संस्कृत सूची|संस्कृत साहित्य|कवच|
अथैकोनचत्त्वारिंशः पटलः ...

श्रीकृष्णस्तवनकवचम् - अथैकोनचत्त्वारिंशः पटलः ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

अथैकोनचत्त्वारिंशः पटलः आनन्दभैरवी उवाच अथ नाथ प्रवक्ष्येऽहं संसारसाधनोत्तमम् । येन साधनमात्रेण योगी भवति तत्क्षणात् ॥१॥
अनायासेन सिद्धिः स्याद् यद्यन्मनसि वर्तते । त्रैलोक्यं मोहयेत्क्षिप्रं त्रैलोक्यं वशमानयेत् ॥२॥
रामेण सहितं नित्यं जगतां साक्षिणं वरम् । जामदग्न्यकराम्भोजसेवितं सर्वसेवितम् ॥३॥
अनन्तसत्त्वनिलयं वासुकी सङ्गमाकुलम् । अष्टहस्ताग्रसुश्रीदं नानालङ्कारशोभितम् ॥४॥
स्वाधिष्ठानगतं ध्यात्वा शीतलो जायते वशी । तत्स्तोत्रं श‍ृणु मे नाथ यत्पाठात् सिद्धिमाप्नुयात् ॥५॥
श्रीकृष्णस्तोत्रं ब्रह्मादयः सुराधीशा मुनयः क्रतुरक्षकाः । एतत् स्तोत्रं पुरा कृत्वा जीवन्मुक्तो महीतले ॥६॥
अतः श्रीकालिकानाथ स्तोत्रं श‍ृणु महत्फलम् ॥७॥
श्रीविष्णोरद्भुतकर्मणो ब्रह्मर्षिस्त्रिष्टुप्छन्दः श्रीविष्णुः श्रीकृष्णः श्रीनारायणो देवता सर्वस्तोत्रसारकवचमन्त्रसिद्ध्यर्थे विनियोगः ॥
श्री कृष्णं जगतामधीशमनघं ध्यानात्सिद्धिप्रदं गोविन्दं भवसिन्धुपारकरणं सन्तारणं कारणम् । श्री विष्णुं वनमालिनं नरहरिं नारायणं गोकुलं योगेन्द्रं नरनाथमादिपुरुषं वृन्दावने भावयेत् ॥८॥
मोक्षश्रीसहितं कृतान्तविकृतं धर्मार्णवं सुन्दरं श्रीरामं बलरामभावविमलं नित्याकुलं सत्कुलम् । श्रीश्यामं कनकादिहारविलसत्लम्बोदरं श्रीधरं तं वन्दे हरिमीश्वरं गुणवतीमायाश्रयं स्वाश्रयम् ॥९॥
वैकुण्ठेशमशेषदोषरहितं सायुज्यमोक्षात्मकं नानारत्नविनिर्मिता मम पूजा राजेन्द्रचूडामणिम् । शोभामण्डलमण्डितं सुरतरुच्छायाकरं योगिनं विद्यागोपसुतावृतं गुणमयं वाक्सिद्धये भावयेत् ॥१०॥
स्वाधिष्ठाननिकेतनं परजनं विद्याधनं मायिनं श्रीनाथं कुलयोगिनं त्रिभुवनोल्लासैकबीजं प्रभुम् । संसारोत्सवभावलाभनिरतं सर्वादिदेशं सुखं वन्देऽहं वरसर्पशत्रुसफले पृष्ठे स्थिरानन्ददम् ॥११॥
भावाष्टं भवभावयोगजडितं जाड्यापहं भास्वरं नित्यं शुद्धगुणं गभीरधिषणामोदैकहेतुं पतिम् । कीर्तिक्षेमकरं महाभयहरं कामाधिदैवं शिवं तत्तत्षड्दलमध्यगेहरुचिरानन्दैकदेशास्पदम् ॥१२॥
वन्दे श्रीपतिमच्युतं नरहरिं दैत्यारिशिक्ष्याकुलं गन्धर्वप्रभृतेः सुगायनरतं वंशीधरं भावदम् । रत्नानामधिपं गतिस्थमचलं गोवर्धनाधारणं विश्वामित्रतपोधनादि मुनिभिः संसेवितं तैजसम् ॥१३॥
वन्दे गोविन्दपादाम्बुजमजमजितं राजितं भक्तिमार्गे सत्त्वोत्पन्नं प्रभुत्वं परगणनमितं चारुमञ्जीरहारम् । हंसाकारं धवलगरुडानन्दपृष्ठे निमग्नं बन्धूकारक्तसारान्वितचरणतलं सर्वदाशान्तरालम् ॥१४॥
राकिण्याः प्रेमसिद्धं नववयसिगतं गीतवाद्यादिरागं रागोत्पन्नं सुफलगुणदं गोकुलानन्दचन्द्रम् । वाणी-लक्ष्मी-प्रियं तं त्रिभुवनसुजनाह्लादकर्तारमाद्यं वन्दे सिद्धान्तसारं गतिनतिरहितं सारसङ्केतिताप्तम् ॥१५॥
कामं कामात्मकं तं विधुगतशिरसं कृष्णसम्बोधनान्तं बीजं कामं पुनस्तत् पुरुषसुरतरुं भावयित्वा भजेऽहम् । श्रीकृष्णं कृष्णकृष्णं निरवधिसुखदं सुप्रकाशं प्रसन्नं स्वाधिष्ठानाख्यपद्मे मनसि गतो भवे सिद्धिस्थलस्थम् ॥१६॥
आकाशे चारुपद्मे रसभयवलगं रक्तवर्णं प्रकाण्डं आत्मारामं नरेन्द्रं सकलरतिकरं कंसहन्तारमादिम् । आद्यन्तस्थानहीनं विधिहरगमनं सेन्द्रनीलामलाभं भावोत्साहं त्रिसर्गस्थितिपरममरं भावये भावसिद्ध्यै ॥१७॥
सर्वेषां ज्ञानदानं रसदलकमले सर्वदा त्वं करोषि आत्मानन्दं सुधादिप्रियधनगुणिनामेकयोगप्रधानम् । मायापूर्णः प्रचयनवरसः प्रीतिदेशः प्रभेकः श्रीराजाख्यः प्रपूर्णः मयि धनरहिते दृष्टिपातं भवादौ ॥१८॥
काली श्रीकुण्डलिन्याः परगृहनिरतं भावकब्रह्मरूपम् । मुक्तिच्छत्रं पुरेशं निजधनसुखं भार्यया क्रीडयन्तम् । सभाक्षेत्रं नेत्रं नयमानमयमत्पुरसंस्थाभिषेकम् ॥१९॥
ध्यात्वाऽहं प्रणमामि सूक्ष्मकमले लोकाधिपं व्याधिपं वैकुण्ठं कृष्णमीडे कुरुभवविभवक्षेमहन्तारमन्तम् । शान्तानां ज्ञानगम्यं स्वनयनकमले पालयन्तं त्रिमार्गं वज्रारिं पूतनारिं द्वयवकनरकध्वान्तसंहारसूरम् ॥२०॥
मान्यं लोकेषु सर्वेष्वतिशयमनसं केवलं निर्मलञ्च ओङ्कारं कारणाख्यं सुगतिमतिमतां मातृकामन्त्रसिद्धम् । सिद्धानामादिसिद्धं सुररिपुशमनं कालरूपं रिपूणां  सुररिपुममलं मूलोर्ध्वे षड्दलान्ते मनसि सुविमले पूरयित्वा मुकुन्दम् ॥२१॥
नित्यं सम्भावयेऽहं निजतनुसमता सिद्धये पूजयामि । त्वं साक्षादखिलेश्वरः प्रियकरः श्रीलोकहस्तार्चितः । क्षोणीशः प्रलयात्मकः प्रतिगुणी ज्ञानी त्वमेको महान् ॥२२॥
यद्येवं मम पामरस्य कलुषं श्रीधर्महीनान्दितं कृत्वा पादतले यदीह नियतं व्यारक्ष रक्षात्मगम् । राधाकृष्णपदामलाम्बुजतलं चैतन्यमुक्त्याकुलं सर्वत्रादिगमागमं त्रिगमनं निर्वाणमोक्षाश्रयम् ॥२३॥
बालं वैरिविनाशनं सुखमयं कैवल्यमोक्षास्पदं दैवं देवगणार्चितं रसदले चारोपयामि प्रभो । निर्द्दिष्टं भुवनाश्रयं यतिपतिं निर्वाणमोक्षस्थितं निर्वाणादिकमोदने प्रचपलं श्रीचञ्चलासङ्कुलम् ॥२४॥
वन्देऽहं परमेश्वरं सकलदैत्यानां बलप्राणहम् । हंसारूढनिरक्षणं क्षणगतं वाणीपतिं भूपतिम् । वाञ्छाकल्पलतापतिं कुलपतिं विद्यापतिं गोपतिम् ॥२५॥
श्रीविद्यापतिमादिदेवपुरुषं विश्वेश्वरप्रेमगम् । श्रीकुम्भोद्भवकालसत्त्वनिकरं त्वां भास्करं भावये । सिद्धानामभिचिह्नयोगनिरतं रक्ष त्वमादौ हि माम् ॥२६॥
प्रभो निःसङ्केतं गुणमणिमतं श्रेयसि मतम् । मतामन्तः सुस्थं विगलितमहाप्रेमसुरसम् । मुदा वन्दे कृष्णं हरकरतलाम्भोजयजितम् ॥२७॥
प्रभापुञ्जं रामाश्रयपदमदं कामकुशलं महामन्त्रच्छायां रजनिमिलितं ध्वान्तजडितम् । त्रिकोणस्थं कुस्थं कुगतिसुगतिं कारणगतिं प्रलीनं संस्थानं जगति जगतां धर्ममुदयम् ॥२८॥
रमेशं वाणीशं विधिगतपदं शम्भुनिगतं त्रिकालं योगानां नयनकमलं शब्दनिरतम् । कुलानन्दं गोपीजनहृदयगं गोपियजितं विधानं त्वामिन्द्रं गुरुतरमुपेन्द्रं हरिरिपुम् ॥२९॥
मुदा त्वां वन्देऽहं चपलं तां मे नवहवे । कुलालापश्रद्धामयमखिलसिद्धिप्रदमनम् । मलातीतं नीतं सुरनरसतां शास्त्रभवनम् ॥३०॥
विनोदं नारीणां हृदयरसिकं शोकरहितम् । विराजं यज्ञानां हितमतिगुणं यामि शरणम् ॥३१॥
एतत्सम्बन्धमात्री मम कुलशिरसि स्थायिनं पातु नित्यं गोपीनां प्राणनाथः प्रतिदिनमनिशं भालदेशं प्रपायात् । भालाधोदेशसंस्थं समवतु सहसा राजराजेश्वरेशः गोपान्वन्वो सुरेशः स्थित्यन्तशास्त्रनेत्रं सुखमखिलभवः कण्ठच्छत्राभिसंस्थम् ॥३२॥  पृष्ठस्थं पातु शौरिः प्रतिदिनममरो लिङ्गबाह्यं कटिस्थं शम्भुप्रेमाभिलाषी मम तु कुलपदं गुह्यदेशं प्रपायात् । आनन्दोद्रेककारी सकलतनुगतं पातु नित्यं मुरारिः दैत्यारिश्चोरुमूलं नृहरिरवतु मे जङ्घया पादपद्मम् ॥३३॥  एतत्स्तोत्रं पठेद्विद्वान् नियतो भक्तिमान् शुचिः । स्थिरो भवति मासेन षड्दले सर्वसिद्धिभाक् ॥३४॥
इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवभैरवीसंवादे श्रीकृष्णस्तवनकवचं नामैकोनचत्वारिंशत्तमः पटलः ॥३९॥

N/A

References : N/A
Last Updated : November 19, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP