संस्कृत सूची|संस्कृत स्तोत्र साहित्य|कवच| ॥ श्रीगणेशाय नमः ॥ ॥ ... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीगणेशाय नमः । श्रीदेव... विनियोगः - ॐ अस्य त्रैलो... श्रीलक्ष्मण उवाच । कृताञ... सगर उवाच । श्रुतं सर्वं ... श्रीगणेशाय नमः । श्रीदत्... श्रीपादः पातु मे पादावूरू... श्रीगणेशाय नमः । श्रीदत्... ॐ द्रां ॐ नमः, श्रीगुरुद... विनियोगः - ॐ अस्य श्रीमह... भैरव उवाच । कालिकाकवचस्य... विरूपाक्ष उवाच । नमामि ग... भैरव उवाच । कालिका या मह... श्रीपरमशिव उवाच । सर्पिः... श्रीभैरव उवाच । शणु देव... नारायण उवाच । शणु नारद ... श्रीगणेशाय नमः । ईश्वर उ... श्रीगणेशाय नमः । नारद उव... श्रीदेव्युवाच - पुरा श्र... श्री शिव उवाच - शणु देव... भगवन् देव देवेशकृपया त्वं... श्रीगणेशाय नमः । श्रीदुर्... ॐ अस्य श्री चण्डीकवचस्य ॥... देव्युवाच धनदा या महाविद... श्रीगणेशाय नमः । अथ धूमा... श्री गणेशाय नमः । श्रीमद... ब्रह्मोवाच । शिरो ... विनियोगः नागराजस्य देवस्... ॐ श्रीगणेशाय नमः । ॐ नमो... ॐ श्रीगणेशाय नमः । ॐ नमो... तन्त्रराजतन्त्रे अष्टाविं... निम्बार्क-कवचं वक्ष्ये मह... श्रीगणेशाय नमः । अथापरं ... नारद उवाच । इन्द्रादिदेव... ॥ श्रीगणेशाय नमः ॥ ॥ ... अस्य श्रीपञ्चमुखिवीरहनूमत... अस्य श्रीपञ्चमुखिहनुमत्कव... भगवन् ! सर्वमाख्यातं मन्त... श्रीगणेशाय नमः । श्रीभैर... अथ पञ्चाशीतितमः पटलः । श... ॥ श्रीमहा-त्रिपुर-सुन्दर्... ऋषय ऊचुः । अथ नाम्नां सह... देव्युवाच । भगवन् सर्वधर... सूत उवाच - सहस्रादित्यसङ... ॥ अथ बगलामुखीकवचम् ॥ ... कैलासाचलम्ध्यगम्पुरवहं शा... श्री गणेशाय नमः । श्री बग... श्रीगणेशाय नमः । अस्यश्र... श्रीगणेशाय नमः । श्रीपीता... उक्तं च भैरवतन्त्रे । मह... अस्य श्री बटुकभैरवकवचस्य ... देव्युवाच । देवदेव जगन्न... अस्य श्रीबटुकभैरवकवचस्य ... ॥ श्रीगणेशाय नमः ॥ ॥ ... अथ विनियोगः - अस्य श्रीब... दुर्योधन उवाच - गोपीभ्यः... अस्य बाणलिङ्ग कवचस्य संहा... शिवस्य कवचं स्तोत्रं श्रू... नन्दगोप उवाच । रक्षतु त्... वाग्भवः पातु शिरसि कामराज... श्रीपार्वत्युवाच- देवदेव... अस्य श्रीबालात्रिपुरसुन्द... बालार्कमण्डलाभासां चतुर्ब... श्रीभैरव उवाच- अधुना ते ... ॐ अस्य श्रीबालात्रिपुरसुन... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... ॐ श्रीब्रह्मणे नमः । कवच... श्री गणेशाय नमः । श्री बग... ॐ नमो भगवति वज्रशृङ्खले ... श्रीगणेशाय नमः । नारद... ॐ श्रीदेव्युवाच । ॐ भगवन... अगस्तिरुवाच- अतः परं भरत... श्रीगणेशाय नमः । श्री पा... गम्भीरो माहात्म्यात्प्रशम... श्रीगणेशाय नमः । देव्युव... श्रीदेव्युवाच- भगवन्, पर... पार्वत्युवाच - देव देव म... श्रीगणेशाय नमः । श्रीदेव... श्रीपार्वत्युवाच - देवदे... श्रीगणेशाय नमः । अस्य श्... मल्हारिकवचम् श्रीगणेशाय ... ॐ श्रीगणेशाय नमः । श्रीभ... श्रीगणेशाय नमः । श्रीभैर... श्रीदेव्युवाच । देवदेव म... श्रीगणाधिपतये नमः । श्री... ॐ अस्य श्रीमहागणपतिमन्त्र... ॥ पूर्वपीठिका ॥ महादे... श्री गणेशाय नमः । भैरव उ... श्रीदेव्युवाच - भगवन् सर... श्री गणेशाय नमः । अस्य श... नारद उवाच । आविर्भूय हरि... सदाशिव ऋषिर्देवि उष्णिक्छ... शणुदेवि प्रवक्ष्यामि कवच... श्रीभगवानुवाच- अस्य मन्त... श्रीगणेशाय नमः । अथ महाश... श्रीदेव्युवाच- भगवन् देव... अथ वक्ष्ये महेशानि कवचं स... भैरव उवाच । शृणु देवि !... श्रीदेव्युवाच साधु साधु ... अस्य श्रीमातङ्गीकवचमन्त्र... श्रीगणेशाय नमः । श्रीपार... ॐ नमो भगवते विचित्रवीरहनु... ॐ नमोभगवते रुद्राय । राज... श्रीदेव्युवाच - भगवन् सर... ॐ सिद्धिः । ॐ नमो नरसिंह... एवमाराध्य गौरीशं देवं मृत... श्रीदेव्युवाच - भगवन् दे... ईश्वर उवाच - त्रिकालं गो... श्रीगणेशाय नमः ॥ भगवन... मान्धातोवाच - यमुनायाः क... योगनिद्रोवाच । दूरीभूतं ... उन्मत्तभैरव उवाच - शृणु... श्रीगणेशाय नमः । श्रीयोग... देव्युवाच - भगवन् श्रोतु... कवचं राघवेन्द्रस्य यतीन्द... अथ श्रीराघवेन्द्रार्यकवचं... अथ श्रीराघवेन्द्रार्यरक्ष... पार्वती उवाच- देवदेव महा... श्रीपार्वत्युवाच ॥ ॐ ... महेश्वर उवाच । श्रीजगन्म... श्रीगणेशाय नमः ॥ पार्... ॥ श्रीमदानन्दरामायणे मनोह... अस्य श्रीत्रैलोक्यमोहनवज्... कपिकटकधुरीणः कार्मुकन्यस्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॥ॐ श्रीगणेशाय नमः ॥ अ... इदं पवित्रं परमं भक्तानां... श्रीगणेशाय नमः ॥ ॐ अस... ॐ श्रीभैरव उवाच - शृणु ... भैरव उवाच - वक्ष्यामि दे... ॥अथ श्री रुद्रकवचम् ॥ ... पूर्वपीठिका - श्रीकार्ति... श्रीपार्वत्युवाच । देवदे... श्री देव्युवाच । जमदग... ॥श्री गणेशाय नमः ॥ शृ... ॥श्री गणेशाय नमः ॥ श... सनत्कुमार उवाच- अथ ते कव... अथ ते कवचं देव्या वक्ष्ये... ॥ अथ श्रीमदानन्दरामायणे म... श्रीगणेशाय नमः । ॐ अस्य ... श्रीगणेशाय नमः । ॐ अस्य ... अथ श्रीलक्ष्मीकवचप्रारम्भ... शुकं प्रति ब्रह्मोवाच महा... श्रीगणेशाय नमः । श्रीभैर... अथ श्रीनरसिंहकवचम् । श्र... नारद उवाच - भगवन् सर्वधर... श्री गणेशाय नमः । मौलिं ... श्रीगणेशाय नमः । श्रीभैर... आद्यं रङ्गमिति प्रोक्तं व... अस्य श्री सर्व वशीकरण स्त... ॐ श्रीगणेशाय नमः । ॐ श्र... अस्य श्रीवाराहीकवचस्य त्र... श्री नृसिंहाय नमः । ॐ अस... सूत उवाच । शिरो मे विठ्ठ... श्रीगणेशाय नमः । देव्युव... श्रीमत्परात्पर विश्वकर्मप... शौनक उवाच । किं स्तोत्रं... श्रीगणेशाय नमः ॥ नारद... हरिश्चन्द्रः - ब्रह्मन् ... पूर्वे नारायणः पातु वारिज... ॐ अस्य श्री वीरभद्रकवचमहा... आग्नेयपुराणे अस्य श्रीवे... हरिरुवाच । सर्वव्याधिहरं... श्रीगणेशाय नमः । गुहागरस... ऐश्वरं परमं तत्त्वमादिमध्... ॥ श्रीमदानन्दरामायणे मनोह... श्रीदेव्युवाच - श्रुतं व... विनियोगः । ॐ अस्य श्रीशन... ॐ श्रीगणेशाय नमः । श्री ... शक्र उवाच - शाकम्भर्यास्... श्रीवल्लभसोदरी श्रितजनश्च... ॐ महाशाबरी शक्ति परमात्मन... श्रीगणेशाय नमः । देव्युव... ॐ श्रीगणेशाय नमः । अथ शा... विनियोगः । अस्य श्रीशिवक... दधीचिरुवाच कवचं देवदेवस्... नारद उवाच- शिवस्य कवचं ब... श्रीदेव्युवाच - भगवन्देव... पार्वत्युवाच - भगवन् सर्... श्रीगणेशाय नमः । ॐ अस... श्रीशिवः उवाच - अथ वक्ष्... प्रणम्य देवं विप्रेशं प्र... गोप्य ऊचुः - श्रीकृष्णस्... अथातः सम्प्रवक्षामि कवचं ... श्रीशाण्डिल्य उवाच । शान... ॐ श्रीगणेशाय नमः । श्रीग... श्रीविष्णुरुवाच । संसारम... ॥ अथ सङ्ग्रामविजयविद्या ॥... श्रीआनन्दभैरव उवाच शैलजे... श्रीदेव्युवाच- भगवन्देवद... श्रीआनन्दभैरव उवाच कथितं... श्रीगणेशाय नमः । ॐ अस्य ... श्रीसरस्वतीकवचं भैरव उवाच - शृणु देव... नारद उवाच - श्रुतं सर्वं... ॥ ॐ नम उमङ्गेश्वर्यै ॥ ... ॥ गुरु ध्यानम् ॥ ध्या... ॥ श्रीमदानन्दरामायणान्तर्... प्रसीद भगवन् ब्रह्मन् सर्... ॐ अस्य श्री सुदर्शन कवच म... ॐ अस्य श्री सुदर्शनकवचमाल... श्रीकृष्णाय नमः ॥श्रीगोपी... श्रीगणेशाय नमः । श्रीलक्ष... ॥ॐ नमस्सुब्रह्मण्याय ॥ ... ॐ श्रीगणेशाय नमः । नारद ... अस्य श्री सुब्रह्मण्यकवचस... श्रीगणेशाय नमः ॥ श्रीसूर... वज्रपञ्जराख्यसूर्यकवचम् ।... घृणिर्मे शीर्षकं पातु सूर... ॐ अस्य श्रीसूर्यनारायणदिव... बृहस्पतिरुवाच । इन्द्र श... श्रीगणेशाय नमः । याज्ञवल... ॐ श्रीगणेशाय नमः । श्रीग... कैलासशिखरे रम्ये सुखासीनं... गणेश्वर उवाच । कनककुण... श्रीरामदास उवाच - एकदा स... सनत्कुमार उवाच । कार्तवी... अस्य श्रीहयग्रीवकवचमहामन्... ॥ अथ श्री हयग्रीवकवचम् ॥ ... श्रीगणेशाय नमः । ईश्वर उ... अथ चतुरशीतितमः पटलः श्री... कुलकुण्डलिनीकवचं - ॥ श्रीगणेशाय नमः ॥ ॥ ... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र कुलकुण्डलिनीकवचं Translation - भाषांतर ॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ श्रीगुरवे नमः ॥ आनन्दभैरवी उवाच । अथ वक्ष्ये महादेव कुण्डलीकवचं शुभम् । परमानन्ददं सिद्धं सिद्धवृन्दनिषेवितम् ॥१॥ यत्कृत्वा योगिनः सर्वे धर्माधर्मप्रदर्शकाः । ज्ञानिनो मानिनो धर्मान् विचरन्ति यथामराः ॥२॥ सिद्धयोऽप्यणिमाद्याश्च करस्थाः सर्वदेवताः । एतत्कवचपाठेन देवेन्द्रो योगिराड्भवेत् ॥३॥ ऋषयो योगिनः सर्वे जटिलाः कुलभैरवाः । प्रातःकाले त्रिवारं च मध्याह्ने वारयुग्मकम् ॥४॥ सायाह्ने वारमेकन्तु पठेत्कवचमेव च । पठेदेवं महायोगी कुण्डलीदर्शनं भवेत् ॥५॥ ॐ अस्य श्रीकुलकुण्डलीकवचस्य ब्रह्मेन्द्र ऋषिः । गायत्री छन्दः । कुलकुण्डली देवता । सर्वाभीष्टसिद्ध्यर्थे विनियोगः । ॐ ईश्वरी जगतां धात्री ललिता सुन्दरी परा । कुण्डली कुलरूपा च पातु मां कुलचण्डिका ॥६॥ शिरो मे ललिता देवी पातूग्राख्या कपोलकम् । ब्रह्ममन्त्रेण पुटिता भ्रूमध्यं पातु मे सदा ॥७॥ नेत्रत्रयं महाकाली कालाग्निभक्षिका शिखाम् । दन्तावलीं विशालाक्षी ओष्ठमिष्टानुवासिनी ॥८॥ कामबीजात्मिका विद्या अधरं पातु मे सदा । ऌयुगस्था गण्डयुग्मं माया विश्वा रसप्रिया ॥९॥ भुवनेशी कर्णयुग्मं चिबुकं क्रोधकालिका । कपिला मे गलं पातु सर्वबीजस्वरूपिणी ॥१०॥ मातृकावर्णपुटिता कुण्डली कण्ठमेव च । हृदयं कालपृथ्वी च कङ्काली पातु मे मुखम् ॥११॥ भुजयुग्मं चतुर्वर्गा चण्डदोर्द्दण्डखण्डिनी । स्कन्धयुग्मं स्कन्दमाता हालाहलगता मम ॥१२॥ अङ्गुल्यग्रं कुलानन्दा श्रीविद्या नखमण्डलम् । कालिका भुवनेशानी पृष्ठदेशं सदावतु ॥१३॥ पार्श्वयुग्मं महावीरा वीरासनधराभया । पातु मां कुलदर्भस्था नाभिमुदरमम्बिका ॥१४॥ कटिदेशं पीठसंस्था महामहिषघातिनी । लिङ्गस्थानं महामुद्रा भगं मालामनुप्रिया ॥१५॥ भगीरथप्रिया धूम्रा मूलाधारं गणेश्वरी । चतुर्दलं कक्ष्यपूज्या दलाग्रं मे वसुन्धरा ॥१६॥ शीर्षं राधा रणाख्या च ब्रह्माणी पातु मे मुखम् । मेदिनी पातु कमला वाग्देवी पूर्वगं दलम् ॥१७॥ छेदिनी दक्षिणे पातु पातु चण्डा महातपा । चन्द्रघण्टा सदा पातु योगिनी वारुणं दलम् ॥१८॥ उत्तरस्थं दलं पातु पृथिवीमिन्द्रपालिता । चतुष्कोणं कामविद्या ब्रह्मविद्याब्जकोणकम् ॥१९॥ अष्टशूलं सदा पातु सर्ववाहनवाहना । चतुर्भुजा सदा पातु डाकिनी कुलचञ्चला ॥२०॥ मेढ्रस्था मदनाधारा पातु मे चारुपङ्कजम् । स्वयम्भूलिङ्ग चार्वाका कोटराक्षी ममासनम् ॥२१॥ कदम्बवनमापातु कदम्बवनवासिनी । वैष्णवी परमा माया पातु मे वैष्णवं पदम् ॥२२॥ षड्दलं राकिणी पातु राकिणी कामवासिनी । कामेश्वरी कामरूपा श्रीकृष्णं पीतवाससम् ॥२३॥ वनमाला वनदुर्गा शङ्खं मे शङ्खिनी शिवा । चक्रं चक्रेश्वरी पातु कमलाक्षी गदां मम ॥२४॥ पद्मं मे पद्मगन्धा च पद्ममाला मनोहरा । रादिलान्ताक्षरं पातु लाकिनी लोकपालिनी ॥२५॥ षड्दले स्थितदेवांश्च पातु कैलासवासिनी । अग्निवर्णा सदा पातु गणं मे परमेश्वरी ॥२६॥ मणिपूरं सदा पातु मणिमालाविभूषणा । दशापत्रं दशवर्णं डादिफान्तं त्रिविक्रमा ॥२७॥ पातु नीला महाकाली भद्रा भीमा सरस्वती । अयोध्यावासिनी देवी महापीठनिवासिनी ॥२८॥ वाग्भवाद्या महाविद्या कुण्डली कालकुण्डली । दशच्छदगतं पातु रुद्रं रुद्रात्मकं मम ॥२९॥ सूक्ष्मात्सूक्ष्मतरा पातु सूक्ष्मस्थाननिवासिनी । राकिणी लोकजननी पातु कूटाक्षरस्थिता ॥३०॥ तैजसं पातु नियतं रजकी राजपूजिता । विजया कुलबीजस्था तवर्गं तिमिरापहा ॥३१॥ मन्त्रात्मिका मणिग्रन्थिभेदिनी पातु सर्वदा । गर्भदाता भृगुसुता पातु मां नाभिवासिनी ॥३२॥ नन्दिनी पातु सकलं कुण्डली कालकम्पिता । हृत्पद्मं पातु कालाख्या धूम्रवर्णा मनोहरा ॥३३॥ दलद्वादशवर्णं च भास्करी भावसिद्धिदा । पातु मे परमा विद्या कवर्गं कामचारिणी ॥३४॥ चवर्गं चारुवसना व्याघ्रास्या टङ्कधारिणी । चकारं पातु कृष्णाख्या काकिनीं पातु कालिका ॥३५॥ टकुराङ्गी टकारं मे जीवभावा महोदया । ईश्वरी पातु विमला मम हृत्पद्मवासिनी ॥३६॥ कर्णिकां कालसन्दर्भा योगिनी योगमातरम् । इन्द्राणी वारुणी पातु कुलमाला कुलान्तरम् ॥३७॥ तारिणी शक्तिमाता च कण्ठवाक्यं सदावतु । विप्रचित्ता महोग्रोग्रा प्रभा दीप्ता घनासना ॥३८॥ वाक्स्तम्भिनी वज्रदेहा वैदेही वृषवाहिनी । उन्मत्तानन्दचित्ता च क्षणोशीशा भगान्तरा ॥३९॥ मम षोडशपत्राणि पातु मातृतनुस्थिता । सुरान् रक्षतु वेदज्ञा सर्वभाषा च कर्णिकाम् ॥४०॥ ईश्वरार्धासनगता प्रपायान्मे सदाशिवम् । शाकम्भरी महामाया साकिनी पातु सर्वदा ॥४१॥ भवानी भवमाता च पायाद्भ्रूमध्यपङ्कजम् । द्विदलं व्रतकामाख्या अष्टाङ्गसिद्धिदायिनी ॥४२॥ पातु नासामखिलानन्दा मनोरूपा जगत्प्रिया । लकारं लक्षणाक्रान्ता सर्वलक्षणलक्षणा ॥४३॥ कृष्णाजिनधरा देवी क्षकारं पातु सर्वदा । द्विदलस्थं सर्वदेवं सदा पातु वरानना ॥४४॥ बहुरूपा विश्वरूपा हाकिनी पातु संस्थिता । हरापरशिवं पातु मानसं पातु पञ्चमी ॥४५॥ षट्चक्रस्था सदा पातु षट्चक्रकुलवासिनी । अकारादिक्षकारान्ता बिन्दुसर्गसमन्विता ॥४६॥ मातृकाणां सदा पातु कुण्डली ज्ञानकुण्डली । देवकाली गतिप्रेमा पूर्णा गिरितटं शिवा ॥४७॥ उड्डीयानेश्वरी देवी सकलं पातु सर्वदा । कैलासपर्वतं पातु कैलासगिरिवासिनी ॥४८॥ पातु मे डाकिनीशक्तिर्लाकिनी राकिणी कला । साकिनी हाकिनी देवी षट्चक्रादीन् प्रपातु मे ॥४९॥ कैलासाख्यं सदा पातु पञ्चाननतनूद्भवा । हिरण्यवर्णा रजनी चन्द्रसूर्याग्निभक्षिणी ॥५०॥ सहस्रदलपद्मं मे सदा पातु कुलाकुला । सहस्रदलपद्मस्था दैवतं पातु खेचरी ॥५१॥ काली तारा षोडशाख्या मातङ्गी पद्मवासिनी । शशिकोटिगलद्रूपा पातु मे सकलं तमः ॥५२॥ वने घोरे जले देशे युद्धे वादे श्मशानके । सर्वत्र गमने ज्ञाने सदा मां पातु शैलजा ॥५३॥ पर्वते विविधायासे विनाशे पातु कुण्डली । पादादिब्रह्मरन्ध्रान्तं सर्वाकाशं सुरेश्वरी ॥५४॥ सदा पातु सर्वविद्या सर्वज्ञानं सदा मम । नवलक्षमहाविद्या दशदिक्षु प्रपातु माम् ॥५५॥ इत्येतत्कवचं देवि कुण्डलिन्याः प्रसिद्धिदम् । ये पठन्ति ध्यानयोगे योगमार्गव्यवस्थिताः ॥५६॥ ते यान्ति मुक्तिपदवीमैहिके नात्र संशयः । मूलपद्मे मनोयोगं कृत्त्वा हृदासनस्थितः ॥५७॥ मन्त्रं ध्यायेत्कुण्डलिनीं मूलपद्मप्रकाशिनीम् । धर्योदयां दयारुढामाकाशस्थानवासिनीम् ॥५८॥ अमृतानन्दरसिकां विकलां सुकलां शिताम् । अजितां रक्तरहितां विशक्तां रक्तविग्रहाम् ॥५९॥ रक्तनेत्रां कुलक्षिप्तां ज्ञानाञ्जनजयोज्ज्वलाम् । विश्वाकारां मनोरूपां मूले ध्यात्त्वा प्रपूजयेत् ॥६०॥ यो योगी कुरुते एवं स सिद्धो नात्र संशयः । रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥६१॥ राज्यं श्रियमवाप्नोति राज्यहीनः पठेद्यदि । पुत्रहीनो लभेत्पुत्रं योगहीनो भवेद्वशी ॥६२॥ कवचं धारयेद्यस्तु शिखायां दक्षिणे भुजे । वामा वामकरे धृत्त्वा सर्वाभीष्टमवाप्नुयात् ॥६३॥ स्वर्णे रौप्ये तथा ताम्रे स्थापयित्त्वा प्रपूजयेत् । सर्वदेशे सर्वकाले पठित्वा सिद्धिमाप्नुयात् ॥६४॥ स भूयात्कुण्डलीपुत्रो नात्र कार्या विचारणा ॥६५॥ ॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिविद्याप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे कन्दवासिनीकवचं अथवा कुलकुण्डलिनीकवचं सम्पूर्णम् ॥ N/A References : N/A Last Updated : November 18, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP