संस्कृत सूची|संस्कृत स्तोत्र साहित्य|कवच| श्रीशाण्डिल्य उवाच । शान... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीगणेशाय नमः । श्रीदेव... विनियोगः - ॐ अस्य त्रैलो... श्रीलक्ष्मण उवाच । कृताञ... सगर उवाच । श्रुतं सर्वं ... श्रीगणेशाय नमः । श्रीदत्... श्रीपादः पातु मे पादावूरू... श्रीगणेशाय नमः । श्रीदत्... ॐ द्रां ॐ नमः, श्रीगुरुद... विनियोगः - ॐ अस्य श्रीमह... भैरव उवाच । कालिकाकवचस्य... विरूपाक्ष उवाच । नमामि ग... भैरव उवाच । कालिका या मह... श्रीपरमशिव उवाच । सर्पिः... श्रीभैरव उवाच । शणु देव... नारायण उवाच । शणु नारद ... श्रीगणेशाय नमः । ईश्वर उ... श्रीगणेशाय नमः । नारद उव... श्रीदेव्युवाच - पुरा श्र... श्री शिव उवाच - शणु देव... भगवन् देव देवेशकृपया त्वं... श्रीगणेशाय नमः । श्रीदुर्... ॐ अस्य श्री चण्डीकवचस्य ॥... देव्युवाच धनदा या महाविद... श्रीगणेशाय नमः । अथ धूमा... श्री गणेशाय नमः । श्रीमद... ब्रह्मोवाच । शिरो ... विनियोगः नागराजस्य देवस्... ॐ श्रीगणेशाय नमः । ॐ नमो... ॐ श्रीगणेशाय नमः । ॐ नमो... तन्त्रराजतन्त्रे अष्टाविं... निम्बार्क-कवचं वक्ष्ये मह... श्रीगणेशाय नमः । अथापरं ... नारद उवाच । इन्द्रादिदेव... ॥ श्रीगणेशाय नमः ॥ ॥ ... अस्य श्रीपञ्चमुखिवीरहनूमत... अस्य श्रीपञ्चमुखिहनुमत्कव... भगवन् ! सर्वमाख्यातं मन्त... श्रीगणेशाय नमः । श्रीभैर... अथ पञ्चाशीतितमः पटलः । श... ॥ श्रीमहा-त्रिपुर-सुन्दर्... ऋषय ऊचुः । अथ नाम्नां सह... देव्युवाच । भगवन् सर्वधर... सूत उवाच - सहस्रादित्यसङ... ॥ अथ बगलामुखीकवचम् ॥ ... कैलासाचलम्ध्यगम्पुरवहं शा... श्री गणेशाय नमः । श्री बग... श्रीगणेशाय नमः । अस्यश्र... श्रीगणेशाय नमः । श्रीपीता... उक्तं च भैरवतन्त्रे । मह... अस्य श्री बटुकभैरवकवचस्य ... देव्युवाच । देवदेव जगन्न... अस्य श्रीबटुकभैरवकवचस्य ... ॥ श्रीगणेशाय नमः ॥ ॥ ... अथ विनियोगः - अस्य श्रीब... दुर्योधन उवाच - गोपीभ्यः... अस्य बाणलिङ्ग कवचस्य संहा... शिवस्य कवचं स्तोत्रं श्रू... नन्दगोप उवाच । रक्षतु त्... वाग्भवः पातु शिरसि कामराज... श्रीपार्वत्युवाच- देवदेव... अस्य श्रीबालात्रिपुरसुन्द... बालार्कमण्डलाभासां चतुर्ब... श्रीभैरव उवाच- अधुना ते ... ॐ अस्य श्रीबालात्रिपुरसुन... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... ॐ श्रीब्रह्मणे नमः । कवच... श्री गणेशाय नमः । श्री बग... ॐ नमो भगवति वज्रशृङ्खले ... श्रीगणेशाय नमः । नारद... ॐ श्रीदेव्युवाच । ॐ भगवन... अगस्तिरुवाच- अतः परं भरत... श्रीगणेशाय नमः । श्री पा... गम्भीरो माहात्म्यात्प्रशम... श्रीगणेशाय नमः । देव्युव... श्रीदेव्युवाच- भगवन्, पर... पार्वत्युवाच - देव देव म... श्रीगणेशाय नमः । श्रीदेव... श्रीपार्वत्युवाच - देवदे... श्रीगणेशाय नमः । अस्य श्... मल्हारिकवचम् श्रीगणेशाय ... ॐ श्रीगणेशाय नमः । श्रीभ... श्रीगणेशाय नमः । श्रीभैर... श्रीदेव्युवाच । देवदेव म... श्रीगणाधिपतये नमः । श्री... ॐ अस्य श्रीमहागणपतिमन्त्र... ॥ पूर्वपीठिका ॥ महादे... श्री गणेशाय नमः । भैरव उ... श्रीदेव्युवाच - भगवन् सर... श्री गणेशाय नमः । अस्य श... नारद उवाच । आविर्भूय हरि... सदाशिव ऋषिर्देवि उष्णिक्छ... शणुदेवि प्रवक्ष्यामि कवच... श्रीभगवानुवाच- अस्य मन्त... श्रीगणेशाय नमः । अथ महाश... श्रीदेव्युवाच- भगवन् देव... अथ वक्ष्ये महेशानि कवचं स... भैरव उवाच । शृणु देवि !... श्रीदेव्युवाच साधु साधु ... अस्य श्रीमातङ्गीकवचमन्त्र... श्रीगणेशाय नमः । श्रीपार... ॐ नमो भगवते विचित्रवीरहनु... ॐ नमोभगवते रुद्राय । राज... श्रीदेव्युवाच - भगवन् सर... ॐ सिद्धिः । ॐ नमो नरसिंह... एवमाराध्य गौरीशं देवं मृत... श्रीदेव्युवाच - भगवन् दे... ईश्वर उवाच - त्रिकालं गो... श्रीगणेशाय नमः ॥ भगवन... मान्धातोवाच - यमुनायाः क... योगनिद्रोवाच । दूरीभूतं ... उन्मत्तभैरव उवाच - शृणु... श्रीगणेशाय नमः । श्रीयोग... देव्युवाच - भगवन् श्रोतु... कवचं राघवेन्द्रस्य यतीन्द... अथ श्रीराघवेन्द्रार्यकवचं... अथ श्रीराघवेन्द्रार्यरक्ष... पार्वती उवाच- देवदेव महा... श्रीपार्वत्युवाच ॥ ॐ ... महेश्वर उवाच । श्रीजगन्म... श्रीगणेशाय नमः ॥ पार्... ॥ श्रीमदानन्दरामायणे मनोह... अस्य श्रीत्रैलोक्यमोहनवज्... कपिकटकधुरीणः कार्मुकन्यस्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॥ॐ श्रीगणेशाय नमः ॥ अ... इदं पवित्रं परमं भक्तानां... श्रीगणेशाय नमः ॥ ॐ अस... ॐ श्रीभैरव उवाच - शृणु ... भैरव उवाच - वक्ष्यामि दे... ॥अथ श्री रुद्रकवचम् ॥ ... पूर्वपीठिका - श्रीकार्ति... श्रीपार्वत्युवाच । देवदे... श्री देव्युवाच । जमदग... ॥श्री गणेशाय नमः ॥ शृ... ॥श्री गणेशाय नमः ॥ श... सनत्कुमार उवाच- अथ ते कव... अथ ते कवचं देव्या वक्ष्ये... ॥ अथ श्रीमदानन्दरामायणे म... श्रीगणेशाय नमः । ॐ अस्य ... श्रीगणेशाय नमः । ॐ अस्य ... अथ श्रीलक्ष्मीकवचप्रारम्भ... शुकं प्रति ब्रह्मोवाच महा... श्रीगणेशाय नमः । श्रीभैर... अथ श्रीनरसिंहकवचम् । श्र... नारद उवाच - भगवन् सर्वधर... श्री गणेशाय नमः । मौलिं ... श्रीगणेशाय नमः । श्रीभैर... आद्यं रङ्गमिति प्रोक्तं व... अस्य श्री सर्व वशीकरण स्त... ॐ श्रीगणेशाय नमः । ॐ श्र... अस्य श्रीवाराहीकवचस्य त्र... श्री नृसिंहाय नमः । ॐ अस... सूत उवाच । शिरो मे विठ्ठ... श्रीगणेशाय नमः । देव्युव... श्रीमत्परात्पर विश्वकर्मप... शौनक उवाच । किं स्तोत्रं... श्रीगणेशाय नमः ॥ नारद... हरिश्चन्द्रः - ब्रह्मन् ... पूर्वे नारायणः पातु वारिज... ॐ अस्य श्री वीरभद्रकवचमहा... आग्नेयपुराणे अस्य श्रीवे... हरिरुवाच । सर्वव्याधिहरं... श्रीगणेशाय नमः । गुहागरस... ऐश्वरं परमं तत्त्वमादिमध्... ॥ श्रीमदानन्दरामायणे मनोह... श्रीदेव्युवाच - श्रुतं व... विनियोगः । ॐ अस्य श्रीशन... ॐ श्रीगणेशाय नमः । श्री ... शक्र उवाच - शाकम्भर्यास्... श्रीवल्लभसोदरी श्रितजनश्च... ॐ महाशाबरी शक्ति परमात्मन... श्रीगणेशाय नमः । देव्युव... ॐ श्रीगणेशाय नमः । अथ शा... विनियोगः । अस्य श्रीशिवक... दधीचिरुवाच कवचं देवदेवस्... नारद उवाच- शिवस्य कवचं ब... श्रीदेव्युवाच - भगवन्देव... पार्वत्युवाच - भगवन् सर्... श्रीगणेशाय नमः । ॐ अस... श्रीशिवः उवाच - अथ वक्ष्... प्रणम्य देवं विप्रेशं प्र... गोप्य ऊचुः - श्रीकृष्णस्... अथातः सम्प्रवक्षामि कवचं ... श्रीशाण्डिल्य उवाच । शान... ॐ श्रीगणेशाय नमः । श्रीग... श्रीविष्णुरुवाच । संसारम... ॥ अथ सङ्ग्रामविजयविद्या ॥... श्रीआनन्दभैरव उवाच शैलजे... श्रीदेव्युवाच- भगवन्देवद... श्रीआनन्दभैरव उवाच कथितं... श्रीगणेशाय नमः । ॐ अस्य ... श्रीसरस्वतीकवचं भैरव उवाच - शृणु देव... नारद उवाच - श्रुतं सर्वं... ॥ ॐ नम उमङ्गेश्वर्यै ॥ ... ॥ गुरु ध्यानम् ॥ ध्या... ॥ श्रीमदानन्दरामायणान्तर्... प्रसीद भगवन् ब्रह्मन् सर्... ॐ अस्य श्री सुदर्शन कवच म... ॐ अस्य श्री सुदर्शनकवचमाल... श्रीकृष्णाय नमः ॥श्रीगोपी... श्रीगणेशाय नमः । श्रीलक्ष... ॥ॐ नमस्सुब्रह्मण्याय ॥ ... ॐ श्रीगणेशाय नमः । नारद ... अस्य श्री सुब्रह्मण्यकवचस... श्रीगणेशाय नमः ॥ श्रीसूर... वज्रपञ्जराख्यसूर्यकवचम् ।... घृणिर्मे शीर्षकं पातु सूर... ॐ अस्य श्रीसूर्यनारायणदिव... बृहस्पतिरुवाच । इन्द्र श... श्रीगणेशाय नमः । याज्ञवल... ॐ श्रीगणेशाय नमः । श्रीग... कैलासशिखरे रम्ये सुखासीनं... गणेश्वर उवाच । कनककुण... श्रीरामदास उवाच - एकदा स... सनत्कुमार उवाच । कार्तवी... अस्य श्रीहयग्रीवकवचमहामन्... ॥ अथ श्री हयग्रीवकवचम् ॥ ... श्रीगणेशाय नमः । ईश्वर उ... अथ चतुरशीतितमः पटलः श्री... श्रीहरिमङ्गलकवचम् - श्रीशाण्डिल्य उवाच । शान... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र शान्तिकं सहितं श्रीहरिमङ्गलकवचम् Translation - भाषांतर श्रीशाण्डिल्य उवाच । शान्तिकं सम्प्रवक्ष्यामि भक्तानां हितकाम्यया । येन प्रयुज्यमानेन सर्वा भीतिर्निवर्तते ॥१॥ समुद्भूतो यदा ब्रह्मा सृष्ट्वेदमयजद्धरिम् । स्वाहायै पश्यतस्तस्य हेतोर्यातो यदृच्छया ॥२॥ तेन यज्ञात्मना यज्ञे पुरे कृत्वा निवर्तितुम् । यावद्दिष्टं ततस्तावज्जग्राह शिखया शुचिः ॥३॥ तेन सम्पीतमात्रेण देवकार्ये महत्तरे । असूत भगवानग्निः ऋषीन् षष्टिसहस्रिणः ॥४॥ ब्रह्मणा कृपया तेभ्यः सर्वमङ्गलमङ्गलम् । कवचञ्च पाठितं दिव्यं यदुक्तं हरिणात्मने ॥५॥ ये गुप्ता मुनिवरा ब्रह्मघ्नै रावणादिभिः । अधृष्यास्तप आतस्थुः प्रीतो येभ्यो रघूत्तमः ॥६॥ प्रसादशक्तेः सम्पर्कात् पूजनाच्च मधुद्विषः । प्रिया बभूवुस्ते लोके तदहं वच्मि भो द्विजाः ॥७॥ कवचस्यास्य मुनयो ब्रह्माग्नितनया मताः । गायत्रञ्च भवेच्छन्दो देवता श्रीपतिः स्वयम् ॥८॥ प्रसादाख्या भवेच्छक्तिः बीजं लीलाप्रियो हरिः । निष्प्रत्यूहनिजानन्दावाप्तये विनियोजनम् ॥९॥ मूलतोऽस्य षडङ्गानि भाचक्राद्यैश्च रक्षणम् । तीर्थगोपादरजसा न्यासः सर्वाङ्गलैः शुचेः ॥१०॥ अथ श्रीमङ्गलकवचम् । ॐ श्रीहरये नमः । श्रीकृष्णः सर्वतः पायात् शिरः श्रीपुरुषोत्तमः । ललाटमक्षरः पायान्मायेशो नयने उभे ॥१॥ श्रवणे भगवान् कालः नासिके कृतिमान् विभुः । परमात्मा च वाचं मे जीवेशो रसनां मम ॥२॥ हृदयं वासुदेवो मे अहं सङ्कर्षणः प्रभुः । प्रद्युम्नश्च धियं पातु अनिरुद्धोऽपि मानसम् ॥३॥ भुजौ मे यादसामीशः पादौ मे कमठेश्वरः । मूलाधारन्तु वाराहो नृहरिर्मणिपूरकम् ॥४॥ नाभिं मे भार्गवो रामः पार्श्वं मे रघुनन्दनः । पृष्ठं बलः ककुद् बुद्धः कल्किः शेषं कलाधरः ॥५॥ दृष्टिं त्रिविक्रमः पातु कृत्तिं च कमलापतिः । सूत्रं सुदर्शनः पातु अनुसूत्रं महेश्वरः ॥६॥ रूपं रमापतिः पातु रसं रक्षोविनाशनः । गन्धं गणानामधिपः स्पर्शं मे मधुसूदनः ॥७॥ नन्दको मे नभस्तत्त्वं नभस्वन्तं गदाधरः । चक्रपाणिर्हुताशं मे शङ्खभृत्सलिलं सदा ॥८॥ धरां मे कमली पातु स्वरूपं रविमण्डली । अभिधां मे हरिः पातु सर्वतो जगदीश्वरः ॥९॥ अव्यक्तं मां हरिः पायाद् व्यक्तं मां केशवो विभुः । मायिनं मां रमानाथो माधवः परतन्त्रगम् ॥१०॥ गोविन्दो मां निरानन्दं दुर्भगं विष्णुरव्ययः । कर्मणोऽभिमुखं देवो मधुद्विट् प्राकृतं प्रभुः ॥११॥ भूगतं वामनः पातु अन्नगं श्रीधरोऽवतु । रेतस्थं तु हृषीकेशः पद्मनाभोऽपि गर्भगम् ॥१२॥ दामोदरश्चोदरस्थजातं सङ्कर्षणोऽवतु । शिशुं श्रीवासुदेवोऽव्यात् प्रद्युम्नोऽपि स्तनन्धयम् ॥१३॥ मात्राऽनिरुद्धः सार्द्धं मां धात्र्यापि पुरुषोत्तमः । अधोक्षजश्च ताताद्यैः बालैर्नरहरिः स्वयम् ॥१४॥ अच्युतः क्रीडने पातु कुमारन्तु जनार्दनः । भुञ्जानं वा पिबन्तं वा उपेन्द्रो हसितं रतम् ॥१५॥ उच्चरन्तं चरन्तञ्च शयानं श्रीपतिर्हरिः । रुदन्तं क्षुधितं पातु श्रीकृष्णः परिपीडितम् ॥१६॥ ग्रहैर्बालग्रहैर्वापि कृत्रिमैश्च विषैः क्षतैः । जन्तुभिः पापकैर्हिंस्रैः पातु श्रीरघुनन्दनः ॥१७॥ भूतप्रेतक्षेत्रपालैर्महोत्पातैर्महाभयैः । कार्मणैर्डाकिनीभिश्च पातु मां गरुडध्वजः ॥१८॥ विषदंशैर्विषश्वासैर्विषसस्यैर्विषाक्षिभिः । विषयोगैः चोपविषैः शेषशायी सदाऽवतु ॥१९॥ किशोरे कमलाकान्तः पौगण्डे परमेश्वरः । विहरन्तं विहारेषु देवो वै विष्टरश्रवाः ॥२०॥ संस्कारे यज्ञभुक् पातु श्रौतस्मार्तकृतौ हरिः । वार्त्तायां व्यवहारे च श्रीनाथश्च पराश्रयः ॥२१॥ सेवायां परवासे च सदा लाभे सदा व्यये । गृहकृत्येषु सर्वेषु पातु मां जगदीश्वरः ॥२२॥ गृहे पातु सदा रामः बहिः पातु बलाधिकः । सन्धौ सभासु मार्गेषु वैकुण्ठः पातु भूतले ॥२३॥ क्रीडन्तं भार्ययैकान्ते रुक्मिणीशो सदाऽवतु । लालयन्तमपत्यानि पातु द्वारावतीपतिः ॥२४॥ पचन्तं गृहकृत्येषु हसन्तं सखिभिः पुनः । व्रजन्तं दुर्गभागेषु तिष्ठन्तं दुर्जनैरपि ॥२५॥ शार्ङ्गधन्वा हरिः पातु विवदन्तं परैः क्वचित् । विद्यावादे मन्त्रवादे विवादे कलहे परैः ॥२६॥ क्रियासु पौरुषे युद्धे पातु चाणूरदर्पहा । भुक्ताभुक्तैरमुक्तैश्च मुक्तैः शस्त्रास्त्रसञ्चयैः ॥२७॥ मणिमन्त्रौषधैर्यन्त्रैस्तन्त्रैरव्याद्दिशां पतिः । जले तु भगवान्मत्स्यः कमठश्च जले स्थले ॥२८॥ वाराहो धरणीपृष्ठे दुर्गे नरहरिर्हरिः । जलमार्गे दुर्गमार्गे हिममार्गेऽग्निमार्गके ॥२९॥ नानाविधेषु यानेषु खगयानः सदाऽवतु । आकाशाच्छब्दतश्चापि पातु मां परमेश्वरः ॥३०॥ वायुतः स्पर्शतश्चापि पातु मां मुरमर्द्दनः । वैश्वानरात्प्रकाशाच्च पातु मां माधवः स्वयम् ॥३१॥ कीलालाद्रसतः पातु नरकोच्छेदको विभुः । धराया गन्धतः पातु परमात्मा सनातनः ॥३२॥ इन्द्रियेभ्यः क्रियाभ्यश्च पातु दैत्यनिषूदनः । हृषीकेभ्यो गोचरेभ्यो हृषीकेशः सदाऽवतु ॥३३॥ देवताभ्यः प्रकाशेभ्योऽप्यन्तःकरणतः प्रभुः । आत्मनः परतश्चापि देवः पातु स्वभूः सदा ॥३४॥ देशतः कालतश्चापि निजेच्छातोऽप्यदृष्टतः । सर्वतोऽपि हरिः पायादुक्तानुक्तस्वरूपतः ॥३५॥ श्रीकृष्णायेति मामूर्ध्वं गोविन्दायेति मध्यतः । गोपीजनवल्लभाय नमः स्वाहेत्यधोऽवतु ॥३६॥ क्लीं कृष्णाय नमश्चाग्रे ग्लौं कृष्णायेति पृष्ठतः । श्रीकृष्णायेत्यूर्ध्वतो मां मां कृष्णायेत्यधःस्थलात् ॥३७॥ श्रीमन्मुकुन्दचरणं शरणं मे सदा भवेत् । तेन सार्वात्मिकी शुद्धी रक्षा भवतु सर्वतः ॥३८॥ अहं हरेर्मम हरिः हरये सर्वमर्पितम् । तेन मामनुगृह्णातु यशोदानन्दनन्दनः ॥३९॥ हरिदासान् प्रपन्नं मां प्रपन्नं हरिभावुकान् । श्रीमदार्यान् प्रपन्नं मां पातु श्रीगोकुलेश्वरः ॥४०॥ श्रीमद्गुणानां श्रवणे श्रद्धया सक्तमानसम् । श्रवणं मेऽवतु श्रोत्रे मनस्तत्त्वञ्च पातु मे ॥४१॥ कीर्त्तनं वह्निना वाच्यं स्मरणं हृदयं धिया । सेवनं स्थूलगात्रं मे अर्चनं च तनुं तनूम् ॥४२॥ वन्दनं दैवतकुलं दास्ये जीवं पुनातु मे । सख्यं मे भजनानन्दं स्वानन्दञ्चार्पणं ददेत् ॥४३॥ प्रेमस्फूर्तिं सदा मां सा करोतु भगवन्मयम् । येन केनाप्युपायेन अनुगृह्णातु मां हरिः ॥४४॥ ददातु भजनानन्दं भक्तिं मह्यं ददातु सः । दर्शनं निजलीलायाः कृपया कारयत्वथ ॥४५॥ माथुरं मण्डलं पातु पातु दिव्यं व्रजस्थलम् । गोकुलं गिरिराट् पातु वृन्दारण्यञ्च रक्षतु ॥४६॥ श्रीराधिका स्वात्मरूपा नित्यसिद्धा व्रजेश्वरी । अनुगृह्णातु गृह्णातु दासीवर्गे क्वचिच्च माम् ॥४७॥ श्रीमच्चन्द्रावली दिव्यनिगमागमसंस्तुता । नियोजयतु मां कार्ये दासीवर्गे समाश्रितम् ॥४८॥ ललिता ललिता मान्या मुनीन्द्रैर्भक्तवत्सला । पुनातु मां निजप्रेष्या निचये संश्रितं हिता ॥४९॥ कालिन्दिनी महाभागा भक्तवृन्दैर्नमस्कृता । सेवाधिकारसम्पत्तिं देहि देहि हरिप्रिये ॥५०॥ यज्ञपत्न्यो हरेः पत्न्यो गोकुलस्थाश्च गोपिकाः । सर्वास्ताः सर्वदा मह्यं प्रसीदन्तु हरिप्रियाः ॥५१॥ श्रीयशोदा हरेर्माता मिहिरः श्रीहरेः पिता । बलभद्रो हरेर्भ्राता सुभद्रा श्रीहरेः स्वसा ॥५२॥ गोपाला गोपिका गावो व्रजबाला व्रजद्रुमाः । ये केचिद्व्रजलीलास्थास्ते सर्वे कृपयन्तु मे ॥५३॥ अविद्यां पूतनाहन्ता हन्याद् बालग्रहानपि । बकारिर्मम पाषण्डं नागारिर्मम कल्मषम् ॥५४॥ श्रीमद्गोवर्धनधरो देवेभ्योऽपि स रक्षतु । असुरेभ्यश्च कंसारिर्मुरारिः पातु सर्वतः ॥५५॥ रागेभ्यो निजभोगेभ्यः पीडाभ्योऽप्यतिपीडनात् । दावानलाद् हरः पातु सुदर्शनविमोचकः ॥५६॥ परतश्चापि दक्षिणोत्तरतस्तथा । ऊर्ध्वतश्चाप्यधस्ताच्च पातु ब्रह्मविमोहनः ॥५७॥ अङ्गानि सुन्दरः श्यामः प्रत्यङ्गानि मनोहरः । मनसा वचसा चापि पातु चीरहरः प्रभुः ॥५८॥ कालतः कृतितो दैवात्पापेभ्योऽप्यतिपीडितम् । भक्तापराधतः क्षीणं पातु मां खरसूदनः ॥५९॥ इन्द्रियाणाञ्च वैकल्याद्वपुषो जरयापि च । मृत्युनापि वै ग्रस्तं मां पातु गोकुलपालकः ॥६०॥ धनधान्यसमृद्धिर्मे वृद्धिर्वा पुत्रपौत्रिकी । सम्पत्तिः शस्त्रशास्त्रेभ्यो जायतां भवदाश्रयात् ॥६१॥ नान्यत् किमपि वाञ्छामि नान्यत्किमपि संश्रये । तथा मां कुरु कल्याण इति ध्याये महाप्रभो ॥६२॥ इति श्रीमङ्गलं नाम कवचं । फलश्रुतिः । कमलापतिः कुमारेभ्यो जगौ पूर्वं (?) । (?) विरिञ्चिः कमलोद्भवः ॥६३॥ नानेन सदृशं किञ्चिद्वैष्णवानां हिताय वै । सर्वरक्षाकरं विप्रा भक्तेः सम्पत्तिदायकम् ॥६४॥ एतद्धारणतो ब्रह्मा सृष्टिं चक्रे हरिप्रियाम् । रजसापि न सम्बद्धो भक्तानां प्रवरो बभौ ॥६५॥ गोष्ठे सहस्रमभ्यस्य श्रीगोपालस्य सन्निधौ । हुत्वा मधुभिः सिद्धः पालाशैर्जायते ध्रुवम् ॥६६॥ कार्तिके तु पठेन्नित्यं वृन्दारण्ये विशेषतः । यद्वाञ्छति कल्याणं तत्तद्भक्तेः प्रयच्छति ॥६७॥ वेदनासु च घोरासु रोगे मृत्युभयेषु च । तुलसीमूलमृल्लिप्तः पठेदस्माद्विमुच्यते ॥६८॥ नित्यं पठन् भक्तिमान् स्यात्कामी कामानवाप्नुयात् । किं विप्र बहुनोक्तेन श्रद्धया सर्वमश्नुते ॥६९॥ इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे सप्तदशोऽध्याये स्तोत्रकवचनिरूपणं सम्पूर्णम् । N/A References : N/A Last Updated : December 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP