संस्कृत सूची|संस्कृत स्तोत्र साहित्य|कवच| पार्वती उवाच- देवदेव महा... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीगणेशाय नमः । श्रीदेव... विनियोगः - ॐ अस्य त्रैलो... श्रीलक्ष्मण उवाच । कृताञ... सगर उवाच । श्रुतं सर्वं ... श्रीगणेशाय नमः । श्रीदत्... श्रीपादः पातु मे पादावूरू... श्रीगणेशाय नमः । श्रीदत्... ॐ द्रां ॐ नमः, श्रीगुरुद... विनियोगः - ॐ अस्य श्रीमह... भैरव उवाच । कालिकाकवचस्य... विरूपाक्ष उवाच । नमामि ग... भैरव उवाच । कालिका या मह... श्रीपरमशिव उवाच । सर्पिः... श्रीभैरव उवाच । शणु देव... नारायण उवाच । शणु नारद ... श्रीगणेशाय नमः । ईश्वर उ... श्रीगणेशाय नमः । नारद उव... श्रीदेव्युवाच - पुरा श्र... श्री शिव उवाच - शणु देव... भगवन् देव देवेशकृपया त्वं... श्रीगणेशाय नमः । श्रीदुर्... ॐ अस्य श्री चण्डीकवचस्य ॥... देव्युवाच धनदा या महाविद... श्रीगणेशाय नमः । अथ धूमा... श्री गणेशाय नमः । श्रीमद... ब्रह्मोवाच । शिरो ... विनियोगः नागराजस्य देवस्... ॐ श्रीगणेशाय नमः । ॐ नमो... ॐ श्रीगणेशाय नमः । ॐ नमो... तन्त्रराजतन्त्रे अष्टाविं... निम्बार्क-कवचं वक्ष्ये मह... श्रीगणेशाय नमः । अथापरं ... नारद उवाच । इन्द्रादिदेव... ॥ श्रीगणेशाय नमः ॥ ॥ ... अस्य श्रीपञ्चमुखिवीरहनूमत... अस्य श्रीपञ्चमुखिहनुमत्कव... भगवन् ! सर्वमाख्यातं मन्त... श्रीगणेशाय नमः । श्रीभैर... अथ पञ्चाशीतितमः पटलः । श... ॥ श्रीमहा-त्रिपुर-सुन्दर्... ऋषय ऊचुः । अथ नाम्नां सह... देव्युवाच । भगवन् सर्वधर... सूत उवाच - सहस्रादित्यसङ... ॥ अथ बगलामुखीकवचम् ॥ ... कैलासाचलम्ध्यगम्पुरवहं शा... श्री गणेशाय नमः । श्री बग... श्रीगणेशाय नमः । अस्यश्र... श्रीगणेशाय नमः । श्रीपीता... उक्तं च भैरवतन्त्रे । मह... अस्य श्री बटुकभैरवकवचस्य ... देव्युवाच । देवदेव जगन्न... अस्य श्रीबटुकभैरवकवचस्य ... ॥ श्रीगणेशाय नमः ॥ ॥ ... अथ विनियोगः - अस्य श्रीब... दुर्योधन उवाच - गोपीभ्यः... अस्य बाणलिङ्ग कवचस्य संहा... शिवस्य कवचं स्तोत्रं श्रू... नन्दगोप उवाच । रक्षतु त्... वाग्भवः पातु शिरसि कामराज... श्रीपार्वत्युवाच- देवदेव... अस्य श्रीबालात्रिपुरसुन्द... बालार्कमण्डलाभासां चतुर्ब... श्रीभैरव उवाच- अधुना ते ... ॐ अस्य श्रीबालात्रिपुरसुन... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... ॐ श्रीब्रह्मणे नमः । कवच... श्री गणेशाय नमः । श्री बग... ॐ नमो भगवति वज्रशृङ्खले ... श्रीगणेशाय नमः । नारद... ॐ श्रीदेव्युवाच । ॐ भगवन... अगस्तिरुवाच- अतः परं भरत... श्रीगणेशाय नमः । श्री पा... गम्भीरो माहात्म्यात्प्रशम... श्रीगणेशाय नमः । देव्युव... श्रीदेव्युवाच- भगवन्, पर... पार्वत्युवाच - देव देव म... श्रीगणेशाय नमः । श्रीदेव... श्रीपार्वत्युवाच - देवदे... श्रीगणेशाय नमः । अस्य श्... मल्हारिकवचम् श्रीगणेशाय ... ॐ श्रीगणेशाय नमः । श्रीभ... श्रीगणेशाय नमः । श्रीभैर... श्रीदेव्युवाच । देवदेव म... श्रीगणाधिपतये नमः । श्री... ॐ अस्य श्रीमहागणपतिमन्त्र... ॥ पूर्वपीठिका ॥ महादे... श्री गणेशाय नमः । भैरव उ... श्रीदेव्युवाच - भगवन् सर... श्री गणेशाय नमः । अस्य श... नारद उवाच । आविर्भूय हरि... सदाशिव ऋषिर्देवि उष्णिक्छ... शणुदेवि प्रवक्ष्यामि कवच... श्रीभगवानुवाच- अस्य मन्त... श्रीगणेशाय नमः । अथ महाश... श्रीदेव्युवाच- भगवन् देव... अथ वक्ष्ये महेशानि कवचं स... भैरव उवाच । शृणु देवि !... श्रीदेव्युवाच साधु साधु ... अस्य श्रीमातङ्गीकवचमन्त्र... श्रीगणेशाय नमः । श्रीपार... ॐ नमो भगवते विचित्रवीरहनु... ॐ नमोभगवते रुद्राय । राज... श्रीदेव्युवाच - भगवन् सर... ॐ सिद्धिः । ॐ नमो नरसिंह... एवमाराध्य गौरीशं देवं मृत... श्रीदेव्युवाच - भगवन् दे... ईश्वर उवाच - त्रिकालं गो... श्रीगणेशाय नमः ॥ भगवन... मान्धातोवाच - यमुनायाः क... योगनिद्रोवाच । दूरीभूतं ... उन्मत्तभैरव उवाच - शृणु... श्रीगणेशाय नमः । श्रीयोग... देव्युवाच - भगवन् श्रोतु... कवचं राघवेन्द्रस्य यतीन्द... अथ श्रीराघवेन्द्रार्यकवचं... अथ श्रीराघवेन्द्रार्यरक्ष... पार्वती उवाच- देवदेव महा... श्रीपार्वत्युवाच ॥ ॐ ... महेश्वर उवाच । श्रीजगन्म... श्रीगणेशाय नमः ॥ पार्... ॥ श्रीमदानन्दरामायणे मनोह... अस्य श्रीत्रैलोक्यमोहनवज्... कपिकटकधुरीणः कार्मुकन्यस्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॥ॐ श्रीगणेशाय नमः ॥ अ... इदं पवित्रं परमं भक्तानां... श्रीगणेशाय नमः ॥ ॐ अस... ॐ श्रीभैरव उवाच - शृणु ... भैरव उवाच - वक्ष्यामि दे... ॥अथ श्री रुद्रकवचम् ॥ ... पूर्वपीठिका - श्रीकार्ति... श्रीपार्वत्युवाच । देवदे... श्री देव्युवाच । जमदग... ॥श्री गणेशाय नमः ॥ शृ... ॥श्री गणेशाय नमः ॥ श... सनत्कुमार उवाच- अथ ते कव... अथ ते कवचं देव्या वक्ष्ये... ॥ अथ श्रीमदानन्दरामायणे म... श्रीगणेशाय नमः । ॐ अस्य ... श्रीगणेशाय नमः । ॐ अस्य ... अथ श्रीलक्ष्मीकवचप्रारम्भ... शुकं प्रति ब्रह्मोवाच महा... श्रीगणेशाय नमः । श्रीभैर... अथ श्रीनरसिंहकवचम् । श्र... नारद उवाच - भगवन् सर्वधर... श्री गणेशाय नमः । मौलिं ... श्रीगणेशाय नमः । श्रीभैर... आद्यं रङ्गमिति प्रोक्तं व... अस्य श्री सर्व वशीकरण स्त... ॐ श्रीगणेशाय नमः । ॐ श्र... अस्य श्रीवाराहीकवचस्य त्र... श्री नृसिंहाय नमः । ॐ अस... सूत उवाच । शिरो मे विठ्ठ... श्रीगणेशाय नमः । देव्युव... श्रीमत्परात्पर विश्वकर्मप... शौनक उवाच । किं स्तोत्रं... श्रीगणेशाय नमः ॥ नारद... हरिश्चन्द्रः - ब्रह्मन् ... पूर्वे नारायणः पातु वारिज... ॐ अस्य श्री वीरभद्रकवचमहा... आग्नेयपुराणे अस्य श्रीवे... हरिरुवाच । सर्वव्याधिहरं... श्रीगणेशाय नमः । गुहागरस... ऐश्वरं परमं तत्त्वमादिमध्... ॥ श्रीमदानन्दरामायणे मनोह... श्रीदेव्युवाच - श्रुतं व... विनियोगः । ॐ अस्य श्रीशन... ॐ श्रीगणेशाय नमः । श्री ... शक्र उवाच - शाकम्भर्यास्... श्रीवल्लभसोदरी श्रितजनश्च... ॐ महाशाबरी शक्ति परमात्मन... श्रीगणेशाय नमः । देव्युव... ॐ श्रीगणेशाय नमः । अथ शा... विनियोगः । अस्य श्रीशिवक... दधीचिरुवाच कवचं देवदेवस्... नारद उवाच- शिवस्य कवचं ब... श्रीदेव्युवाच - भगवन्देव... पार्वत्युवाच - भगवन् सर्... श्रीगणेशाय नमः । ॐ अस... श्रीशिवः उवाच - अथ वक्ष्... प्रणम्य देवं विप्रेशं प्र... गोप्य ऊचुः - श्रीकृष्णस्... अथातः सम्प्रवक्षामि कवचं ... श्रीशाण्डिल्य उवाच । शान... ॐ श्रीगणेशाय नमः । श्रीग... श्रीविष्णुरुवाच । संसारम... ॥ अथ सङ्ग्रामविजयविद्या ॥... श्रीआनन्दभैरव उवाच शैलजे... श्रीदेव्युवाच- भगवन्देवद... श्रीआनन्दभैरव उवाच कथितं... श्रीगणेशाय नमः । ॐ अस्य ... श्रीसरस्वतीकवचं भैरव उवाच - शृणु देव... नारद उवाच - श्रुतं सर्वं... ॥ ॐ नम उमङ्गेश्वर्यै ॥ ... ॥ गुरु ध्यानम् ॥ ध्या... ॥ श्रीमदानन्दरामायणान्तर्... प्रसीद भगवन् ब्रह्मन् सर्... ॐ अस्य श्री सुदर्शन कवच म... ॐ अस्य श्री सुदर्शनकवचमाल... श्रीकृष्णाय नमः ॥श्रीगोपी... श्रीगणेशाय नमः । श्रीलक्ष... ॥ॐ नमस्सुब्रह्मण्याय ॥ ... ॐ श्रीगणेशाय नमः । नारद ... अस्य श्री सुब्रह्मण्यकवचस... श्रीगणेशाय नमः ॥ श्रीसूर... वज्रपञ्जराख्यसूर्यकवचम् ।... घृणिर्मे शीर्षकं पातु सूर... ॐ अस्य श्रीसूर्यनारायणदिव... बृहस्पतिरुवाच । इन्द्र श... श्रीगणेशाय नमः । याज्ञवल... ॐ श्रीगणेशाय नमः । श्रीग... कैलासशिखरे रम्ये सुखासीनं... गणेश्वर उवाच । कनककुण... श्रीरामदास उवाच - एकदा स... सनत्कुमार उवाच । कार्तवी... अस्य श्रीहयग्रीवकवचमहामन्... ॥ अथ श्री हयग्रीवकवचम् ॥ ... श्रीगणेशाय नमः । ईश्वर उ... अथ चतुरशीतितमः पटलः श्री... श्रीराजराजेश्वरीकवचम् - पार्वती उवाच- देवदेव महा... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र श्रीराजराजेश्वरीकवचम् Translation - भाषांतर पार्वती उवाच- देवदेव महादेव लोकानां हितकारक । यत् सूचितं पुरा नाथ किमर्थं न प्रकाशितम् ॥१॥ राजराजेश्वरीदेव्यास्त्रिपुरायाः शुभावहम् । कवचं यदि मे प्रीतः कथयस्व वृषध्वज ॥२॥ ईश्वर उवाच- लक्षवारसहस्राणि वारितासि पुनः पुनः । स्त्रीस्वभावान्महादेवि ! पुनस्त्वं परिपृच्छसि ॥३॥ अत्यन्तं दुर्लभं गुह्यं कवचं सर्वकामदम् । तथापि कथयाम्यद्य तव प्रीत्या वरानने ॥४॥ त्रैलोक्यमोहनं नाम त्रिषु लोकेषु दुर्लभम् । सर्वसौभाग्यजननं भोगमोक्षफलप्रदम् ॥५॥ यत् कृत्वा दानवान् विष्णुर्निजघान सुदारुणान् । लोकान् वितनुते ब्रह्मा संहर्ताऽहं यतः प्रिये ॥६॥ धनाधिपः कुबेरोऽपि यतः सर्वे दिगीश्वराः । नैतत् परतरं गुह्यं प्रतिजानीहि पार्वति ॥७॥ वेदशास्त्रपुराणेषु सारमेतद् वरानने । पुत्रदारादिसहितं शिरो देयं कथञ्चन ॥८॥ न देयं कवचं गुह्यं प्राणैः कण्ठगतैरपि । शृणु सर्वाङ्गसुभगे दिव्यं कवचमुत्तमम् ॥९॥ राजराजेश्वरीदेव्याः कवचस्य ऋषिः शिवः । छन्दो विराड् देवता च महात्रिपुरसुन्दरी ॥१०॥ हंसः शक्तिः पराबीजं रमाबीजं च कीलकम् । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥११॥ त्रिपुरा त्रिविधा पातु मम सर्वार्थसिद्धये । ऐं क्लीं सौः वदने बाला पातु सर्वार्थसिद्धिदा ॥१२॥ कण्ठं पातु महादेवी श्रीमत्त्रिपुरभैरवी । हृदयेऽव्यान्महेशानी महात्रिपुरसुन्दरी ॥१३॥ राजराजेश्वरी विद्या षोडशी या महोदया । ब्रह्मरन्ध्रे सदा पातु कमला परमेश्वरी ॥१४॥ गिरिराजसुता देवी पातु नित्यं च शीर्षके । कामबीजं ललाटेऽव्याद् वाग्बीजं कण्ठदेशके ॥१५॥ सौः पातु तथा पार्श्वे प्रणवो बाहुमूलके । शम्भुप्रिया सदा पातु बाहुदक्षिणसव्ययोः ॥१६॥ विष्णुप्रिया सदा पातु मणिबन्धद्वये तथा । पार्वतीशः करे पातु नेत्रे नक्षत्रवल्लभः ॥१७॥ श्रोत्रे रतिप्रियः पातु घ्राणे शक्रः सदाऽवतु । पृष्ठदेशे सदा पातु पार्वती परमेश्वरी ॥१८॥ ह्रसौः श्वासे च निःश्वासे पातां परमसिद्धिदौ । कामः कामे सदा पातु पिनाकी लिङ्गगोचरे ॥१९॥ पृथ्वी सर्वांशके पातु हृल्लेखा हृदयेऽवतु । स्तनौ भृगुप्रिया पातु कुक्षौ च स पुरान्तकः ॥२०॥ नेत्रे वज्रधरः पातु माया वै जठरेऽवतु । पदद्वन्द्वे च सौः पातु ऐं जिह्वानिलयेऽवतु ॥२१॥ क्लीङ्कारः सर्वदा पातु दन्तौष्ठयोर्वरानने । शीर्षादिपादपर्यन्तं सर्वाङ्गं भुवनेश्वरी ॥२२॥ रक्षाहीनं च यत् स्थानं वर्जितं कवचेन तु । तत् सर्वं परमेशानि ! पातु नित्यं हरिप्रिया ॥२३॥ आधारे वाग्भवः पातु कामराजो हृदि प्रिये । शक्तिकूटं तथा पातु भ्रुवोर्मध्ये च पार्वति ॥२४॥ शीर्षे कूटत्रयं पातु ललाटे सर्वमन्त्रकः । अष्टाविंशतिवर्णेयं मुखवृत्ते सदाऽवतु ॥२५॥ षोडशीयं महाविद्या ब्रह्मविद्यैव केवला । भोगमोक्षप्रदा देवी केवलात्मस्वरूपिणी ॥२६॥ कामेश्वरी ललाटेऽव्यान्मुखेषु भगमालिनी । दक्षनेत्रे सदा पातु नित्यक्लिन्ना महोदया ॥२७॥ भेरुण्डा वामनेत्रेऽव्यात् कर्णे वै वह्निवासिनी । महाविद्येश्वरी पातु वामकर्णप्रदेशके ॥२८॥ दक्षनासापुटे पातु शिवदूती महेश्वरी । वामनासापुटे पातु त्वरिता सर्वसिद्धिदा ॥२९॥ दक्षगण्डे सदा पातु नित्यं मां कुलसुन्दरी । त्रैलोक्यविमला पातु वामगण्डप्रदेशके ॥३०॥ ओष्ठे नीलपताकाऽव्यादधरे विजयाऽवतु । ऊर्ध्वदन्ते सदा पातु देवी मां सर्वमङ्गला ॥३१॥ अधोदन्तप्रदेशेऽव्यान्नित्यं ज्वालांशुमालिनी । विचित्रा सर्वदा पातु नित्यं मूर्द्धनि पार्वति ॥३२॥ आसां प्रधानभूता या महात्रिपुरसुन्दरी । षोडशी सा सदा पातु मुखे वै परमेश्वरी ॥३३॥ पृष्ठदेशे सदा पान्तु गुरवस्त्रिविधाश्च ते । पादयोः सर्वदा पातु त्रिपुरा परमेश्वरी ॥३४॥ अनुदेशे सदा पातु देवी मां त्रिपुरेश्वरी । ऊरुद्वये सदा पातु देवी त्रिपुरसुन्दरी ॥३५॥ त्रिपुरवासिनी देवी कटिदेशे सदाऽवतु । त्रिपुराश्रीश्च मां नित्यं गुह्यदेशे सदाऽवतु ॥३६॥ मूलाधारे सदा पातु देवी त्रिपुरमालिनी । नाभौ त्रिपुरसिद्धाऽव्यात् त्रिपुरा च सदा हृदि ॥३७॥ ब्रह्मरन्ध्रे सदा पातु महात्रिपुरसुन्दरी । आसां तु मन्त्रबीजानि प्रोक्तस्थानेषु विन्यसेत् ॥३८॥ पाषण्डगणमध्ये तु बुद्धो मां परिरक्षतु । ब्रह्माऽव्याद् ब्रह्मसंहा[घा]ते शिवो मां योगसिद्धये ॥३९॥ ज्ञाने मां भास्करः पातु मोक्षे नारायणः प्रभुः । या शक्तिः सर्वभूतानां विद्याऽविद्येति गीयते ॥४०॥ सा शक्तिः सर्वदा पातु स्त्रीपुत्रधनसम्पदि । अणिमा पश्चिमे पातु लघिमा चोत्तरेऽवतु ॥४१॥ पूर्वतः पातु महिमा ईशित्वा दक्षिणेऽवतु । वशित्वा वायुनिलये ईशे प्राकाम्यसिद्धिदा ॥४२॥ भुक्तिसिद्धिस्तथाग्नेये पात्विच्छासिद्धी राक्षसे । अधः पातु प्राप्तिसिद्धिर्मोक्ष सिद्धिस्तथोर्ध्वके ॥४३॥ ब्रह्माणी सन्ध्ययोः पातु माहेश्वरी दिवाऽवतु । मध्याह्ने पातु कौमारी रात्रौ च शत्रुवल्लभा ॥४४॥ ब्राह्मे मुहूर्त्तके पातु वैष्णवी सर्वसिद्धिदा । निशीथे पातु वाराही चामुण्डा शत्रुविग्रहे ॥४५॥ महोत्साहे महालक्ष्मीः पातु नित्य महेश्वरी । शीर्षे सङ्क्षोभणी पातु तारिणी हृदयेऽवतु ॥४६॥ आकर्षणी शिखायां तु कवचे पातु वश्यदा । (आकर्षिणी) उन्मादिनी तथा नेत्रे सर्वगात्रे महाङ्कुशा ॥४७॥ त्रिखण्डा भुजयोः पातु बीजे बीजस्वरूपिणी । खेचरी पादयोः पातु योनिमुद्रा च सर्वतः ॥४८॥ स[का]माकर्षणरूपाऽव्यात् सदाऽऽकर्षणकर्मणि । बुद्ध्याकर्षणरूपाऽव्यात् परबुद्धिविकर्षणे ॥४९॥ अहङ्कारे सदा पातु अहङ्कारविकर्षणी । शब्दाकर्षणरूपाऽव्याच्छब्दाकर्षणकर्मणि ॥५०॥ स्पर्शाकर्षणरूपा मां पातु स्पर्शनकर्मणि । रूपाकर्षणरूपाऽव्यात् पररूपविकर्षणे ॥५१॥ रसाकर्षणरूपाऽव्याद् रसे वै परमेश्वरी । (रसाकर्षद) गन्धाकर्षणरूपा मां पातु गन्धे च सर्वदा ॥५२॥ चित्ताकर्षणरूपा मां पायादाकृष्टिकर्मणि । धैर्याकर्षणरूपा तु पातु धैर्यविधौ सदा ॥५३॥ स्मृत्याऽऽकर्षणरूपाऽव्याज्ज्ञानाकर्षणकर्मणि । नामाकर्षणरूपाऽव्यान्नामव्याहरणे सदा ॥५४॥ बीजाकर्षणरूपा मां सर्वबीजप्ररोपणे । परजीवाकर्षणे पातु आत्माकर्षणरूपिणी ॥५५॥ अमृताकर्षणी पातु अमृतीकरणी सदा । शरीराकर्षणी पातु सदा शरीररक्षणे ॥५६॥ अनङ्गकुसुमा पातु पुरतः सर्वकर्मणि । अनङ्गमेखला पातु पृष्ठतः परमेश्वरी ॥५७॥ अनङ्गमदना पातु वामतो मे महेश्वरी । दक्षिणे सर्वदा पातु अनङ्गमदनातुरा ॥५८॥ नित्यं चाऽनङ्गरेखाऽव्यादूर्द्ध्वं(?) मम सदा प्रिये । अनङ्गवेगिनी पातु अधो परमेश्वरी ॥५९॥ तथाऽनङ्गाङ्कुशा नित्यं पातु मां दिक्षु सर्वदा । अनङ्गमालिनी पातु विदिक्षु मम सर्वदा ॥६०॥ सर्वसङ्क्षोभणी चोर्ध्वे पातु मां जगदीश्वरी । सर्वविद्राविणी चाधो दिक्षु सर्वविकर्षिणी ॥६१॥ सर्वाह्लादकरी शक्तिर्विदिक्षु परिरक्षतु । सर्वसम्मोहिनी पातु समन्तात् परमेश्वरी ॥६२॥ अन्तर्बहिश्च मां पातु सर्वस्तम्भनकर्मणि । तथैव पातु मां नित्यमाकाशे सर्वजृम्भणी ॥६३॥ पाताले चैव मां पातु सर्ववश्यकरी तथा । देवलोके सदा पातु सर्वरञ्जनकारिणी ॥६४॥ सर्वोन्मादनशक्तिर्मां भूतले परिरक्षतु । सर्वार्थसाधनी शक्तिः पायाद् भूतगणालये ॥६५॥ सिद्धानामालये पातु सर्वसम्पत्तिपूरणी । राक्षसानां च यक्षाणां सर्वमन्त्रमयी गृहे ॥६६॥ असुराणां निवासे तु सर्वद्वन्द्वक्षयङ्करी । सर्वसिद्धिप्रदा देवी पातु राजगृहे सदा ॥६७॥ सर्वसम्पत्प्रदा पातु स्वगृहे सर्वसम्पदि । सर्वप्रियङ्करी पातु सर्वलोकेषु सर्वदा ॥६८॥ सर्वमङ्गलकार्येऽव्यात् सर्वमङ्गलकारिणी । सर्वकामप्रदा देवि ! सर्वकार्येषु सर्वदा ॥६९॥ ऐश्वर्ये सर्वदा पातु सर्वैश्वर्यप्रदायिनी । सर्वमृत्युप्रशमनी पायान्नित्यं यमालये ॥७०॥ सर्वारम्भे सदा पातु सर्वविघ्नविनाशिनी । देहसौन्दर्यकाले तु पातु सर्वाङ्गसुन्दरी ॥७१॥ सर्वसौभाग्यकाले तु सर्वसौभाग्यदायिनी । सर्वज्ञा च गृहे पातु सर्वशक्तिमयी रणे ॥७२॥ सर्वैश्वर्यप्रदा मार्गे सर्वज्ञानमयी जले । सर्वव्याधिषु सर्वत्र सर्वव्याधिविनाशिनी ॥७३॥ पर्वते पातु प्रबला सर्वाधारस्वरूपिणी । सर्वपापहरा पातु सर्वकर्मसु सर्वदा ॥७४॥ सर्वानन्दकरी देवी नानासुकृतगोचरे । सर्ववैरिभये पातु सर्वरक्षास्वरूपिणी ॥७५॥ सर्वसङ्कल्पकार्येषु सर्वेप्सितफलप्रदा । वशिनी ' वश्यकार्येषु कामेशी स्तम्भनेऽवतु ॥७६॥ मोहने मोहिनी पातु विमलोच्चाटनेऽवतु । अरुणा पातु मां वादे जयिनी जल्पकर्मणि ॥७७॥ सर्वेश्वरी काम्यकार्ये कौलिनी भेदकर्मणि । जृम्भणे सर्वदा पान्तु शराः पञ्च महेश्वरि ॥७८॥ धनुर्मोहविधौ पातु पाशस्तु पश्यकर्मणि । महातेजोमयः पातु स्तम्भने मां तथाऽङकुशः ॥७९॥ सर्वज्ञा हृदये पातु नित्यकृत्या च शीर्षके । अनादिबोधिका पातु नित्यं शिखाप्रदेशके ॥८०॥ कवचे मां स्वतन्त्राऽव्यान्नेत्रे नित्यमलुप्तिका । अचिन्त्यशक्तिरस्त्रेषु पायात् परमसिद्धिदा ॥८१॥ कामेश्वरी रतौ पातु युद्धे वज्रेश्वरी तथा । नित्यं पातु महेशानि श्रीकामे भगमालिनी ॥८२॥ रसे रूपे च गन्धे च शब्दे स्पर्शे च पातु माम् । सर्वानन्दमयी देवी महात्रिपुरसुन्दरी ॥८३॥ ईशाने वटुकः पातु आग्नेय्यां योगिनीगणः । त्वगसृङ्मासमेदोऽस्थिमज्जाशुक्राणि पान्तु नः ॥८४॥ क्षेत्रेशो नैरृते(?) पातु गणेशो वायुमन्दिरे । मातङ्गवनिता पातु शेषिका कुलसुन्दरी ॥८५॥ शक्तिर्मां सर्वदा पातु मूलाधारनिवासिनी । इतीदं कवचं देवि ! त्रिषु लोकेषु दुर्लभम् ॥८६॥ यन्नोक्तं डामरे तन्त्रे यन्नोक्तं रुद्रयामले । सर्वतन्त्रेषु यन्नोक्तं गन्धर्वे प्रकटीकृतम् ॥८७॥ तव प्रीत्या महादेवि ! गोपनीयं प्रयत्नतः । तव नाम्नि स्मृते देवि ! सर्वयज्ञफलं लभेत् ॥८८॥ सर्वत्रैव जयप्राप्तिर्वाञ्छा सर्वत्र सिध्यति । नाम्नः शतगुणं स्तोत्रं व्याख्यानं चापि तच्छ्रुतम् ॥८९॥ तस्माच्छतगुणं ध्यानं ध्यानाच्छतगुणो मनुः । मन्त्राच्छतगुणं देवि ! कवचं ते मयोदितम् ॥९०॥ यस्मै कस्मै न दातव्यं सुगोप्यमतिदुर्लभम् । न देयं परशिष्याय कृपणाय सुरेश्वरि ॥९१॥ शिष्याय भक्तिहीनाय चुम्बकाय तथैव च । गुरुभक्तिविहीनाय परहिंसारताय च ॥९२॥ निन्दकाय कुशीलाय दाम्भिकाय महेश्वरि । अभक्तेभ्योऽपि पुत्रेभ्यो दत्वा मृत्युमवाप्नुयात् ॥९३॥ यो ददाति निषिद्धेभ्यः कवचं मन्मुखाच्च्युतम् । तस्य नश्यन्ति देवेशि ! विद्याऽऽयुः कीर्तिसञ्चयाः ॥९४॥ तं हिंसन्ति च योगिन्यो मदीयशासनात् प्रिये । परे नरकमाप्नोति जन्मकोटिशतानि च ॥९५॥ सर्वलक्षणयुक्ताय मन्त्रयन्त्ररताय च । शिष्याय शान्तचित्ताय गुरुभक्तिरताय च ॥९६॥ उदके लवणं लीनं यथा भवति पार्वति । मनो भवति वै लीनं पादयोः श्रीगुरोः प्रिये ॥९७॥ देयं महद् गुह्यं कृपया चातिदुर्लभम् । गुरोः पादप्रसादेन श्रीविद्या यदि लभ्यते ॥९८॥ तथैव कवचं देवि ! त्रिषु लोकेषु दुर्लभम् । स च देवो हरः साक्षात् तत्पत्नी परमेश्वरी ॥९९॥ प्रमादादपि देवेशि ! श्रीगुरोर्नाम नाददेत् । यस्य भक्तिर्गुरौ नित्यं वर्तते देववत् प्रिये ॥१००॥ तस्य मन्त्रस्य यन्त्रस्य सिद्धिर्भवति नान्यथा । कवचस्य तथा सिद्धिर्गुटिकायाश्च सुन्दरि ॥१०१॥ इदं कवचमज्ञात्वा यो जपेत् सुन्दरी पराम् । नवलक्षं प्रजप्त्वापि तस्य विद्या न सिद्ध्यति ॥१०२॥ शुचिः समाहितो भूत्वा भक्तिश्रद्धासमन्वितः । सर्वभूतालये सुप्ते निशायामर्द्धरात्रके ॥१०३॥ हेतुयुक्तो महेशानि! निर्जने पशुवर्जिते । रक्तासनोपविष्टस्तु रक्ताभरणभूषितः ॥१०४॥ ताम्बूलपूरितमुखो धूपामोदसुगन्धितः । संस्थाप्य वामभागे तु शक्तिं स्वामिपरायणाम् ॥१०५॥ रक्तवस्त्रपरीधानां शिवमन्त्रधरां शुभाम् । या शक्तिः सा महादेवी हररूपस्तु साधकः ॥१०६॥ अन्योन्यचिन्तनाद् देवि! देवत्वमुपजायते । शक्तियुक्तो यजेद् देवीं श्रीचक्रे लक्षणान्विते ॥१०७॥ पुष्पाञ्जलित्रयं देव्यै मूलमन्त्रेण दापयेत् । भोगैश्च मधुपर्काद्यैस्ताम्बूलाद्यैः सुवासितैः ॥१०८॥ पूजयित्वा महादेवीं पूजाकोटिफलं लभेत् । पूर्वोक्तन्यासमेवास्मिन् समये च प्रविन्यसेत् ॥१०९॥ आत्मानं परमं ध्यायेद् दिव्यस्त्रीभिरलङ्कृतम् । दिव्यं मूर्ध्नि महच्छत्रं सहस्रदलनिर्मितम् ॥११०॥ सुधावर्षिमुखाम्भोजं सस्मितं दिव्यवर्चसम्! । परमानन्दसन्दोहमुदितं परमाव्ययम् ॥१११॥ दिव्यालङ्कारवस्त्राढ्यं दिव्यमाल्यानुलेपितम् । दिव्यासनसमासीनं दिव्यभोगविभोगिनम् ॥११२॥ सर्वगं सर्वभूतेशं सृष्टिस्थित्यन्तकारिणम् । निर्लेपं निर्मलं शान्तं सर्वव्यापिनमीश्वरम् ॥११३॥ ततो देवी हृदम्भोजे ध्यायेत् तद्गतमानसः । जपाकुसुमसङ्काशां बालार्ककिरणारुणाम् ॥११४॥ रक्तपद्मसमासीनां रक्ताभरणभूषिताम् । रक्तवस्त्रपरीधानां पूर्णचन्द्रनिभाननाम् ॥११५॥ सैवाहमित्यभेदेन द्वैतहीनं विचिन्तयेत् । अद्वैतानन्दभावेन साधकः परमात्मनः ॥११६॥ छायया शोणया व्याप्तं जगदेतच्चराचरम् । भावनावशसम्पन्नो भावयेद् भावतः परम् ॥११७॥ एवं चिन्तापरस्याऽऽशु सिद्धयोऽष्टौ भवन्ति हि । सम्प्राप्य विपुलान् भोगान् राज्यास्पदञ्च भूतले ॥११८॥ ऐन्द्र पदमवाप्याथ ' विहरेन्नन्दने वने । उर्वशीप्रमुखाभिश्च स्वेच्छया दिव्यभोगवान् ॥११९॥ तदाप्नोति परं स्थानं दुरापं त्रिदशैरपि । ततस्तु कवचं दिव्यं पठेदेकमनाः प्रिये ॥१२ तस्य सर्वार्थसिद्धिः स्यान्नात्र कार्या विचारणा । इदं रहस्यं परमं परं स्वस्त्ययनं महत् ॥१२॥ सर्वेषामेव हिंस्राणां डाकिनीनां महेश्वरि । निशाचरगणानाञ्च वारणं नाशनं तथा ॥१२२॥ आयुर्बलप्रदं नित्यं तुष्टिपुष्टिशुभावहम् । नारीणां मृतवत्सानां गुणवत्सुतदायकम् ॥१२३॥ सूत्या सूतिगृहस्यापि बालग्रहनिवारणम् । विषदस्युग्रहाणाञ्च सदा शान्तिविवर्द्धनम् ॥१२४॥ विषशस्त्राऽग्निरुद्राणां वारणं जयदं युधि । जले स्थले तथाऽऽकाशे सर्वोत्पातेषु सर्वदा ॥१२५॥ त्रैलोक्यवासिनामेव सर्वमङ्गलदायकम् । सकृद् यस्तु पठेद् देवि ! कवचं देवदुर्लभम् ॥१२६॥ हयमेधफलं तस्य भवत्येव संशयः । नित्यं यस्तु पठेद् देवि शृणुयाद् वा समाहितः ॥१२७॥ स सर्वान् लभते कामान् परे देवीपुरं व्रजेत् । सङ्ग्रामे च जयेच्छत्रून् मातङ्गानिव केशरी ॥१२८॥ दहेत् तृणं यथा वह्निस्तथा शत्रून् जयेत् सदा । नास्त्राणि तस्य शस्त्राणि शरीरे प्रभवन्ति च ॥१२९॥ तद्गात्रं प्राप्य शस्त्राणि ' ब्रह्मास्त्रादीनि यानि च । माल्यानि कुसुमानीव सुखदानि भवन्ति हि ॥१३०॥ पराः पराङ्मुखा यान्ति विना युद्धेन पार्वति । व्याधिस्तस्य कदाचित् तु दुःखं नास्ति कदाचन ॥१३१॥ गतिस्तस्यैव सर्वत्र वायोस्तुल्या सदा भवेत् । दीर्घायुः कामभोगीशो धनधान्यसमृद्धिमान् ॥१३२॥ जितव्याधी रूपवान् स्याद् गुणवानभिजायते । चातुर्वर्ग्यं करे तस्य भवत्येव न संशयः ॥१३३॥ अन्यस्य वल्लभः सो वै पुत्रदारकुलान्वितः । इहलोके सुखं भुक्त्वा परे मुक्तो भविष्यति ॥१३४॥ न तस्य दुर्गतिर्देवि ! कदाचिदपि जायते । दुर्ग्रहाः सुग्रहा यान्ति वशं गच्छन्ति मानवाः ॥१३५॥ न तस्य विघ्नो भवति न शोको भुवि जायते । वेतालाश्च पिशाचाश्च राक्षसाश्च भयानकाः ॥१३६॥ ते सर्वे विलयं यान्ति कवचस्यास्य कीर्तनात् । तस्यैव शत्रवो देवि ! चिन्तामात्रप्रयोगतः ॥१३७॥ विनश्यन्ति न सन्देहो योगिन्यो भक्षयन्ति तान् । शान्तिकादीनि कर्माणि मारणोच्चाटनानि च ॥१३८॥ वचोमात्रेण देवेशि ! तस्य सिध्यन्ति भूतले । न पापैर्लिप्यते देवि ! महोग्रैस्तु सुदारुणैः ॥१३९॥ न कालस्य वशं गच्छेन्न जरा न च दुःखिता । तत्र देशे न दुर्भिक्षं न च मारी प्रवर्तते ॥१४०॥ न रोगास्तत्र जायन्ते नोत्पाताः प्रभवन्ति च । विविधाश्चैव योगिन्यस्तस्य साधकसन्निधौ ॥१४१॥ शान्ति चैव प्रयच्छन्ति रक्षन्ति पुत्रवत् सदा । सर्वदा च सुखप्राप्तिः सर्वतीर्थफलं लभेत् ॥१४२॥ नानेन सदृशः कश्चित् साधको भुवि जायते । सुरासुरमनुष्याणां तत्त्वरूपः सुखावहः ॥१४३॥ येन विज्ञातमात्रेण स्मृतेनैव च सुन्दरि । अक्षयान् लभते कामान् मुक्तिस्थानं च गच्छति ॥१४४॥ सर्वलक्षणहीनोऽपि स्मरणात् ' कलुषापहः । अहो कवचमाहात्म्य पठमानस्य नित्यशः ॥१४५॥ विनापि योगचर्येण योगिनां समतां व्रजेत् । भूर्जत्वचि समालिख्य चक्रं तत्त्वविनिर्मितम् ॥१४६॥ मध्ये त्रिकोणं संलिख्य साध्यसाधकयोर्लिपिम् । तदूर्ध्वे मूलमन्त्रञ्च मातृकार्णेन वेष्टयेत् ॥१४७॥ अगुरुद्रवमिश्रेण चन्दनेन सुगन्धिना । एतद् यन्त्रम् महादेवि ! सुरासुरसुदुर्लभम् ॥१४८॥ रोचनाकुडकुमेनैव तद्बाह्ये कवचं लिखेत् । श्वेतसूत्रेण संवेष्ट्य लाक्षया परिवेष्टयेत् ॥१४९॥ पञ्चामृतैः पञ्चगव्यैः स्नापयित्वा शुभेऽहनि । सम्पूज्य देवीरूपां तां गुटिकां सर्वकामदाम् ॥१५०॥ प्राणप्रतिष्ठामन्त्रेण प्राणांस्तत्र निवेशयेत् । चारुणा शाक्तकुम्भेन भूषितां योनिमुद्रया ॥१५१॥ अन्तर्योनिं ततो ध्यात्वा तत्र संस्थापयेद् बुधः । एषा तु गुटिका देवि ! कण्ठलग्ना धनप्रदा ॥१५२॥ शीर्षे वश्यकरी देवि ! कट्यां स्तम्भनकारिणी । बद्धा वामभुजे चैव वैरिपक्षविनाशिनी ॥१५३॥ जठरे रोगशमनी पुत्रदा हृदिसंस्थिता । विद्याकरी ललाटस्था शिखायां तु यशःप्रदा ॥१५४॥ दक्षिणे बाहुमूले वै यदि तिष्ठति सर्वदा । तदा सर्वार्थसिद्धिः स्याद् यद्यन्मनसि वर्तते ॥१५५॥ सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः । न शक्नोमि प्रभावं हि कथितुं कवचस्य वै ॥१५६॥ एतत्तु कवचेनैव पठनं साधनं प्रिये । कथितं मे तव स्नेहाद् गोपनीय सदा भुवि ॥१५७॥ ॥इति श्रीराजराजेश्वरीकवचं सम्पूर्णम् । ॥इति श्रीगन्धर्वतन्त्रे महात्रिपुरसुन्दरीत्रैलोक्यमोहनाख्यः चतुर्थः पटलः ॥४॥ N/A References : N/A Last Updated : December 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP