संस्कृत सूची|संस्कृत साहित्य|कवच|
(नारायणप्रोक्तं गणेशाष्टक...

गणेशकवचम् - (नारायणप्रोक्तं गणेशाष्टक...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

(नारायणप्रोक्तं गणेशाष्टकम्) दशलक्षजपेनैव सिद्धं तु कवचं भवेत् । संसारमोहकस्याऽस्य कवचस्य प्रजापतिः ॥५३॥
ऋषिश्छन्दो बृहती च देवो लम्बोदरः स्वयम् । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥५४॥
ॐ गं हुं श्रीगणेशाय स्वाहा मे पातु मस्तकम् । द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदाऽवतु ॥५५॥
ॐ ह्रीं श्रीं गमिति वै सततं पातु लोचने । तालुकं पातु विघ्नेशः सततं च धरातले ॥५६॥
ॐ ह्रीं श्रीं क्लीमिति परं सन्ततं पातु नासिके । ॐ गौं गं शूर्पकर्णाय स्वाहा पात्वधरौ मम ॥५७॥
दन्ताँश्च तालुके जिह्वां पातु मे षोडशाक्षरः । ॐ लं श्रीं लम्बोदरायेति स्वाहा गण्डौ सदाऽवतु ॥५८॥
ॐ क्लीं ह्रीं विघ्ननाशाय स्वाहा कर्णौ सदाऽवतु । ॐ श्रीं गं गजाननायेति स्वाहा स्कन्धं सदाऽवतु ॥५९॥
ॐ ह्रीं विनायकायेति स्वाहा पृष्ठं सदाऽवतु । ॐ क्लीं ह्रीमिति काङ्कलं पातु वक्षःस्थलं परम् ॥६०॥
करौ पादौ सदा पातु सर्वाङ्गं विघ्ननाशकृत् । प्राच्यां लम्बोदरः पातु चाग्नेय्यां विघ्ननायकः ॥६१॥
दक्षिणे पातु विघ्नेशो नैरृत्यां तु गजाननः । पश्चिमे पार्वतीपुत्रो वायव्यां शङ्करात्मजः ॥६२॥
कृष्णस्यांशश्चोत्तरे च परिपूर्णतमस्य च । ऐशान्यामेकदन्तश्च हेरम्बः पातु चोर्ध्वतः ॥६३॥
अधो गणाधिपः पातु सर्वपूज्यश्च सर्वतः । स्वप्ने जागरणे चैव पातु मां योगिनां गुरुः ॥६४॥
इत्येतत्कवचं कृष्णो गोलोकेऽदात्स्वयं तु मे । मया नारायणेनात्र यमादिसुरसन्निधौ ॥६५॥
शनैश्चरायाऽर्पितं तत् सर्वसङ्कटतारकम् । तदेवेदं महालक्ष्मि ! सर्वेभ्यः श्रावितं मया ॥६६॥
गुरुमभ्यर्च्य विधिवत् कवचं धारयेत्तु यः । कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुसमो भवेत् ॥६७॥
सर्वत्र विजयी पूज्यो भवेद्ग्रहणमात्रतः । भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ॥६८॥
डाकिनीयोगिनीयक्षवेताला भैरवादयः । बालग्रहा ग्रहाश्चैव क्षेत्रपालादयस्तथा ॥६९॥
वर्मणः शब्दमात्रेण पलायन्ते तु भीरवः । ऋजवे गुरुभक्ताय स्वशिष्याय प्रकाशयेत् ॥७०॥
अथ गणेशदेवस्याऽष्टकं वक्ष्ये सुखप्रदम् । यत्पाठकं स्वयं कृष्णो गणेशोऽवति सर्वदा ॥७१॥
ॐ नमोऽन्तःसुसत्त्वाय शिवसत्त्वाय ते नमः । ॐ नमः कृष्णरूपाय शैलजाङ्गाय ते नमः ॥७२॥
ॐ नमो वृद्धविप्राय सत्त्वसंस्थाय ते नमः । ॐ नमः पिण्डरूपाय न्यस्तचित्ताय ते नमः ॥७३॥
ॐ नमः सिद्ध्यधिष्ठाय सर्वविद्याय ते नमः । ॐ नमो गोपुरत्रात्रे मात्राज्ञापाय ते नमः ॥७४॥
ॐ नमोऽस्त्वलक्ष्यपित्रे पितृशस्त्याय ते नमः । ॐ नमः स्कन्धरूपाय कर्याननाय ते नमः ॥७५॥
ॐ नमः शिवपुत्राय सर्वपूज्याय ते नमः । ॐ नमश्चाग्रजार्चाय लड्डुकाद्याय ते नमः ॥७६॥
ॐ नमो विघ्ननाशाय मूषकासनिने नमः । ॐ नमो हेतिलाभाय चिरजीवाय ते नमः ॥७७॥
ॐ नमो दिव्यवर्ष्मणे भव्यवर्मणे ते नमः । ॐ नमः कवचाऽऽप्याय वचोऽव्ययाय ते नमः ॥७८॥
ॐ नमो मङ्गलाढ्याय भक्तिदार्ढ्याय ते नमः । ॐ नमः श्रीगणेशाय श्रीकृष्णाय नमो नमः ॥७९॥
इति स्तुत्वा नरो भक्त्याऽमरो भवति मोक्षगः । गणेशवृत्तमित्युक्तं किं भूयः श्रोतुमिच्छसि ॥८०॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने १०५-अध्यायान्तर्गतं नारायणप्रोक्तं गणेशकवचं तथा गणेशाष्टकं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता 

N/A

References : N/A
Last Updated : November 19, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP