संस्कृत सूची|संस्कृत साहित्य|कवच| आद्यं रङ्गमिति प्रोक्तं व... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीगणेशाय नमः । श्रीदेव... विनियोगः - ॐ अस्य त्रैलो... श्रीलक्ष्मण उवाच । कृताञ... सगर उवाच । श्रुतं सर्वं ... श्रीगणेशाय नमः । श्रीदत्... श्रीपादः पातु मे पादावूरू... श्रीगणेशाय नमः । श्रीदत्... ॐ द्रां ॐ नमः, श्रीगुरुद... विनियोगः - ॐ अस्य श्रीमह... भैरव उवाच । कालिकाकवचस्य... विरूपाक्ष उवाच । नमामि ग... भैरव उवाच । कालिका या मह... श्रीपरमशिव उवाच । सर्पिः... श्रीभैरव उवाच । शणु देव... नारायण उवाच । शणु नारद ... श्रीगणेशाय नमः । ईश्वर उ... श्रीगणेशाय नमः । नारद उव... श्रीदेव्युवाच - पुरा श्र... श्री शिव उवाच - शणु देव... भगवन् देव देवेशकृपया त्वं... श्रीगणेशाय नमः । श्रीदुर्... ॐ अस्य श्री चण्डीकवचस्य ॥... देव्युवाच धनदा या महाविद... श्रीगणेशाय नमः । अथ धूमा... श्री गणेशाय नमः । श्रीमद... ब्रह्मोवाच । शिरो ... विनियोगः नागराजस्य देवस्... ॐ श्रीगणेशाय नमः । ॐ नमो... ॐ श्रीगणेशाय नमः । ॐ नमो... तन्त्रराजतन्त्रे अष्टाविं... निम्बार्क-कवचं वक्ष्ये मह... श्रीगणेशाय नमः । अथापरं ... नारद उवाच । इन्द्रादिदेव... ॥ श्रीगणेशाय नमः ॥ ॥ ... अस्य श्रीपञ्चमुखिवीरहनूमत... अस्य श्रीपञ्चमुखिहनुमत्कव... भगवन् ! सर्वमाख्यातं मन्त... श्रीगणेशाय नमः । श्रीभैर... अथ पञ्चाशीतितमः पटलः । श... ॥ श्रीमहा-त्रिपुर-सुन्दर्... ऋषय ऊचुः । अथ नाम्नां सह... देव्युवाच । भगवन् सर्वधर... सूत उवाच - सहस्रादित्यसङ... ॥ अथ बगलामुखीकवचम् ॥ ... कैलासाचलम्ध्यगम्पुरवहं शा... श्री गणेशाय नमः । श्री बग... श्रीगणेशाय नमः । अस्यश्र... श्रीगणेशाय नमः । श्रीपीता... उक्तं च भैरवतन्त्रे । मह... अस्य श्री बटुकभैरवकवचस्य ... देव्युवाच । देवदेव जगन्न... अस्य श्रीबटुकभैरवकवचस्य ... ॥ श्रीगणेशाय नमः ॥ ॥ ... अथ विनियोगः - अस्य श्रीब... दुर्योधन उवाच - गोपीभ्यः... अस्य बाणलिङ्ग कवचस्य संहा... शिवस्य कवचं स्तोत्रं श्रू... नन्दगोप उवाच । रक्षतु त्... वाग्भवः पातु शिरसि कामराज... श्रीपार्वत्युवाच- देवदेव... अस्य श्रीबालात्रिपुरसुन्द... बालार्कमण्डलाभासां चतुर्ब... श्रीभैरव उवाच- अधुना ते ... ॐ अस्य श्रीबालात्रिपुरसुन... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... ॐ श्रीब्रह्मणे नमः । कवच... श्री गणेशाय नमः । श्री बग... ॐ नमो भगवति वज्रशृङ्खले ... श्रीगणेशाय नमः । नारद... ॐ श्रीदेव्युवाच । ॐ भगवन... अगस्तिरुवाच- अतः परं भरत... श्रीगणेशाय नमः । श्री पा... गम्भीरो माहात्म्यात्प्रशम... श्रीगणेशाय नमः । देव्युव... श्रीदेव्युवाच- भगवन्, पर... पार्वत्युवाच - देव देव म... श्रीगणेशाय नमः । श्रीदेव... श्रीपार्वत्युवाच - देवदे... श्रीगणेशाय नमः । अस्य श्... मल्हारिकवचम् श्रीगणेशाय ... ॐ श्रीगणेशाय नमः । श्रीभ... श्रीगणेशाय नमः । श्रीभैर... श्रीदेव्युवाच । देवदेव म... श्रीगणाधिपतये नमः । श्री... ॐ अस्य श्रीमहागणपतिमन्त्र... ॥ पूर्वपीठिका ॥ महादे... श्री गणेशाय नमः । भैरव उ... श्रीदेव्युवाच - भगवन् सर... श्री गणेशाय नमः । अस्य श... नारद उवाच । आविर्भूय हरि... सदाशिव ऋषिर्देवि उष्णिक्छ... शणुदेवि प्रवक्ष्यामि कवच... श्रीभगवानुवाच- अस्य मन्त... श्रीगणेशाय नमः । अथ महाश... श्रीदेव्युवाच- भगवन् देव... अथ वक्ष्ये महेशानि कवचं स... भैरव उवाच । शृणु देवि !... श्रीदेव्युवाच साधु साधु ... अस्य श्रीमातङ्गीकवचमन्त्र... श्रीगणेशाय नमः । श्रीपार... ॐ नमो भगवते विचित्रवीरहनु... ॐ नमोभगवते रुद्राय । राज... श्रीदेव्युवाच - भगवन् सर... ॐ सिद्धिः । ॐ नमो नरसिंह... एवमाराध्य गौरीशं देवं मृत... श्रीदेव्युवाच - भगवन् दे... ईश्वर उवाच - त्रिकालं गो... श्रीगणेशाय नमः ॥ भगवन... मान्धातोवाच - यमुनायाः क... योगनिद्रोवाच । दूरीभूतं ... उन्मत्तभैरव उवाच - शृणु... श्रीगणेशाय नमः । श्रीयोग... देव्युवाच - भगवन् श्रोतु... कवचं राघवेन्द्रस्य यतीन्द... अथ श्रीराघवेन्द्रार्यकवचं... अथ श्रीराघवेन्द्रार्यरक्ष... पार्वती उवाच- देवदेव महा... श्रीपार्वत्युवाच ॥ ॐ ... महेश्वर उवाच । श्रीजगन्म... श्रीगणेशाय नमः ॥ पार्... ॥ श्रीमदानन्दरामायणे मनोह... अस्य श्रीत्रैलोक्यमोहनवज्... कपिकटकधुरीणः कार्मुकन्यस्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॥ॐ श्रीगणेशाय नमः ॥ अ... इदं पवित्रं परमं भक्तानां... श्रीगणेशाय नमः ॥ ॐ अस... ॐ श्रीभैरव उवाच - शृणु ... भैरव उवाच - वक्ष्यामि दे... ॥अथ श्री रुद्रकवचम् ॥ ... पूर्वपीठिका - श्रीकार्ति... श्रीपार्वत्युवाच । देवदे... श्री देव्युवाच । जमदग... ॥श्री गणेशाय नमः ॥ शृ... ॥श्री गणेशाय नमः ॥ श... सनत्कुमार उवाच- अथ ते कव... अथ ते कवचं देव्या वक्ष्ये... ॥ अथ श्रीमदानन्दरामायणे म... श्रीगणेशाय नमः । ॐ अस्य ... श्रीगणेशाय नमः । ॐ अस्य ... अथ श्रीलक्ष्मीकवचप्रारम्भ... शुकं प्रति ब्रह्मोवाच महा... श्रीगणेशाय नमः । श्रीभैर... अथ श्रीनरसिंहकवचम् । श्र... नारद उवाच - भगवन् सर्वधर... श्री गणेशाय नमः । मौलिं ... श्रीगणेशाय नमः । श्रीभैर... आद्यं रङ्गमिति प्रोक्तं व... अस्य श्री सर्व वशीकरण स्त... ॐ श्रीगणेशाय नमः । ॐ श्र... अस्य श्रीवाराहीकवचस्य त्र... श्री नृसिंहाय नमः । ॐ अस... सूत उवाच । शिरो मे विठ्ठ... श्रीगणेशाय नमः । देव्युव... श्रीमत्परात्पर विश्वकर्मप... शौनक उवाच । किं स्तोत्रं... श्रीगणेशाय नमः ॥ नारद... हरिश्चन्द्रः - ब्रह्मन् ... पूर्वे नारायणः पातु वारिज... ॐ अस्य श्री वीरभद्रकवचमहा... आग्नेयपुराणे अस्य श्रीवे... हरिरुवाच । सर्वव्याधिहरं... श्रीगणेशाय नमः । गुहागरस... ऐश्वरं परमं तत्त्वमादिमध्... ॥ श्रीमदानन्दरामायणे मनोह... श्रीदेव्युवाच - श्रुतं व... विनियोगः । ॐ अस्य श्रीशन... ॐ श्रीगणेशाय नमः । श्री ... शक्र उवाच - शाकम्भर्यास्... श्रीवल्लभसोदरी श्रितजनश्च... ॐ महाशाबरी शक्ति परमात्मन... श्रीगणेशाय नमः । देव्युव... ॐ श्रीगणेशाय नमः । अथ शा... विनियोगः । अस्य श्रीशिवक... दधीचिरुवाच कवचं देवदेवस्... नारद उवाच- शिवस्य कवचं ब... श्रीदेव्युवाच - भगवन्देव... पार्वत्युवाच - भगवन् सर्... श्रीगणेशाय नमः । ॐ अस... श्रीशिवः उवाच - अथ वक्ष्... प्रणम्य देवं विप्रेशं प्र... गोप्य ऊचुः - श्रीकृष्णस्... अथातः सम्प्रवक्षामि कवचं ... श्रीशाण्डिल्य उवाच । शान... ॐ श्रीगणेशाय नमः । श्रीग... श्रीविष्णुरुवाच । संसारम... ॥ अथ सङ्ग्रामविजयविद्या ॥... श्रीआनन्दभैरव उवाच शैलजे... श्रीदेव्युवाच- भगवन्देवद... श्रीआनन्दभैरव उवाच कथितं... श्रीगणेशाय नमः । ॐ अस्य ... श्रीसरस्वतीकवचं भैरव उवाच - शृणु देव... नारद उवाच - श्रुतं सर्वं... ॥ ॐ नम उमङ्गेश्वर्यै ॥ ... ॥ गुरु ध्यानम् ॥ ध्या... ॥ श्रीमदानन्दरामायणान्तर्... प्रसीद भगवन् ब्रह्मन् सर्... ॐ अस्य श्री सुदर्शन कवच म... ॐ अस्य श्री सुदर्शनकवचमाल... श्रीकृष्णाय नमः ॥श्रीगोपी... श्रीगणेशाय नमः । श्रीलक्ष... ॥ॐ नमस्सुब्रह्मण्याय ॥ ... ॐ श्रीगणेशाय नमः । नारद ... अस्य श्री सुब्रह्मण्यकवचस... श्रीगणेशाय नमः ॥ श्रीसूर... वज्रपञ्जराख्यसूर्यकवचम् ।... घृणिर्मे शीर्षकं पातु सूर... ॐ अस्य श्रीसूर्यनारायणदिव... बृहस्पतिरुवाच । इन्द्र श... श्रीगणेशाय नमः । याज्ञवल... ॐ श्रीगणेशाय नमः । श्रीग... कैलासशिखरे रम्ये सुखासीनं... गणेश्वर उवाच । कनककुण... श्रीरामदास उवाच - एकदा स... सनत्कुमार उवाच । कार्तवी... अस्य श्रीहयग्रीवकवचमहामन्... ॥ अथ श्री हयग्रीवकवचम् ॥ ... श्रीगणेशाय नमः । ईश्वर उ... अथ चतुरशीतितमः पटलः श्री... श्रीवराहकवचम् - आद्यं रङ्गमिति प्रोक्तं व... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र श्रीवराहकवचम् Translation - भाषांतर आद्यं रङ्गमिति प्रोक्तं विमानं रङ्गसंज्ञितम् । श्रीमुष्णं वेङ्कटाद्रिं च साळग्रामं च नैमिशम् ॥ तोयाद्रिं पुष्करं चैव नरनारायणाश्रमम् । अष्टौ मे मूर्तयः सन्ति स्वयं व्यक्ता महीतले ॥ श्रीसूतः - श्रीरुद्रमुखनिर्णीतमुरारिगुणसत्कथा । सन्तुष्टा पार्वती प्राह शङ्करं लोकशङ्करम् ॥१॥ श्रीपार्वत्युवाच - श्रीमुष्णेशस्य माहात्म्यं वराहस्य महात्मनः । श्रुत्वा तृप्तिर्न मे जाता मनः कौतूहलायते । श्रोतुं तद्देवमाहात्म्यं तस्माद्वर्णय मे पुनः ॥२॥ श्रीशङ्कर उवाच - शृणु देवि प्रवक्ष्यामि श्रीमुष्णेशस्य वैभवम् । यस्य श्रवणमात्रेण महापापैः प्रमुच्यते । सर्वेषामेव तीर्थानां तीर्थराजोऽभिधीयते ॥३॥ नित्यपुष्करिणी नाम्नी श्रीमुष्णे या च वर्तते । जाता श्रमापहा पुण्या वराहश्रमवारिणा ॥४॥ विष्णोरङ्गुष्ठसंस्पर्शात्पुण्यदा खलु जाह्नवी । विष्णोः सर्वाङ्गसम्भूता नित्यपुष्करिणी शुभा ॥५॥ महानदीसहस्त्रेण नित्यदा सङ्गता शुभा । सकृत्स्नात्वा विमुक्ताघः सद्यो याति हरेः पदम् ॥६॥ तस्या आग्नेयभागे तु अश्वत्थच्छाययोदके । स्नानं कृत्वा पिप्पलस्य कृत्वा चापि प्रदक्षिणम् ॥७॥ दृष्ट्वा श्वेतवराहं च मासमेकं नयेद्यदि । कालमृत्युं विनिर्जित्य श्रिया परमया युतः ॥८॥ आधिव्याधिविनिर्मुक्तो ग्रहपीडाविवर्जितः । भुक्त्वा भोगाननेकांश्च मोक्षमन्ते व्रजेद्ध्रुवम् ॥९॥ अश्वत्थमूलेऽर्कवारे नित्यपुष्करिणीतटे । वराहकवचं जप्त्वा शतवारं जितेन्द्रियः ॥१०॥ क्षयापस्मारकुष्ठाद्यैः महारोगैः प्रमुच्यते । वराहकवचं यस्तु प्रत्यहं पठते यदि ॥११॥ शत्रुपीडाविनिर्मुक्तो भूपतित्वमवाप्नुयात् । लिखित्वा धारयेद्यस्तु बाहुमूले गलेऽथ वा ॥१२॥ भूतप्रेतपिशाचाद्याः यक्षगन्धर्वराक्षसाः । शत्रवो घोरकर्माणो ये चान्ये विषजन्तवः । नष्टदर्पा विनश्यन्ति विद्रवन्ति दिशो दश ॥१३॥ श्रीपार्वत्युवाच - तद्ब्रूहि कवचं मह्यं येन गुप्तो जगत्त्रये । सञ्चरेद्देववन्मर्त्यः सर्वशत्रुविभीषणः । येनाप्नोति च साम्राज्यं तन्मे ब्रूहि सदाशिव ॥१४॥ श्रीशङ्कर उवाच - शृणु कल्याणि वक्ष्यामि वाराहकवचं शुभम् । येन गुप्तो लभेन्मर्त्यो विजयं सर्वसम्पदम् ॥१५॥ अङ्गरक्षाकरं पुण्यं महापातकनाशनम् । सर्वरोगप्रशमनं सर्वदुर्ग्रहनाशनम् ॥१६॥ विषाभिचारकृत्यादि शत्रुपीडानिवारणम् । नोक्तं कस्यापि पूर्वं हि गोप्याद्गोप्यतरं यतः ॥१७॥ वराहेण पुरा प्रोक्तं मह्यं च परमेष्ठिने । युद्धेषु जयदं देवि शत्रुपीडानिवारणम् ॥१८॥ वराहकवचाद्गुप्तो नाशुभं लभते नरः । वराहकवचस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥१९॥ छन्दोऽनुष्टुप् तथा देवो वराहो भूपरिग्रहः । प्रक्षाल्य पादौ पाणी च सम्यगाचम्य वारिणा ॥२०॥ कृतस्वाङ्गकरन्यासः सपवित्र उदङ्मुखः । ओं भूर्भुवःसुवरिति नमो भूपतयेऽपि च ॥२१॥ नमो भगवते पश्चाद्वराहाय नमस्तथा । एवं षडङ्गं न्यासं च न्यसेदङ्गुलिषु क्रमात् ॥२२॥ नमः श्वेतवराहाय महाकोलाय भूपते । यज्ञाङ्गाय शुभाङ्गाय सर्वज्ञाय परात्मने ॥२३॥ स्रवतुण्डाय धीराय परब्रह्मस्वरूपिणे । वक्रदंष्ट्राय नित्याय नमोऽन्तैर्नामभिः क्रमात् ॥२४॥ अङ्गुलीषु न्यसेद्विद्वान् करपृष्ठतलेष्वपि । ध्यात्वा श्वेतवराहं च पश्चान्मन्त्रमुदीरयेत् ॥२५॥ ॐ श्वेतं वराहवपुषं क्षितिमुद्धरन्तं शङ्खारिसर्ववरदाभययुक्तबाहुम् । ध्यायेन्निजैश्च तनुभिः सकलैरुपेतं पूर्णं विभुं सकलवाञ्छितसिद्धयेऽजम् ॥२६॥ वराहः पूर्वतः पातु दक्षिणे दण्डकान्तकः । हिरण्याक्षहरः पातु पश्चिमे गदया युतः ॥२७॥ उत्तरे भूमिहृत्पातु अधस्ताद्वायु वाहनः । ऊर्ध्वं पातु हृषीकेशो दिग्विदिक्षु गदाधरः ॥२८॥ प्रातः पातु प्रजानाथः कल्पकृत्सङ्गमेऽवतु । मध्याह्ने वज्रकेशस्तु सायाह्ने सर्वपूजितः ॥२९॥ प्रदोषे पातु पद्माक्षो रात्रौ राजीवलोचनः । निशीन्द्रगर्वहा पातु पातूषः परमेश्वरः ॥३०॥ अटव्यामग्रजः पातु गमने गरुडासनः । स्थले पातु महातेजाः जले पात्ववनीपतिः ॥३१॥ गृहे पातु गृहाध्यक्षः पद्मनाभः पुरोऽवतु । झिल्लिकावरदः पातु स्वग्रामे करुणाकरः ॥३२॥ रणाग्रे दैत्यहा पातु विषमे पातु चक्रभृत् । रोगेषु वैद्यराजस्तु कोलो व्याधिषु रक्षतु ॥३३॥ तापत्रयात्तपोमूर्तिः कर्मपाशाच्च विश्वकृत् । क्लेशकालेषु सर्वेषु पातु पद्मापतिर्विभुः ॥३४॥ हिरण्यगर्भसंस्तुत्यः पादौ पातु निरन्तरम् । गुल्फौ गुणाकरः पातु जङ्घे पातु जनार्दनः ॥३५॥ जानू च जयकृत्पातु पातूरू पुरुषोत्तमः । रक्ताक्षो जघने पातु कटिं विश्वम्भरोऽवतु ॥३६॥ पार्श्वे पातु सुराध्यक्षः पातु कुक्षिं परात्परः । नाभिं ब्रह्मपिता पातु हृदयं हृदयेश्वरः ॥३७॥ महादंष्ट्रः स्तनौ पातु कण्ठं पातु विमुक्तिदः । प्रभञ्जनपतिर्बाहू करौ कामपिताऽवतु ॥३८॥ हस्तौ हंसपतिः पातु पातु सर्वाङ्गुलीर्हरिः । सर्वाङ्गश्चिबुकं पातु पात्वोष्ठौ कालनेमिहा ॥३९॥ मुखं तु मधुहा पातु दन्तान् दामोदरोऽवतु । नासिकामव्ययः पातु नेत्रे सूर्येन्दुलोचनः ॥४०॥ फालं कर्मफलाध्यक्षः पातु कर्णौ महारथः । शेषशायी शिरः पातु केशान् पातु निरामयः ॥४१॥ सर्वाङ्गं पातु सर्वेशः सदा पातु सतीश्वरः । इतीदं कवचं पुण्यं वराहस्य महात्मनः ॥४२॥ यः पठेच्छृणुयाद्वापि तस्य मृत्युर्विनश्यति । तं नमस्यन्ति भूतानि भीताः साञ्जलिपाणयः ॥४३॥ राजदस्युभयं नास्ति राज्यभ्रंशो न जायते । यन्नामस्मरणाद्भीताः भूतवेताळराक्षसाः ॥४४॥ महारोगाश्च नश्यन्ति सत्यं सत्यं वदाम्यहम् । कण्ठे तु कवचं बद्ध्वा वन्ध्या पुत्रवती भवेत् ॥४५॥ शत्रुसैन्यक्षयप्राप्तिः दुःखप्रशमनं तथा । उत्पातदुर्निमित्तादि सूचितारिष्टनाशनम् ॥४६॥ ब्रह्मविद्याप्रबोधं च लभते नात्र संशयः । धृत्वेदं कवचं पुण्यं मान्धाता परवीरहा ॥४७॥ जित्वा तु शाम्बरीं मायां दैत्येन्द्रानवधीक्षणात् । कवचेनावृतो भूत्वा देवेन्द्रोऽपि सुरारिहा ॥४८॥ भूम्योपदिष्टकवचधारणान्नरकोऽपि च । सर्वावध्यो जयी भूत्वा महतीं कीर्तिमाप्तवान् ॥४९॥ अश्वत्थमूलेऽर्कवारे नित्यपुष्करिणीतटे । वराहकवचं जप्त्वा शतवारं पठेद्यदि ॥५०॥ अपूर्वराज्यसंप्राप्तिं नष्टस्य पुनरागमम् । लभते नात्र सन्देहः सत्यमेतन्मयोदितम् ॥५१॥ जप्त्वा वराहमन्त्रं तु लक्षमेकं निरन्तरम् । दशांशं तर्पणं होमं पायसेन घृतेन च ॥५२॥ कुर्वन् त्रिकालसन्ध्यासु कवचेनावृतो यदि । भूमण्डलाधिपत्यं च लभते नात्र संशयः ॥५३॥ इदमुक्तं मया देवि गोपनीयं दुरात्मनाम् । वराहकवचं पुण्यं संसारार्णवतारकम् ॥५४॥ महापातककोटिघ्नं भुक्तिमुक्तिफलप्रदम् । वाच्यं पुत्राय शिष्याय सद्वृत्ताय सुधीमते ॥५५॥ श्रीसूतः - इति पत्युर्वचः श्रुत्वा देवी सन्तुष्टमानसा । विनायकगुहौ पुत्रौ प्रपेदे द्वौ सुरार्चितौ । कवचस्य प्रभावेन लोकमाता च पार्वती ॥५६॥ य इदं शृणुयान्नित्यं यो वा पठति नित्यशः । स मुक्तः सर्वपापेभ्यो विष्णुलोके महीयते ॥५७॥ इति श्रीवराहकवचं सम्पूर्णम् । आद्यं रङ्गमिति प्रोक्तं विमानं रङ्गसंज्ञितम् । श्रीमुष्णं वेङ्कटाद्रिं च साळग्रामं च नैमिशम् ॥ तोयाद्रिं पुष्करं चैव नरनारायणाश्रमम् । अष्टौ मे मूर्तयः सन्ति स्वयं व्यक्ता महीतले ॥ N/A References : N/A Last Updated : December 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP