संस्कृत सूची|संस्कृत साहित्य|कवच| ॥ श्रीगणेशाय नमः ॥ उड... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीगणेशाय नमः । श्रीदेव... विनियोगः - ॐ अस्य त्रैलो... श्रीलक्ष्मण उवाच । कृताञ... सगर उवाच । श्रुतं सर्वं ... श्रीगणेशाय नमः । श्रीदत्... श्रीपादः पातु मे पादावूरू... श्रीगणेशाय नमः । श्रीदत्... ॐ द्रां ॐ नमः, श्रीगुरुद... विनियोगः - ॐ अस्य श्रीमह... भैरव उवाच । कालिकाकवचस्य... विरूपाक्ष उवाच । नमामि ग... भैरव उवाच । कालिका या मह... श्रीपरमशिव उवाच । सर्पिः... श्रीभैरव उवाच । शणु देव... नारायण उवाच । शणु नारद ... श्रीगणेशाय नमः । ईश्वर उ... श्रीगणेशाय नमः । नारद उव... श्रीदेव्युवाच - पुरा श्र... श्री शिव उवाच - शणु देव... भगवन् देव देवेशकृपया त्वं... श्रीगणेशाय नमः । श्रीदुर्... ॐ अस्य श्री चण्डीकवचस्य ॥... देव्युवाच धनदा या महाविद... श्रीगणेशाय नमः । अथ धूमा... श्री गणेशाय नमः । श्रीमद... ब्रह्मोवाच । शिरो ... विनियोगः नागराजस्य देवस्... ॐ श्रीगणेशाय नमः । ॐ नमो... ॐ श्रीगणेशाय नमः । ॐ नमो... तन्त्रराजतन्त्रे अष्टाविं... निम्बार्क-कवचं वक्ष्ये मह... श्रीगणेशाय नमः । अथापरं ... नारद उवाच । इन्द्रादिदेव... ॥ श्रीगणेशाय नमः ॥ ॥ ... अस्य श्रीपञ्चमुखिवीरहनूमत... अस्य श्रीपञ्चमुखिहनुमत्कव... भगवन् ! सर्वमाख्यातं मन्त... श्रीगणेशाय नमः । श्रीभैर... अथ पञ्चाशीतितमः पटलः । श... ॥ श्रीमहा-त्रिपुर-सुन्दर्... ऋषय ऊचुः । अथ नाम्नां सह... देव्युवाच । भगवन् सर्वधर... सूत उवाच - सहस्रादित्यसङ... ॥ अथ बगलामुखीकवचम् ॥ ... कैलासाचलम्ध्यगम्पुरवहं शा... श्री गणेशाय नमः । श्री बग... श्रीगणेशाय नमः । अस्यश्र... श्रीगणेशाय नमः । श्रीपीता... उक्तं च भैरवतन्त्रे । मह... अस्य श्री बटुकभैरवकवचस्य ... देव्युवाच । देवदेव जगन्न... अस्य श्रीबटुकभैरवकवचस्य ... ॥ श्रीगणेशाय नमः ॥ ॥ ... अथ विनियोगः - अस्य श्रीब... दुर्योधन उवाच - गोपीभ्यः... अस्य बाणलिङ्ग कवचस्य संहा... शिवस्य कवचं स्तोत्रं श्रू... नन्दगोप उवाच । रक्षतु त्... वाग्भवः पातु शिरसि कामराज... श्रीपार्वत्युवाच- देवदेव... अस्य श्रीबालात्रिपुरसुन्द... बालार्कमण्डलाभासां चतुर्ब... श्रीभैरव उवाच- अधुना ते ... ॐ अस्य श्रीबालात्रिपुरसुन... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... ॐ श्रीब्रह्मणे नमः । कवच... श्री गणेशाय नमः । श्री बग... ॐ नमो भगवति वज्रशृङ्खले ... श्रीगणेशाय नमः । नारद... ॐ श्रीदेव्युवाच । ॐ भगवन... अगस्तिरुवाच- अतः परं भरत... श्रीगणेशाय नमः । श्री पा... गम्भीरो माहात्म्यात्प्रशम... श्रीगणेशाय नमः । देव्युव... श्रीदेव्युवाच- भगवन्, पर... पार्वत्युवाच - देव देव म... श्रीगणेशाय नमः । श्रीदेव... श्रीपार्वत्युवाच - देवदे... श्रीगणेशाय नमः । अस्य श्... मल्हारिकवचम् श्रीगणेशाय ... ॐ श्रीगणेशाय नमः । श्रीभ... श्रीगणेशाय नमः । श्रीभैर... श्रीदेव्युवाच । देवदेव म... श्रीगणाधिपतये नमः । श्री... ॐ अस्य श्रीमहागणपतिमन्त्र... ॥ पूर्वपीठिका ॥ महादे... श्री गणेशाय नमः । भैरव उ... श्रीदेव्युवाच - भगवन् सर... श्री गणेशाय नमः । अस्य श... नारद उवाच । आविर्भूय हरि... सदाशिव ऋषिर्देवि उष्णिक्छ... शणुदेवि प्रवक्ष्यामि कवच... श्रीभगवानुवाच- अस्य मन्त... श्रीगणेशाय नमः । अथ महाश... श्रीदेव्युवाच- भगवन् देव... अथ वक्ष्ये महेशानि कवचं स... भैरव उवाच । शृणु देवि !... श्रीदेव्युवाच साधु साधु ... अस्य श्रीमातङ्गीकवचमन्त्र... श्रीगणेशाय नमः । श्रीपार... ॐ नमो भगवते विचित्रवीरहनु... ॐ नमोभगवते रुद्राय । राज... श्रीदेव्युवाच - भगवन् सर... ॐ सिद्धिः । ॐ नमो नरसिंह... एवमाराध्य गौरीशं देवं मृत... श्रीदेव्युवाच - भगवन् दे... ईश्वर उवाच - त्रिकालं गो... श्रीगणेशाय नमः ॥ भगवन... मान्धातोवाच - यमुनायाः क... योगनिद्रोवाच । दूरीभूतं ... उन्मत्तभैरव उवाच - शृणु... श्रीगणेशाय नमः । श्रीयोग... देव्युवाच - भगवन् श्रोतु... कवचं राघवेन्द्रस्य यतीन्द... अथ श्रीराघवेन्द्रार्यकवचं... अथ श्रीराघवेन्द्रार्यरक्ष... पार्वती उवाच- देवदेव महा... श्रीपार्वत्युवाच ॥ ॐ ... महेश्वर उवाच । श्रीजगन्म... श्रीगणेशाय नमः ॥ पार्... ॥ श्रीमदानन्दरामायणे मनोह... अस्य श्रीत्रैलोक्यमोहनवज्... कपिकटकधुरीणः कार्मुकन्यस्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॥ॐ श्रीगणेशाय नमः ॥ अ... इदं पवित्रं परमं भक्तानां... श्रीगणेशाय नमः ॥ ॐ अस... ॐ श्रीभैरव उवाच - शृणु ... भैरव उवाच - वक्ष्यामि दे... ॥अथ श्री रुद्रकवचम् ॥ ... पूर्वपीठिका - श्रीकार्ति... श्रीपार्वत्युवाच । देवदे... श्री देव्युवाच । जमदग... ॥श्री गणेशाय नमः ॥ शृ... ॥श्री गणेशाय नमः ॥ श... सनत्कुमार उवाच- अथ ते कव... अथ ते कवचं देव्या वक्ष्ये... ॥ अथ श्रीमदानन्दरामायणे म... श्रीगणेशाय नमः । ॐ अस्य ... श्रीगणेशाय नमः । ॐ अस्य ... अथ श्रीलक्ष्मीकवचप्रारम्भ... शुकं प्रति ब्रह्मोवाच महा... श्रीगणेशाय नमः । श्रीभैर... अथ श्रीनरसिंहकवचम् । श्र... नारद उवाच - भगवन् सर्वधर... श्री गणेशाय नमः । मौलिं ... श्रीगणेशाय नमः । श्रीभैर... आद्यं रङ्गमिति प्रोक्तं व... अस्य श्री सर्व वशीकरण स्त... ॐ श्रीगणेशाय नमः । ॐ श्र... अस्य श्रीवाराहीकवचस्य त्र... श्री नृसिंहाय नमः । ॐ अस... सूत उवाच । शिरो मे विठ्ठ... श्रीगणेशाय नमः । देव्युव... श्रीमत्परात्पर विश्वकर्मप... शौनक उवाच । किं स्तोत्रं... श्रीगणेशाय नमः ॥ नारद... हरिश्चन्द्रः - ब्रह्मन् ... पूर्वे नारायणः पातु वारिज... ॐ अस्य श्री वीरभद्रकवचमहा... आग्नेयपुराणे अस्य श्रीवे... हरिरुवाच । सर्वव्याधिहरं... श्रीगणेशाय नमः । गुहागरस... ऐश्वरं परमं तत्त्वमादिमध्... ॥ श्रीमदानन्दरामायणे मनोह... श्रीदेव्युवाच - श्रुतं व... विनियोगः । ॐ अस्य श्रीशन... ॐ श्रीगणेशाय नमः । श्री ... शक्र उवाच - शाकम्भर्यास्... श्रीवल्लभसोदरी श्रितजनश्च... ॐ महाशाबरी शक्ति परमात्मन... श्रीगणेशाय नमः । देव्युव... ॐ श्रीगणेशाय नमः । अथ शा... विनियोगः । अस्य श्रीशिवक... दधीचिरुवाच कवचं देवदेवस्... नारद उवाच- शिवस्य कवचं ब... श्रीदेव्युवाच - भगवन्देव... पार्वत्युवाच - भगवन् सर्... श्रीगणेशाय नमः । ॐ अस... श्रीशिवः उवाच - अथ वक्ष्... प्रणम्य देवं विप्रेशं प्र... गोप्य ऊचुः - श्रीकृष्णस्... अथातः सम्प्रवक्षामि कवचं ... श्रीशाण्डिल्य उवाच । शान... ॐ श्रीगणेशाय नमः । श्रीग... श्रीविष्णुरुवाच । संसारम... ॥ अथ सङ्ग्रामविजयविद्या ॥... श्रीआनन्दभैरव उवाच शैलजे... श्रीदेव्युवाच- भगवन्देवद... श्रीआनन्दभैरव उवाच कथितं... श्रीगणेशाय नमः । ॐ अस्य ... श्रीसरस्वतीकवचं भैरव उवाच - शृणु देव... नारद उवाच - श्रुतं सर्वं... ॥ ॐ नम उमङ्गेश्वर्यै ॥ ... ॥ गुरु ध्यानम् ॥ ध्या... ॥ श्रीमदानन्दरामायणान्तर्... प्रसीद भगवन् ब्रह्मन् सर्... ॐ अस्य श्री सुदर्शन कवच म... ॐ अस्य श्री सुदर्शनकवचमाल... श्रीकृष्णाय नमः ॥श्रीगोपी... श्रीगणेशाय नमः । श्रीलक्ष... ॥ॐ नमस्सुब्रह्मण्याय ॥ ... ॐ श्रीगणेशाय नमः । नारद ... अस्य श्री सुब्रह्मण्यकवचस... श्रीगणेशाय नमः ॥ श्रीसूर... वज्रपञ्जराख्यसूर्यकवचम् ।... घृणिर्मे शीर्षकं पातु सूर... ॐ अस्य श्रीसूर्यनारायणदिव... बृहस्पतिरुवाच । इन्द्र श... श्रीगणेशाय नमः । याज्ञवल... ॐ श्रीगणेशाय नमः । श्रीग... कैलासशिखरे रम्ये सुखासीनं... गणेश्वर उवाच । कनककुण... श्रीरामदास उवाच - एकदा स... सनत्कुमार उवाच । कार्तवी... अस्य श्रीहयग्रीवकवचमहामन्... ॥ अथ श्री हयग्रीवकवचम् ॥ ... श्रीगणेशाय नमः । ईश्वर उ... अथ चतुरशीतितमः पटलः श्री... श्रीकार्तवीर्यार्जुनकवच - ॥ श्रीगणेशाय नमः ॥ उड... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र श्रीकार्तवीर्यार्जुनकवचस्तोत्रमहामन्त्रः Translation - भाषांतर ॥ श्रीगणेशाय नमः ॥ उड्डामिरेश्वरतन्त्रोक्तम् । अस्य श्री कार्तवीर्यार्जुनकवचस्तोत्रमहामन्त्रस्य दत्तात्रेयो भगवान्नृषिः ॥ अनुष्टुप् छन्दः ॥ श्री कार्तवीर्यार्जुनो विष्णुश्चक्रवर्ती देवता ॥ कृतवीर्यो बीजम् । सहस्रबाहुश्शक्तिः । अव्याहृतः कीलकम् । कार्तवीर्यार्जुनप्रसादसिद्धये जपेविनियोगः ॥ ॐ राजन्यचक्रवर्तिने अङ्गुष्टाभ्यां नमः । वीराय चक्रवर्तिने तर्जनीभ्यां नमः । शूराय चक्रवर्तिने मध्यमाभ्यां नमः । माहिष्मतीपतये चक्रवर्तिने अनामिकाभ्यां नमः । रेवाम्बुलीलासन्तृप्त -परितृप्त -दशास्य - चक्रवर्तिने कनिष्टिकाभ्यां नमः । कारागृहप्रतिबन्धितदशाश्य चक्रवर्तिने करतलकरपृष्टाभ्यां नमः । राजन्यचक्रवर्तिने हृदयाय नमः । वीराय चक्रवर्तिने शिरसे स्वाहा । शूराय चक्रवर्तिने शिखायै वषट् । माहिष्मतीपतये चक्रवर्तिने कवचाय हुम् । रेवाबुलीलासन्तृप्तपरितृप्तदशास्यचक्रवर्तिने नेत्रत्रयाय वौषट् । कारागृहप्रतिबन्धितदशास्यचक्रवर्तिने अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानं सहस्रबाहुं सशरं सचापं रक्ताम्बरं रत्नकिरीटकुण्डलम् । चोरारिदुष्टभयनाशनमिष्टदं तं ध्यायेन्महाबलविजृम्भितकार्तवीर्यम् ॥१॥ अव्यात्सर्वभयात्प्रभाकरनिभः प्रद्योतनो नूतनः स्वर्णस्रक् परिवीतकन्धरधरो रक्तांशुकोष्णीषवान् । नानाकल्पविभूषणः करसहस्रार्धात्तबाणासनो बाणर्धात्तसहस्रबाहुरनिशं भूवल्लभो नः प्रभुः ॥२॥ श्रीदेव्युवाच । देवादिदेव सर्वज्ञ सर्वभूतहिते रत । केन रक्षा भवेन्नॄणां भीतानां विविधापदि ॥ राजचोरादि पीडासु शस्त्राग्निविषपातने । मारिदुस्स्वप्नपीडासु ग्रहरोगभयेषु च ॥ ज्वरापस्मारपीडासु सिंहव्याघ्रनिपातने । राक्षस - असुरवेतालपिशाचप्रेत-पातने ॥३॥ महाभये महानाशे महानावगतेऽर्णवे । महामृत्युभये घोरे महाकलहसम्भवे ॥४॥ केनोपायेन शान्तिः स्यात् साधकानां महेश्वर । अनष्टद्रव्यरक्षा च नष्टस्य पुनरागमः ॥५॥ सर्वाकर्षणसङ्क्षोभसर्वसंहननं तथा । भवत्यभीष्टदं नृणां केन तद्वद मे शिव ॥६॥ ईश्वर उवाच । शृणु गुह्यतमं देवि गोपनीयं प्रयत्नतः । अवाच्यमपि वक्ष्यामि तव लोकहिताय वै ॥७॥ कवचं कार्तवीर्यस्य साङ्गावरणकं क्रमात् । स्वमूर्तिशक्तिमन्त्रौघसहितं ध्यानपूर्वकम् ॥८॥ सहस्रादित्यसङ्काशे नानारत्नसमुज्ज्वले । भास्वद्ध्वजपताकाढ्ये तुरङ्गायुतशोभिते ॥९॥ महासंवर्तक्रान्तेमहाराजविराजिते । समुद्धृतमहाच्छत्रवितानितवियत्पथे ॥१०॥ निक्वणत्किङ्किणीजाले चलच्चामरमण्डिते । महारथ्यावलयिते सर्वालङ्कारशोभिते ॥११॥ महावररथे दीप्ते नानाशस्त्रविराजिते । सुस्थितं विपुलोदारसहस्रभुजमण्डलम् ॥१२॥ वामैरुदारैः कोदण्डान् दधानमपरैश्शरान् । किरीटहारमुकुटकेयूरवलयाङ्गदैः ॥१३॥ मुद्रिकोदरबन्धाद्यैः काञ्चीनूपुरकादिभिः । भूषितं विविधाकल्पैर्भास्वरैस्सुविराजितम् ॥१४॥ आबद्धकवचं वीरं सुप्रसन्नाननाम्बुजम् । धनुर्ज्यासिंहनादेन कम्पयन्तं जगत्त्रयम् ॥१५॥ सर्वशत्रुक्षयकरं सर्वव्याधिविनाशनम् । सर्वसम्पत्प्रदातारं विजयश्रीनिषेवितम् ॥१६॥ सर्वसौभाग्यदं भद्रं भक्तानां भयनाशनम् । दिव्यमाल्यानुलेपाङ्गं सर्वलक्षणसंयुतम् ॥१७॥ रथनागाश्वपादातिवृन्दमध्यगमीश्वरम् । वरदं चक्रवर्तीनां आद्यं लोकैकपालकम् ॥१८॥ सभानोदितसाहस्र-सूर्येन्दुज्वलनप्रभम् । उदितादित्यसङ्काशं कुण्डलद्वयशोभितम् ॥१९॥ महायोगबलैश्वर्यकीर्त्याक्रान्तजगत्त्रयम् । श्रीमच्चक्रं हरेरंशादवतीर्णं महाबलम् ॥२०॥ सम्यगात्माविभेदेन ध्यात्वा रक्षामुदीरयेत् । दत्तात्रेय ऋर्षिः प्रोक्तोऽनुष्टुप्छन्दः प्रकीर्तितम् ॥२१॥ कार्तवीर्यार्जुनो विष्णुश्चक्रवर्ती च देवता । विनियोगश्च रक्षायै सर्वत्र परिकीर्तितः ॥२२॥ सर्वशत्रुविनाशाय सर्वार्थस्य च सिद्धये । तस्यैव मूर्तयः पञ्च भानुमत्किरणोज्ज्वलाः ॥२३॥ अग्नीशासुरवायव्यकोणेषु हृदयन्तिकाः । सर्वतस्तु ज्वलद्रूपा वरचर्मासिपाणयः ॥२४॥ अव्याहतबलैश्वर्यशक्तिसामार्थ्यविग्रहाः । क्षेमङ्करीं शक्तियुक्तःचोराणां च विभञ्जनः ॥२५॥ प्राचीं दिशं रक्षतु मे बाणबाणासनैर्युतः । श्रीकरीशक्तिसहितो मारीमदविभञ्जनः ॥२६॥ शरचापधरः श्रीमान् दिशं मे पातु दक्षिणाम् । महावश्यकरी युक्तो शत्रूणां मदभञ्जनः ॥२७॥ महेषुचापधृक् पातु मम प्राचेतसीं दिशम् । यशः करी यशस्करो दैत्यानां मदभञ्जनः ॥२८॥ कोदण्डेषुधरस्सौम्यां दिशं मे परिरक्षतु । प्रज्ञाकरीयुतश्चापःबाणधृक् दुष्टशासनः ॥२९॥ परिरक्षतु मां सम्यक् सम्यक् विदिशं चाग्निदेवताम् । विद्याकरी समायुक्तः सुमहान् दुष्टशासनः ॥३०॥ पातु मे नैरृतीं चापबाणो विदिशमीश्वरः । धनाकर्षणसमायुक्तो महादुरितनाशनः ॥३१॥ इष्वासनेषु दृक् पातु विदिशो मम वायवीम् । आयुष्कार्यायुतःश्रीमान् महाभयविनाशनः ॥३२॥ चापेषुधारीरौवीं मे विदिशं परिरक्षतु । विजयश्रीयुतस्साक्षात्साहस्त्रारधरो विभुः ॥३३॥ दिशमूर्ध्वामवतु मे महाभयविभञ्जनः । शङ्खभृत्सुमहाशक्तिस्सम्भूतो मे धरां दिशम् ॥३४॥ परिरक्षतु मे दुःखध्वान्तसम्भेदभास्करः । महाशोभाश्रयायुक्तः सर्वदिक्चक्रमण्डलः ॥३५॥ महायोगीश्वरः पातु सर्वतो मम पद्मधृक् । एतश्च कार्तवीर्यस्य शुक्लमाल्यांशुकावृताः ॥३६॥ प्रधानदेवतारूपाः पृथग्वररथस्थिताः । शक्तयः पद्महस्ताश्च नीलेन्दीवरसन्निभाः ॥३७॥ शुक्लमाल्यसुवसना ललितास्तिलकोज्वलाः । तत्पार्श्वदेवताः स्वस्ववाहनायुधभूषणाः ॥३८॥ स्वस्वदिक्षु स्थिताः पान्तु मामिन्द्राद्या महाबलाः । एतास्तस्य समाख्याताः सर्वावरणदेवताः ॥३९॥ सर्वतो मां सदा पातु सर्वशक्तिसमन्विताः । हृदये चोदरे नाभौ जठरे गुह्यमण्डले ॥४०॥ ऊरुयुग्जानुपादेषु मूर्ध्नि भ्रूयुगलेऽपि च । कर्णाक्षिनासिकाजिह्वाकण्ठबाहुयुगेषु च ॥४१॥ दशबीजात्मिकामन्त्राः यस्य संवृद्दिदायकाः । तेजोरूपधराः पान्तु वाञ्चापूरसुरद्रुमाः ॥४२॥ दश चान्ये महावर्णाः मन्त्ररूपा महोज्ज्वलाः । व्यापकत्वेन पान्त्वस्मानापादतलमस्तकम् ॥४३॥ कार्तवीर्यः शिरः पातु ललाटं हैहयेश्वरः । सुमुखो मे मुखं पातु कर्णौ व्याप्तजगत्त्रयः ॥४४॥ सुकुमारो हनूं पातु तालौ भ्रुयुगलेपि च । नयने पुण्डरीकाक्षो नासिकां मे गुणाकरः ॥४५॥ दन्तोष्टौ तु सदा पातु ब्रह्मगेयः सनातनः । सर्वशास्त्रकलाधारो जिह्वां चुबुकमव्ययः ॥४६॥ दत्तात्रेयप्रियः कर्णौ स्कन्धौ राजकुलेश्वरः । भुजौ दशास्यदर्पघ्नो हृदयं मे महाबलः ॥४७॥ कुक्षौ रक्षतु मे विद्वान् वक्षः परपुरञ्जयः । करौ सर्वार्थदः पातु काराग्रे त्रिजगत्पतिः ॥४८॥ रेवाम्बुलीलासन्तृप्तो ज्वरं मेऽभिरक्षतु । महावीरस्तु मे नाभिं पार्श्वौ मे सर्वदुष्टहा ॥४९॥ सहस्रभुजधृक् पृष्टं सप्तद्वीपाधिपः कटिम् । गुह्यं जितेन्द्रियः पातु सन्धिं नो योगवल्लभः ॥५०॥ ऊरू माहिष्मतीनाथ जानुनी वल्लभो भुवः । जङ्घे वीराधिपः पातु पादौ पातु मनोजवः ॥५१॥ पातु सर्वायुधधरः सर्वाङ्गं सर्वसन्धिषु । सर्वदुष्टान्तकः पातु धात्वष्टककलेवरम् ॥५२॥ प्रणादि दशजीवेशान् सर्वशिष्ठेष्टदोऽवतु । वशीकृतेन्द्रियग्रामो पातु सर्वेन्द्रियाणि मे ॥५३॥ रोमकूर्चानि राजेन्द्रस्त्वचं मेऽसाध्यविग्रहः । अस्थिमांसादिकं पातु सर्वक्षुद्रनिवारकः ॥५४॥ अनुक्तमपि च यत्स्थानं शरीरान्तर्बहिश्च यत् । तत्सर्वं पातु मे सर्वलोकनाथेश्वरेश्वरः ॥५५॥ वज्रासारतरं चेदं शरीरं कवचावृतम् । बाधाशतविनिर्मुक्तमस्तु मे भयवर्जितम् ॥५६॥ यद्विदं कवचं दिव्यमभेद्यं हैहयेशितुः । विचरामि दिवारात्रौ निर्भयेनान्तरात्मना ॥५७॥ राजमार्गे भये दुर्गे मार्गे चोरादिसङ्कुले । विषमे विपिने घोरे दावाग्नौ गिरिकन्धरे ॥५८॥ सङ्ग्रामे शत्रुसम्बाधे सिंहव्याघ्रनिपातने । गह्वरे सर्पसङ्कीर्णे देशे चोरगणावृते ॥५९॥ सर्वस्वहरणे प्राप्ते प्राप्ते प्राणस्य सङ्कटे । नाना रोगज्वरावेशे पिशाचप्रेतपातने ॥६०॥ मारीदुःस्वप्नपीडासु क्लिष्टविश्वासघातके । शरीरे च महादुःखे मानसे च महाज्वरे ॥६१॥ आधिव्याधिभये विघ्ने मान्त्रोपद्रवकेऽपि च । न भवेत्तु भयं किञ्चित्कवचेनावृतस्य मे ॥६२॥ आगन्तुकामानखिलानस्मद्वस्तु विलुम्पकान् । निवारयतु दोर्दण्डसहस्रेण महारथः ॥६३॥ स्वकरोददृतसाहस्रपाशबन्धान् सुदुर्जयान् । संरुद्धगतिसामर्थ्यान् करोतु कृतवीर्यजः ॥६४॥ सृणीसहस्रनिर्भिन्नान्सहस्रशरखण्डितान् । राजचूडामणिः क्षिप्रं करोत्वस्मद्विरोधकान् ॥६५॥ खड्गसाहस्रदलितान् सहस्रमुसलार्दितान् । चोरादिदुष्टसर्वौघान् करोतु कमलेक्षणः ॥६६॥ स्वशङ्खनादसन्त्रस्तान् सहस्रारविदारितान् । करोतु दुष्टसत्वौघान् साहस्रारस्सहस्रधृक् ॥६७॥ कृतवीर्य सुतो राजा सहस्रभुजमण्डलः । अवतारो हरेस्साक्षात्पालयेत्सकलं मम ॥६८॥ कार्तवीर्यार्जुनो नाम राजाबाहुसहस्रवन् । तस्य संस्मरणादेव हृतं नष्टं च लभ्यते ॥६९॥ धनुः पञ्चशतं वामे दाक्षिणे तावतः शरान् । बिभ्राणः कार्तवीर्योऽसौ पालयेत्सकलं मम ॥७०॥ यद् भवेल्लोकरक्षार्थं अंशाच्चक्रं हरेर्विभोः । तन्नमामि महावीर्यमर्जुनं कृतवीर्यजम् ॥७१॥ कार्तवीर्य महावीर्य सर्वशत्रुविनाशन । सर्वत्र सर्वदा तिष्ठन् चोरान्नाशय पाहिमाम् ॥७२॥ उत्तिष्ट दुष्टदमन सप्तद्वीपैकपालक । त्वामेव शरणं प्राप्तं सर्वार्ताद्रक्ष पाहिमाम् ॥७३॥ दुष्टघ्न किं त्वं स्वपिषि किं तिष्टसि चिरापदि । पाहि नः सर्वदा सर्वं भयेभ्यः स्वसुतानि च ॥७४॥ ये चोरा वसुहर्तारो दुष्टा ये च हिंस्रकाः । अन्तरायकरा दुष्टाः छद्मकाः ये दुरात्मकाः ॥७५॥ दुर्हृदो दुष्टभूपाला दुष्टामात्याश्च घातकाः । ये च कार्यविलुप्तारो ये खलाः परिपन्थिनः ॥७६॥ सर्वस्वहरणा ये च महामायाविनोऽपि ये । महाक्लेशकरा म्लेच्छा दस्यवो वृषलाश्च ये ॥७७॥ ये महागरदातरो वञ्चकाः शश्त्रपाणयः । ये पापा दुष्टकर्माणो दुःखदा दुष्टबुद्धयः ॥७८॥ व्याजकाः कुपथासक्ता ये च नानाभयप्रदाः । छिद्रान्वेषकरा नित्यं येऽस्मान्बाधितुमुद्यताः ॥७९॥ ते सवै कार्तवीर्यस्य महाशङ्खरवाद्धताः । सहसा विलयं यन्तु दूरादेव विमोहिताः ॥८०॥ ये दानवा महादैत्या ये यक्षा ये च राक्षसाः । पिशाचा ये महासत्वा ये भूता ब्रह्मराक्षसाः ॥८१॥ अपस्मारग्रहा ये च ये ग्रहा पिशिताशिनः । महालोहितभोक्तारो वेताला ये च गुह्यकाः ॥८२॥ गन्धर्वाप्सरसस्सिद्धाः ये च देवादियोनयः । डाकिन्यो धोणसाः प्रेता क्षेत्रपाला विनायकाः ॥८३॥ महाव्याघ्रमुखाः क्रूराः महातुरगमूर्तयः । महाव्यघ्रा महामेषाः महामहिषसन्निभाः ॥८४॥ महाराजो महासिंहः महाभल्लूकसन्निभाः । ऋक्षवाराहशुनकवानरालूकमूर्तयः ॥८५॥ महोष्ट्रखरमार्जारसर्पगो विषपुच्छकाः । नानारूपमहासत्वाः नानाक्लेशसहस्रधाः ॥८६॥ नानारोगकराः क्षुद्रा नानावीर्याः महाबलाः । वातका पैत्तिका घोराश्श्लेष्मिकास्साक्षिपातिकाः ॥८७॥ माहेश्वरा वैष्णवाश्च वैरिञ्चश्च महाज्वराः । स्कान्दा वैनायकाः क्रूराः ये च मन्मथसंज्ञिकाः ॥८८॥ महाशत्रुग्रहा रौद्रा महामारीमसूरिकाः । एकाह्निका द्व्याह्निकाश्च त्र्याह्निकाश्च महाज्वराः ॥८९॥ साप्ताहिकाः पाक्षिकाश्च मासषाण्मासिकाश्च ये । संवत्सरा दुर्निवार्याः ज्वराः परमदारुणाः ॥९०॥ स्वाप्निकाश्च महोत्पाताः ये च दुःस्वप्नजा ग्रहाः । कूष्माण्डा भैरवा भीमाः धोणसा निधिवञ्चकाः ॥९१॥ भ्रामकाः प्राणहन्तारो ये च बालग्रहादयः । मनोबुद्धीन्द्रियहराः स्फोटकाश्च महाग्रहाः ॥९२॥ महाशना बलिभुजो महाकुणपभोजनाः । दिवाचरा रात्रिचराः ये च सन्ध्यासु दारुणाः ॥९३॥ प्रमत्तमप्रमत्तं च ये मां बाधितुमुद्याताः । ते सर्वे हैहयेन्द्रस्य धनुर्मुक्तश्शरार्दिताः ॥९४॥ सहस्रधा प्रणश्यन्तु भग्नसत्वबलोद्यमाः । ये सर्पा ये महानागाः महागिरिविलेशयाः ॥९५॥ कालाव्याला महादंष्ट्रा महाजगरसंज्ञिकाः । अनन्तगुलिकाद्याश्च दृग्विषाश्व महाभयाः ॥९६॥ अनेकशतवर्षाश्च खड्गपुच्छाश्च दारुणाः । महाविषजलूकाश्च वृश्चिका रक्तपुच्छकाः ॥९७॥ आशीविषाः कालकूटाः महाहालाहलाह्वयाः । जलसर्पा जलव्याला जलग्राहाश्च कच्छपाः ॥९८॥ मत्स्यका विषपुच्छा ये चान्ये जलनिवासिनः । जलजा स्थलजाश्चैव नानाभेदकुलोद्भवाः ॥९९॥ ये च षड्बिन्दवो लूताः भ्रमराः शूलपुच्छकाः । स्थावरा जङ्गमाश्चैव कृत्रिमाश्च महाविषाः ॥१००॥ गुप्ता विगुप्तारूपाश्च भूषिकाः गृहगोधिकाः । कृकलासा कुलीराश्च ये चान्ये यादसां गणाः ॥१०१॥ स्मरणा विषमा घोरा महोग्रविषसंज्ञिकाः । येऽस्मान्बाधितुमिच्छति शरीरप्राणनाशकाः ॥१०२॥ ते सर्वे कार्तवीर्यस्य खड्ग-साहस्रसादिताः । दूरादेव विनश्यन्तु प्रणष्टेन्द्रियमानसाः ॥१०३॥ मनुष्याः पशवो ऋक्षाः वानराः वनगोचराः । सिंहव्याघ्रवराहाश्च माहिषा ये महामृगाः ॥१०४॥ गजास्तुरङ्गाटव्या रासभाश्शरभा बृकाः । शुनका विपिनः शुम्भमार्जाराः विषलोमशाः ॥१०५॥ शृगालाः शशकाः श्येनाः गरुत्मन्तो विहङ्गमाः । भेरुण्डा वायसाः गृध्रा हंसाद्याः पक्षिजातयः ॥१०६॥ उद्भिजाश्वाडजाश्वैव स्वेदजाश्च जरायुजाः । नानाभेदकुले जाताः नानाभूताः पृथग्विधाः ॥१०७॥ येऽस्मान्बाधितुमुद्यन्ति सन्ध्यासु च दिवानिशि । ते क्षिप्रं कार्तवीर्यस्य चक्रसाहस्रखण्डिताः ॥१०८॥ दूरादेव विनश्यन्तु विनष्टगतिपौरुषाः । ये चाक्षेपप्रदातारो द्वेष्टारो ये विदूषकाः ॥१०९॥ कृत्यं यत्र प्रदातारः कूटमायाविनश्च ये । मारणोच्चाटनोच्चाटुद्वेषमोहनकारकाः ॥११०॥ विश्वस्तघातका दुष्टा ये च स्वामिद्रुहो नराः । ये चाततायिनो दुष्टा ये पापा गुप्तहारिणः ॥१११॥ दाहोपघातगरलशस्त्रपातनदुःखदाः । क्षेत्रवित्तापहरणाः बन्धनादि बहुप्रदाः ॥११२॥ ईतयो विविधाकारा ये चान्ये दुष्टजातयः । पीडाकरा ये सततं क्षुद्रका घ्नन्ति सन्ततम् ॥११३॥ ते सर्वे कार्तवीर्यस्य गदासाहस्रचूर्णिताः । दूरादेव विनश्यन्तु लयं यान्तु सहस्रधा ॥११४॥ ये मेधा ये महावर्षाः ये वाता याश्च विद्युतः । ये महाशनो ये दीप्ताः यो निर्घाताः सुदारुणाः ॥११५॥ उल्कापाताश्च ये घोराः ये महोन्द्रायुधादयः । अर्केन्दुकुजसौम्याश्च गुरुकाव्यशनैश्चराः ॥११६॥ राहुश्च केतवो घोरा नक्षत्रराशयस्तथा । तिथयस्सङ्क्रमा मासत्वययनायुगनायकाः ॥११७॥ मन्वन्तरस्सिद्धर्षयो योगसिद्धाः सदोज्वलाः । विधयो ऋग्यजुःसामात्यथर्वाद्याश्च वह्नयः ॥११८॥ ऋतवो लोकपालाश्च पितरो देवसन्ततिः । विद्याश्चैव चतुःषष्टिभेदोक्ता भुवनत्रये ॥११९॥ सेवन्ते कीर्तितास्सर्वे ये चान्येनानुकीर्तिताः । ते सन्तु नः सदा सौम्याः सर्वलोकसुखावहाः ॥१२०॥ अज्ञया कार्तवीर्यस्य योगीन्द्रस्यामितद्युतेः । कार्तवीर्यार्जुनो धन्वी योगीन्द्रो हेहयेश्वरः ॥१२१॥ दत्तात्रेयप्रियतमः सहस्रभुजमन्डलः । चापी खड्गी रथी बाणी चर्मवर्मी महाबलः ॥११२॥ सुभगः सुमुखः शान्तः चक्रवर्ती गुणाकरः । दशास्यदर्पहा रेवालीलातृप्तः सुदुर्जयः ॥१२३॥ दुःखहा चोरदमनो राजराजेश्वरः प्रभुः । सर्वज्ञः सर्वगः श्रीमान् सर्वशिष्टप्रदः कृती ॥१२४॥ राजचूडामणिर्योगी सप्तद्वीपाधिनायकः । विजयी विश्रुतो वाग्मी महागतिरलोलुपः ॥२५॥ यज्वा विप्रप्रियो विद्वान् ब्रह्मज्ञो यस्सनातनः । माहिष्मतीपतिर्योद्धा महाकीर्तिर्महाभुजः ॥१२६॥ सुकुमारो महावीरो मारिघ्नो मदिरेक्षणः । शत्रुघ्नः शाश्वतः शूरः शङ्खभृद्योगवल्लभः ॥१२७॥ महाभागवतो धीमान् महाभयविनाशनः । असाध्यविग्रहो दिव्यो भयव्याप्तजगत्त्रयः ॥१२८॥ सर्वशास्त्रकलाधारो विरजो लोकवन्दितः । वीरो मलिनचित्ताढ्यो महाबलपराक्रमः ॥१२९॥ विजयश्रीमयो मान्यो जितारिर्मन्त्रनायकः । खड्गभृत्कामदः कान्तः कालघ्नः कमलेक्षणः ॥१३०॥ भद्रवादाप्रियो वैद्यो वरदो विबुधो वशी । जितेन्द्रियो जितारातिः स्वच्छन्दोऽनन्तविग्रहः ॥१३१॥ चक्रभृत्परचक्रघ्नः सङ्ग्रामविधिपूजितः । महाधनो निधिपतिर्महायोगी गुरुप्रियः ॥१३२॥ योधाद्यो सर्वरोगघ्नो राजिताखिलभूषणः । दिव्यास्त्रविदमेयात्मा सर्वगोप्ता महोज्वलः ॥१३३॥ सर्वायुधधरोऽभीष्टप्रदः परपुरञ्जयः । योगसिद्धो महाकायो महाबृन्दशताधिपः ॥१३४॥ सर्वज्ञाननिधिस्सर्वभोगदानकृतोद्यमः । इत्यष्टशतनामोक्ता मूर्तयो दशदिक्पतेः ॥१३५॥ सम्यक्दशदिशो व्याप्य पालयन्तु च मां सदा । सर्वेन्द्रियाणि सुस्थानि सुशान्तिश्च सदास्तु मे ॥१३६॥ शिष्ठायामूर्तयोष्टौ च विक्रमेणैव भास्वराः । अग्निनिरृतिवाय्वीशकोणगाः पान्तु मां सदा ॥१३७॥ मनस्सौख्यमसम्बाधामरोगमपराजितम् । दुःखहा निरविघ्नश्च प्रजावृद्विस्सुखोदयः ॥१३८॥ वाञ्छावाप्तिश्च कल्याणं अवैषम्यमनामयम् । अनष्टद्रव्यरक्षा च नष्टस्य पुनरागमः ॥१३९॥ धर्मायुष्यं यशोलाभस्सौकुमार्यमभीप्सितम् । अनालस्यमभीष्टं च मृत्युहानिर्बलोन्नतिः ॥१४०॥ भयहानिः यशः कान्तिर्विद्यावृद्धिर्महाश्रयः । अप्रधृष्यं महत्वं च महासामर्थ्यकोविदः ॥१४१॥ सन्तु मे कार्तवीर्यस्य हैहयेन्द्रस्य कीर्तनात् । य इदं कार्तवीर्यस्य कवचं पुण्यवर्धनम् ॥१४२॥ सर्वपापप्रशमनं सर्वोपद्रवनाशनम् । सर्वसम्पत्करं गुह्यं समस्तभयनाशनम् ॥१४३॥ विजयार्थप्रदं नृणां सर्वसम्पत्करं शुभम् । श्रुणुयाद्वा पठेद्वाऽपि सर्वान्कामानमाप्नुयात् ॥१४४॥ आयुरारोग्यमैश्वर्यपुत्रपौत्रादिसम्पदः । भवन्ति सर्वदाऽभीष्टाः पुस्तकस्यापि पूजनात् ॥१४५॥ मुच्यते सर्वदुःखैस्तु सर्वत्र विजयी भवेत् । मारीचोरादिपीडाद्यैर्न कदाचित्प्रबाध्यते ॥१४६॥ पठतः प्रातरुत्थाय दुःस्वप्नादि विनश्यति । लभते वाञ्चितानर्थान् पूज्यते त्रिदशैरपि ॥१४७॥ शय्यातलगतो रात्रौ च इदं कवचं पठेत् । न तस्य तस्करारातिः दुःस्वप्नादिभवं भयम् ॥१४८॥ चोरैर्यदाहृतं पश्येत्पश्वादि धनमात्मनः । एकवारं जपेद्यस्तु सर्वाभीष्टफलप्रदम् ॥१४९॥ सप्तवारं तथा जप्त्वा निशि पश्चिमदिङ्मुखः । सप्तरात्रेण लभते नष्टद्रव्यं न संशयः ॥१५०॥ सप्तविंशति वारं तु प्राचीदिग्वदनो यदि । तदा देवासुरयुतं परचक्रं निवारयेत् ॥१५१॥ विवादे विपुले घोरे पञ्चवारं पठेदिम् । विजयो जायते तस्य न कदाचित्पराजयः ॥१५२॥ सम्यक् द्वादशधा रात्रौ प्रजपेद्बाधमुक्तये । त्रिदिनान्निगलग्रस्तो मुच्यते न विचारणा ॥१५३॥ अनेनैव विधानेन सर्वसाधनकर्मणि । असाध्यमपि सप्ताहात्साधयेन्मन्त्रवित्तमः ॥१५४॥ यात्राकाले पठित्वेदं मार्गं गच्छति यः पुमान् । न दुष्टचोरव्याघ्ग्रद्यैः भयं स्यात्परिपन्थिनः ॥१५५॥ नित्यं ग्रहगतो जित्वा कल्याणैः परिपूर्यते । न भयं जायते तस्य दुष्टसत्वादिभिः क्वचित् ॥१५६॥ सर्वरोगप्रपीडासु त्रिधा वा पञ्चधा पठेत् । सरोगमृत्युवेतालभूतप्रेतैः प्रमुच्यते ॥१५७॥ पठनात्स्मरणात्कुर्याज्जलेनाञ्जलिना रवौ । स चाग्निविषकृत्यासु रोगस्फोटैर्न बाध्यते ॥१५८॥ त्रिसन्ध्यासु पठेदेतत् षण्मासं विजितेन्द्रियः । कालमृत्युमपि प्राप्तं जयत्यत्र न संशयः ॥१५९॥ पठतः कवचं चेदं विषं नाक्रमते तनौ । जडान्धत्वं च मूकत्वं नोपसर्गभयं क्वचित् ॥१६०॥ विंशद्वर्णोक्तविधिना धार्येदेवं तदात्मकम् । मन्त्री गुरुप्रसादात्तं मन्त्रराजं जपेत्पुनः ॥१६१॥ कवचेनावृतो भूयो मन्त्रध्यानं समाचरेत् । यथोक्तं लभते सद्यः फलं वज्रतनुर्भवेत् ॥१६२॥ यथा तथेदं कवचं न कस्यापि प्रकाशयेत् । आदौ संशोधनं कृत्वा तन्नाम ध्यानपूर्वकम् ॥१६३॥ सिद्धयै तच्चक्रमन्त्राणां उच्चरेत् द्विजपूर्वकम् । गोपनीयं प्रयत्नेन शिवस्य वचनं तथा ॥१६४॥ सुभक्ताय सुशिष्याय दद्यात्सर्वस्वदायिने । साधकानां हितार्थाय यदुक्तं चन्द्रमौलिना ॥१६५॥ कार्तवीर्यस्य कवचं यदुक्तं वै मया तव । येनैदं रक्षतो देहः कालेनापि न जीर्यति ॥१६६॥ तस्मात्सर्वप्रयत्नेन कवचं धारयेत्सुधीः । N/A References : N/A Last Updated : November 18, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP