संस्कृत सूची|
संस्कृत साहित्य|
कवच|
प्रणम्य देवं विप्रेशं प्र...
श्रीकृष्णकवचम् - प्रणम्य देवं विप्रेशं प्र...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
प्रणम्य देवं विप्रेशं प्रणम्य च सरस्वतीम् । प्रणम्य च मुनीन् सर्वान् सर्वशास्त्रविशारदान् ॥१॥
श्रीकृष्णकवचं वक्ष्ये श्रीकीर्तिविजयप्रदम् । कान्तारे पथि दुर्गे च सदा रक्षाकरं नृणाम् ॥२॥
स्मृत्वा नीलाम्बुदश्यामं नीलकुञ्चितकुन्तलम् । बर्हिपिञ्छलसन्मौलिं शरच्चन्द्रनिभाननम् ॥३॥
राजीवलोचनं राजद्वेणुना भूषिताधरम् । दीर्घपीनमहाबाहुं श्रीवत्साङ्कितवक्षसम् ॥४॥
भूभारहरणोद्युक्तं कृष्णं गीर्वाणवन्दितम् । निष्कलं देवदेवेशं नारदादिभिरर्चितम् ॥५॥
नारायणं जगन्नाथं मन्दस्मितविराजितम् । जपेदेवमिमं भक्त्या मन्त्रं सर्वार्थसिद्धये ॥६॥
सरर्वदोषहरं पुण्यं सकलव्याधिनाशनम् । वसुदेवसुतः पातु मूर्धानं मम सरर्वदा ॥७॥
ललाटं देवकीसूनुः भ्रूयुग्मं नन्दनन्दनः । नयनौ पूतनाहन्ता नासां शकटमर्द्दनः ॥८॥
यमलार्जुनहृत्कर्णौकि कपोलौ नगमर्द्दनः । दन्तान् गोपालकः पोतु जिह्वां हय्यङ्गवीनभुक् ॥९॥
ओष्ठं धेनुकजित्पायादधरं केशिनाशनः । चिबुकं पातु गोविन्दो बलदेवानुजो मुखम् ॥१०॥
अक्रूरसहितः कण्ठं कक्षौ दन्तिवरान्तकः । भुजौ चाणूरहारिर्मे करौ कंसनिषूदनः ॥११॥
वक्षो लक्ष्मीपतिः पातु हृदयं जगदीश्वरः । उदरं मधुरानाथो नाभिं द्वारवतीपतिः ॥१२॥
रुग्मिणीवल्लभः पृष्ठं जघनं शिशुपालहा । ऊरू पाण्डवदूतो मे जानुनी पार्थसारथिः ॥१३॥
विश्वरूपधरो जङ्घे प्रपदे भूमिभारहृत् । चरणौ यादवः पातु पातु विघ्नोऽखिलं वपुः ॥१४॥
दिवा पायाज्जगन्नाथो रात्रौ नारायणः स्वयम् । सरर्वकालमुपासीरिस्सर्वकामार्थसिद्धये ॥१५॥
इदं कृष्णबलोपेतं यः पठेत् कवचं नरः । सर्वदाऽऽर्तिभयान्मुक्तः कृष्णभक्तिं समाप्नुयात् ॥१६॥
इति श्रीकृष्णकवचं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : December 02, 2025

TOP