संस्कृत सूची|संस्कृत साहित्य|कवच|
अथ श्रीउच्छिष्टगणेशकवचं प...

उच्छिष्टगणेशकवचम् - अथ श्रीउच्छिष्टगणेशकवचं प...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

अथ श्रीउच्छिष्टगणेशकवचं प्रारम्भः । देव्युवाच - देवदेव जगन्नाथ सृष्टिस्थितिलयात्मक । विना ध्यानं विना मन्त्रं विना होमं विना जपम् ॥१॥
येन स्मरणमात्रेण लभ्यते चाशु चिन्तितम् । तदेव श्रोतुमिच्छामि कथयस्व जगत्प्रभो ॥२॥
ईश्वर उवाच - श्रुणु देवी प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् । उच्छिष्टगणनाथस्य कवचं सर्वसिद्धिदम् ॥३॥
अल्पायासैर्विना कष्टैर्जपमात्रेण सिद्धिदम् । एकान्ते निर्जनेऽरण्ये गह्वरे च रणाङ्गणे ॥४॥
सिन्धुतीरे च गङ्गायाः(गाङ्गीये) कूले वृक्षतले जले । सर्वदेवालये तीर्थे लब्ध्वा सम्यग्जपं चरेत् ॥५॥
स्नानशौचादिकं नास्ति नास्ति निर्बन्धनं प्रिये । दारिद्र्यान्तकरं शीघ्रं सर्वतत्त्वं जनप्रिये ॥६॥
सहस्रशपथं कृत्वा यदि स्नेहोऽस्ति मां प्रति । निन्दकाय कुशिष्याय खलाय कुटिलाय च ॥७॥
दुष्टाय परशिष्याय घातकाय शठाय च । वञ्चकाय वरघ्नाय ब्राह्मणीगमनाय च ॥८॥
अशक्ताय च क्रूराय गुरूद्रोहरताय च । न दातव्यं न दातव्यं न दातव्यं कदाचन ॥९॥
गुरूभक्ताय दातव्यं सच्छिष्याय विशेषतः । तेषां सिध्यन्ति शीघ्रेण ह्यन्यथा न च सिध्यति ॥१०॥
गुरूसन्तुष्टिमात्रेण कलौ प्रत्यक्षसिद्धिदम् । देहोच्छिष्टैः प्रजप्तव्यं तथोच्छिष्टैर्महामनुः ॥११॥ (प्रजप्तव्य इति शेषः)
आकाशे च फलं प्राप्तं नान्यथा वचनं मम । एषा राजवती विद्या विना पुण्यं न लभ्यते ॥१२॥
अथ वक्ष्यामि देवेशि कवचं मन्त्रपूर्वकम् । येन विज्ञातमात्रेण राजभोगफलप्रदम् ॥१३॥
ऋषिर्मे गणकः पातु शिरसि च निरन्तरम् । त्राहि मां देवि गायत्रीछन्दो ऋषिः सदा मुखे ॥१४॥
हृदये पातु मां नित्यमुच्छिष्टगणदेवता । गुह्ये रक्षतु तद्बीजं स्वाहा शक्तिश्च पादयोः ॥१५॥
कामकीलकसर्वाङ्गे विनियोगश्च सर्वदा । पार्श्वर्द्वये सदा पातु स्वशक्तिं गणनायकः ॥१६॥
शिखायां पातु तद्बीजं भ्रूमध्ये तारबीजकम् । हस्तिवक्त्रश्च शिरसि लम्बोदरो ललाटके ॥१७॥
उच्छिष्टो नेत्रयोः पातु कर्णौ पातु महात्मने । पाशाङ्कुशमहाबीजं नासिकायां च रक्षतु ॥१८॥
भूतीश्वरः परः पातु आस्यं जिह्वां स्वयं वपुः । तद्बीजं पातु मां नित्यं ग्रीवायां कण्ठदेशके ॥१९॥
गं बीजं च तथा रक्षेत्तथा त्वग्रे च पृष्ठके । सर्वकामश्च हृत्पातु पातु मां च करद्वये ॥२०॥
उच्छिष्टाय च हृदये वह्निबीजं तथोदरे । मायाबीजं तथा कट्यां द्वावूरू सिद्धिदायकः ॥२१॥
जङ्घायां गणनाथश्च पादौ पातु विनायकः । शिरसः पादपर्यन्तमुच्छिष्टगणनायकः ॥२२॥
आपादमस्तकान्तं च उमापुत्रश्च पातु माम् । दिशोऽष्टौ च तथाकाशे पाताले विदिशाष्टके ॥२३॥
अहर्निशं च मां पातु मदचञ्चललोचनः । जलेऽनले च सङ्ग्रामे दुष्टकारागृहे वने ॥२४॥
राजद्वारे घोरपथे पातु मां गणनायकः । इदं तु कवचं गुह्यं मम वक्त्राद्विनिर्गतम्  ॥२५॥
त्रैलौक्ये सततं पातु द्विभुजश्च चतुर्भुजः । बाह्यमभ्यन्तरं पातु सिद्धिबुद्धिर्विनायकः ॥२६॥
सर्वसिद्धिप्रदं देवि कवचमृद्धिसिद्धिदम् । एकान्ते प्रजपेन्मन्त्रं कवचं युक्तिसंयुतम् ॥२७॥
इदं रहस्यं कवचमुच्छिष्टगणनायकम् । सर्ववर्मसु देवेशि इदं कवचनायकम् ॥२८॥
एतत्कवचमाहात्म्यं वर्णितुं नैव शक्यते । धर्मार्थकाममोक्षं च नानाफलप्रदं नृणाम् ॥२९॥
शिवपुत्रः सदा पातु पातु मां सुरार्चितः । गजाननः सदा पातु गणराजश्च पातु माम् ॥३०॥ सदा शक्तिरतः पातु पातु मां कामविह्वलः । सर्वाभरणभूषाढयः पातु मां सिन्दूरार्चितः ॥३१॥
पञ्चमोदकरः पातु पातु मां पार्वतीसुतः । पाशाङ्कुशधरः पातु पातु मां च धनेश्वरः ॥३२॥
गदाधरः सदा पातु पातु मां काममोहितः । नग्ननारीरतः पातु पातु मां च गणेश्वरः ॥३३॥
अक्षयं वरदः पातु शक्तियुक्तिः सदाऽवतु । भालचन्द्रः सदा पातु नानारत्नविभूषितः ॥३४॥
उच्छिष्टगणनाथश्च मदाघूर्णितलोचनः । नारीयोनिरसास्वादः पातु मां गजकर्णकः ॥३५॥
प्रसन्नवदनः पातु पातु मां भगवल्लभः । जटाधरः सदा पातु पातु मां च किरीटिकः(किरीटधृक्) ॥३६॥
पद्मासनास्थितः पातु रक्तवर्णश्च पातु माम् । नग्नसाममदोन्मत्तः पातु मां गणदैवतः ॥३७॥
वामाङ्गे सुन्दरीयुक्तः पातु मां मन्मथप्रभुः । क्षेत्रपः पिशितं(क्षेत्रप्रवसितः) पातु पातु मां श्रुतिपाठकः ॥३८॥
भूषणाढ्यस्तु मां पातु नानाभोगसमन्वितः । स्मिताननः सदा पातु श्रीगणेशकुलान्वितः ॥३९॥
श्रीरक्तचन्दनमयः सुलक्षणगणेश्वरः । श्वेतार्कगणनाथश्च हरिद्रागणनायकः ॥४०॥
पारभद्रगणेशश्च पातु सप्तगणेश्वरः । प्रवालकगणाध्यक्षो गजदन्तो गणेश्वरः ॥४१॥
हरबीजगणेशश्च भद्राक्षगणनायकः । दिव्यौषधिसमुद्भूतो गणेशाश्चिन्तितप्रदः ॥४२॥
लवणस्य गणाध्यक्षो मृत्तिकागणनायकः । तण्डुलाक्षगणाध्यक्षो गोमयश्च गणेश्वरः ॥४३॥
स्फटिकाक्षगणाध्यक्षो रुद्राक्षगणदैवतः । नवरत्नगणेशश्च आदिदेवो गणेश्वरः ॥४४॥
पञ्चाननश्चतुर्वक्त्रः षडाननगणेश्वरः । मयूरवाहनः पातु पातु मां मूषकासनः ॥४५॥
पातु मां देवदेवेशः पातु मामृषिपूजितः । पातु मां सर्वदा देवो देवदानवपूजितः ॥४६॥
त्रैलोक्यपूजितो देवः पातु मां च विभुः प्रभुः । रङ्गस्थं च सदा पातु सागरस्थं सदाऽवतु ॥४७॥
भूमिस्थं च सदा पातु पातालस्थं च पातु माम् । अन्तरिक्षे सदा पातु आकाशस्थं सदाऽवतु ॥४८॥
चतुष्पथे सदा पातु त्रिपथस्थं च पातु माम् । बिल्वस्थं च वनस्थं च पातु मां सर्वतस्तनुम्(सर्वतस्थितम्) ॥४९॥
राजद्वारस्थितं पातु पातु मां शीघ्रसिद्धिदः । भवानीपूजितः पातु ब्रह्माविष्णुशिवार्चितः ॥५०॥
इदं तु कवचं देवि पठनात्सर्वसिद्धिदम् । उच्छिष्टगणनाथस्य समन्त्रं कवचं परम् ॥५१॥
स्मरणाद्भूपतित्वं च लभते साङ्गतां ध्रुवम् । स्मरणाद्भूभुजत्वं वाचः सिद्धिकरं शीघ्रं परसैन्यविदारणम् ॥५२॥
प्रातर्मध्याह्नसायाह्ने दिवा रात्रौ पठेन्नरः । चतुर्थ्यां दिवसे रात्रौ पूजने मानदायकम् ॥५३॥
सर्वसौभाग्यदं शीघ्रं दारिद्र्यार्णवघातकम् । सुदारसुप्रजासौख्यं सर्वसिद्धिकरं नृणाम् ॥५४॥
जलेऽथवाऽनलेऽरण्ये सिन्धुतीरे सरित्तटे । श्मशाने दूरदेशे च रणे पर्वतगह्वरे ॥५५॥
राजद्वारे भये घोरे निर्भयो जायते ध्रुवम् । सागरे च महाशीते दुर्भिक्षे दुष्टसङ्कटे ॥५६॥
भूतप्रेतपिशाचादियक्षराक्षसजे भये । राक्षसीयक्षिणीक्रूराशाकिनीडाकीनीगणाः ॥५७॥
राजमृत्युहरं देवि कवचं कामधेनुवत् । अनन्तफलदं देवि सति मोक्षं(तथाऽमोघं) च पार्वति ॥५८॥
कवचेन विना मन्त्रं यो जपेद्गणनायकम् । इह जन्मानि पापिष्ठो जन्मान्ते मूषको भवेत् ॥५९॥
इति परमरहस्यं देवदेवार्चनं च कवचपरमदिव्यं पार्वतीपुत्ररूपम् । पठति  परमभोगैश्वर्यमोक्षप्रदं च लभति सकलसौख्यं शक्तिपुत्रप्रसादात् ॥६०॥
   var  (इति परमरहस्यं देवदेवार्चितस्य- कवचमुदितमेतत्पार्वतीशेन देव्यै । पठति स लभ्यते वै भक्तितो भक्तवर्यः प्रचुरसकलसौख्यं शक्तिपुत्रप्रसादात् ॥६०॥)
॥ इति श्रीरुद्रयामलतन्त्रे उमामहेश्वरसंवादे श्रीमदुच्छिष्टगणेशकवचं समाप्तम् ॥

N/A

References : N/A
Last Updated : November 17, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP