संस्कृत सूची|संस्कृत साहित्य|कवच|
गौर्युवाच । एषोऽतिचपलो द...

श्रीगणेशकवचम् - गौर्युवाच । एषोऽतिचपलो द...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

गौर्युवाच । एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो । (बालो दैत्यान्हन्ति बहूनपि) अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥१॥
दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः । अतोऽस्य कण्ठे किञ्चित्त्वं रक्षार्थं बद्धमर्हसि ॥२॥
मुनिरुवाच । ध्यायेत्सिंहहतं विनायकममुं दिग्बाहुमाद्ये युगे त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् । द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम् तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥३॥
विनायकः शिखां पातु परमात्मा परात्परः । अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ॥४॥
ललाटं कश्यपः पातु भृयुगं तु महोदरः । नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ ॥५॥
जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः । वाचं विनायकः पातु दन्तान् रक्षतु विघ्नहा ॥६॥
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः । गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः ॥७॥
स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः । हृदयं गणनाथस्तु हेरंबो जठरं महान् ॥८॥
धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः । लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥९॥
गणक्रीडो जानुसङ्घे ऊरु मङ्गलमूर्तिमान् । एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ॥१०॥
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः । अङ्गुलीश्च नखान्पातु पद्महस्तोऽरिनाशनः ॥११॥
सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु । अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु ॥१२॥
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु । प्राच्यां रक्षतु बुद्धीश आग्नेयां सिद्धिदायकः ॥१३॥
दक्षिणास्यामुमापुत्रो नैरृत्यां तु गणेश्वरः । प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः ॥१४॥
कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः । दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् ॥१५॥
राक्षसासुरवेतालग्रहभूतपिशाचतः । पाशाङ्कुशधरः पातु रजःसत्त्वतमः स्मृतिः ॥१६॥
ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्ति तथा कुलम् । वपुर्धनं च धान्यं च गृहान्दारान्सुतान्सखीन् ॥१७॥
सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा । कपिलोऽजादिकं पातु गजाश्वान्विकटोऽवतु ॥१८॥
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः । न भयं जायते तस्य  यक्षरक्षःपिशाचतः ॥१८॥
त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् । यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥२०॥
युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्द्रुतम् । मारणोच्चाटकाकर्षस्तम्भमोहनकर्मणि ॥२१॥
सप्तवारं जपेदेतद्दिनानामेकविंशतिम् । तत्तत्फलवाप्नोति साधको नात्रसंशयः ॥२२॥
एकविंशतिवारं च पठेत्तावद्दिनानि यः । कारागृहगतं सद्योराज्ञा वध्यं च मोचयेत् ॥२३॥
राजदर्शनवेलायां पठेदेतत्त्रिवारतः । स राजसं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥२४॥
इदं गणेशकवचं कश्यपेन समीरितम् । मुद्गलाय च ते नाथ माण्डव्याय महर्षये ॥२५॥
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् । न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥२६॥
(यस्यानेन कृता रक्षा न बाधास्य भवेत्क्वचित् । राक्षसासुरवेतालदैत्यदानवसम्भवा ॥२७॥)
इति श्रीगणेशपुराणे उत्तरखण्डे पञ्चाशीतितमोऽध्यायये गणेशकवचं सम्पूर्णम् ॥
श्रीगणेशपुराणं क्रीडा 

N/A

References : N/A
Last Updated : November 19, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP