गुरुकवचं - देव्युवाच ॥ भूतनाथ ! महा...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
देव्युवाच ॥ भूतनाथ ! महादेव ! कवचं तस्य मे वद । गुरुदेवस्य देवेश ! साक्षाद्ब्रह्मस्वरूपिणः ॥१॥
ईश्वर उवाच ॥ अथा ते कथयामीशे ! कवचं मोक्षदायकम् । यस्य ज्ञानं विना देवि ! न सिद्धिर्न च सद्गतिः ॥२॥
ब्रह्मादयोऽपि गिरिजे ! सर्वत्र जयिनः स्मृताः । अस्य प्रसादात् सकला वेदागमपुरःसराः ॥३॥ कवचस्यास्य देवेशि ! ऋषिर्विष्णुरुदाहृतः । छन्दो विराड् देवता च गुरुदेवः स्वयं शिवः ॥४॥ छतुर्वर्गे ज्ञानमार्गे विनियोगः प्रकीर्त्तितः । सहस्रारे महापद्मे कर्पूरधवलो गुरुः ॥५॥
वामोरुस्थितशक्तिर्यः सर्वत्र परिरक्षतु । परमाख्यो गुरुः पातु शिरसं मम वल्लभे ! ॥६॥
परापराख्यो नासां मे परमेष्ठी मुखं सदा । कण्ठं मम सदा पातु प्रह्लादानन्दनाथकः ॥७॥
बाहू द्वौ सनकानन्दः कुमारानन्द एव च । वशिष्ठानन्दनाथश्च हृदयं पातु सर्वदा ॥८॥ क्रोधानन्दः कटिं पातु सुखानन्दः पदं मम । ध्यानानन्दश्च सर्वाङ्गं बोधानन्दश्च कानने ॥९॥ सर्वत्र गुरवः पान्तु सर्वे ईश्वररूपिणः । इति ते कथितं भद्रे ! कवचं परमं शिवे ! ॥१०॥ भक्तिहीने दुराचारे दत्त्वैतन्मृत्युमाप्नुयात् ॥ अस्यैव पठनाद्देवि ! धारणात्छ्रवणात् प्रिये ! ॥११॥ जायते मन्त्रसिद्धिश्च किमन्यत् कथयामि ते । कण्ठे वा दक्षिणे बाहौ शिखायां वीरवन्दिते ! ॥१२॥
धारणान्नाशयेत् पापं गङ्गायां कल्मषं यथा । इदं कवचमज्ञात्वा यदि मन्त्रं जपेत् प्रिये ! ॥१३॥ तत् सर्वं निष्फलं कृत्वा गुरुर्याति सुनिश्चितम् । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥१४॥
॥ इति कङ्कालमालिनीतन्त्रे गुरुकवचं समाप्तम् ॥
N/A
References : N/A
Last Updated : November 24, 2025

TOP