरः । अहस्करः पातु हस्तौ हृदयं पातु भानुमान् ॥५॥
मध्यं च पातु सप्ताश्वो नाभिं पातु नभोमणिः । द्वादशात्मा कटिं पातु सविता पातु सृक्किणी ॥६॥
ऊरू पातु सुरश्रेष्ठो जानुनी पातु भास्करः । जङ्घे पातु च मार्ताण्डो गलं पातु त्विषाम्पतिः ॥७॥
पादौ ब्रध्नस्सदा पातु मित्रोऽपि सकलं वपुः । वेदत्रयात्मक स्वामिन् नारायण जगत्पते । अयातयामं तं कञ्चिद्वेदरूपः प्रभाकरः ॥८॥
स्तोत्रेणानेन सन्तुष्टो वालखिल्यादिभिर्वृतः । साक्षाद्वेदमयो देवो रथारूढस्समागतः ॥९॥
तं दृष्ट्वा सहसोत्थाय दण्डवत्प्रणमन् भुवि । कृताञ्जलिपुटो भूत्वा सूर्यस्याग्रे स्थितस्तदा ॥१०॥
वेदमूर्तिर्महाभागो ज्ञानदृष्टिर्विचार्य च । ब्रह्मणा स्थापितं पूर्वं यातयामविवर्जितम् ॥११॥
सत्त्वप्रधानं शुक्लाख्यं वेदरूपमनामयम् । शब्दब्रह्ममयं वेदं सत्कर्मब्रह्मवाचकम् ॥१२॥
मुनिमध्यापयामास प्रथमं सविता स्वयम् । तेन प्रथमदत्तेन वेदेन परमेश्वरः ॥१३॥
याज्ञवल्क्यो मुनिश्रेष्ठः कृतकृत्योऽभवत्तदा । ऋगादिसकलान् वेदान् ज्ञातवान् सूर्यसन्निधौ ॥१४॥
इदं प्रोक्तं महापुण्यं पवित्रं पापनाशनम् । यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते । वेदार्थज्ञानसम्पन्नस्सूर्यलोकमावप्नुयात् ॥१५॥
इति स्कान्दपुराणे गौरीखण्डे आदित्यकवचं समाप्तम् ।

N/A

References : N/A
Last Updated : November 17, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP