संस्कृत सूची|संस्कृत स्तोत्र साहित्य|कवच| ॥ श्रीगणेशाय नमः ॥ ऋष... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीगणेशाय नमः । श्रीदेव... विनियोगः - ॐ अस्य त्रैलो... श्रीलक्ष्मण उवाच । कृताञ... सगर उवाच । श्रुतं सर्वं ... श्रीगणेशाय नमः । श्रीदत्... श्रीपादः पातु मे पादावूरू... श्रीगणेशाय नमः । श्रीदत्... ॐ द्रां ॐ नमः, श्रीगुरुद... विनियोगः - ॐ अस्य श्रीमह... भैरव उवाच । कालिकाकवचस्य... विरूपाक्ष उवाच । नमामि ग... भैरव उवाच । कालिका या मह... श्रीपरमशिव उवाच । सर्पिः... श्रीभैरव उवाच । शणु देव... नारायण उवाच । शणु नारद ... श्रीगणेशाय नमः । ईश्वर उ... श्रीगणेशाय नमः । नारद उव... श्रीदेव्युवाच - पुरा श्र... श्री शिव उवाच - शणु देव... भगवन् देव देवेशकृपया त्वं... श्रीगणेशाय नमः । श्रीदुर्... ॐ अस्य श्री चण्डीकवचस्य ॥... देव्युवाच धनदा या महाविद... श्रीगणेशाय नमः । अथ धूमा... श्री गणेशाय नमः । श्रीमद... ब्रह्मोवाच । शिरो ... विनियोगः नागराजस्य देवस्... ॐ श्रीगणेशाय नमः । ॐ नमो... ॐ श्रीगणेशाय नमः । ॐ नमो... तन्त्रराजतन्त्रे अष्टाविं... निम्बार्क-कवचं वक्ष्ये मह... श्रीगणेशाय नमः । अथापरं ... नारद उवाच । इन्द्रादिदेव... ॥ श्रीगणेशाय नमः ॥ ॥ ... अस्य श्रीपञ्चमुखिवीरहनूमत... अस्य श्रीपञ्चमुखिहनुमत्कव... भगवन् ! सर्वमाख्यातं मन्त... श्रीगणेशाय नमः । श्रीभैर... अथ पञ्चाशीतितमः पटलः । श... ॥ श्रीमहा-त्रिपुर-सुन्दर्... ऋषय ऊचुः । अथ नाम्नां सह... देव्युवाच । भगवन् सर्वधर... सूत उवाच - सहस्रादित्यसङ... ॥ अथ बगलामुखीकवचम् ॥ ... कैलासाचलम्ध्यगम्पुरवहं शा... श्री गणेशाय नमः । श्री बग... श्रीगणेशाय नमः । अस्यश्र... श्रीगणेशाय नमः । श्रीपीता... उक्तं च भैरवतन्त्रे । मह... अस्य श्री बटुकभैरवकवचस्य ... देव्युवाच । देवदेव जगन्न... अस्य श्रीबटुकभैरवकवचस्य ... ॥ श्रीगणेशाय नमः ॥ ॥ ... अथ विनियोगः - अस्य श्रीब... दुर्योधन उवाच - गोपीभ्यः... अस्य बाणलिङ्ग कवचस्य संहा... शिवस्य कवचं स्तोत्रं श्रू... नन्दगोप उवाच । रक्षतु त्... वाग्भवः पातु शिरसि कामराज... श्रीपार्वत्युवाच- देवदेव... अस्य श्रीबालात्रिपुरसुन्द... बालार्कमण्डलाभासां चतुर्ब... श्रीभैरव उवाच- अधुना ते ... ॐ अस्य श्रीबालात्रिपुरसुन... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... ॐ श्रीब्रह्मणे नमः । कवच... श्री गणेशाय नमः । श्री बग... ॐ नमो भगवति वज्रशृङ्खले ... श्रीगणेशाय नमः । नारद... ॐ श्रीदेव्युवाच । ॐ भगवन... अगस्तिरुवाच- अतः परं भरत... श्रीगणेशाय नमः । श्री पा... गम्भीरो माहात्म्यात्प्रशम... श्रीगणेशाय नमः । देव्युव... श्रीदेव्युवाच- भगवन्, पर... पार्वत्युवाच - देव देव म... श्रीगणेशाय नमः । श्रीदेव... श्रीपार्वत्युवाच - देवदे... श्रीगणेशाय नमः । अस्य श्... मल्हारिकवचम् श्रीगणेशाय ... ॐ श्रीगणेशाय नमः । श्रीभ... श्रीगणेशाय नमः । श्रीभैर... श्रीदेव्युवाच । देवदेव म... श्रीगणाधिपतये नमः । श्री... ॐ अस्य श्रीमहागणपतिमन्त्र... ॥ पूर्वपीठिका ॥ महादे... श्री गणेशाय नमः । भैरव उ... श्रीदेव्युवाच - भगवन् सर... श्री गणेशाय नमः । अस्य श... नारद उवाच । आविर्भूय हरि... सदाशिव ऋषिर्देवि उष्णिक्छ... शणुदेवि प्रवक्ष्यामि कवच... श्रीभगवानुवाच- अस्य मन्त... श्रीगणेशाय नमः । अथ महाश... श्रीदेव्युवाच- भगवन् देव... अथ वक्ष्ये महेशानि कवचं स... भैरव उवाच । शृणु देवि !... श्रीदेव्युवाच साधु साधु ... अस्य श्रीमातङ्गीकवचमन्त्र... श्रीगणेशाय नमः । श्रीपार... ॐ नमो भगवते विचित्रवीरहनु... ॐ नमोभगवते रुद्राय । राज... श्रीदेव्युवाच - भगवन् सर... ॐ सिद्धिः । ॐ नमो नरसिंह... एवमाराध्य गौरीशं देवं मृत... श्रीदेव्युवाच - भगवन् दे... ईश्वर उवाच - त्रिकालं गो... श्रीगणेशाय नमः ॥ भगवन... मान्धातोवाच - यमुनायाः क... योगनिद्रोवाच । दूरीभूतं ... उन्मत्तभैरव उवाच - शृणु... श्रीगणेशाय नमः । श्रीयोग... देव्युवाच - भगवन् श्रोतु... कवचं राघवेन्द्रस्य यतीन्द... अथ श्रीराघवेन्द्रार्यकवचं... अथ श्रीराघवेन्द्रार्यरक्ष... पार्वती उवाच- देवदेव महा... श्रीपार्वत्युवाच ॥ ॐ ... महेश्वर उवाच । श्रीजगन्म... श्रीगणेशाय नमः ॥ पार्... ॥ श्रीमदानन्दरामायणे मनोह... अस्य श्रीत्रैलोक्यमोहनवज्... कपिकटकधुरीणः कार्मुकन्यस्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॥ॐ श्रीगणेशाय नमः ॥ अ... इदं पवित्रं परमं भक्तानां... श्रीगणेशाय नमः ॥ ॐ अस... ॐ श्रीभैरव उवाच - शृणु ... भैरव उवाच - वक्ष्यामि दे... ॥अथ श्री रुद्रकवचम् ॥ ... पूर्वपीठिका - श्रीकार्ति... श्रीपार्वत्युवाच । देवदे... श्री देव्युवाच । जमदग... ॥श्री गणेशाय नमः ॥ शृ... ॥श्री गणेशाय नमः ॥ श... सनत्कुमार उवाच- अथ ते कव... अथ ते कवचं देव्या वक्ष्ये... ॥ अथ श्रीमदानन्दरामायणे म... श्रीगणेशाय नमः । ॐ अस्य ... श्रीगणेशाय नमः । ॐ अस्य ... अथ श्रीलक्ष्मीकवचप्रारम्भ... शुकं प्रति ब्रह्मोवाच महा... श्रीगणेशाय नमः । श्रीभैर... अथ श्रीनरसिंहकवचम् । श्र... नारद उवाच - भगवन् सर्वधर... श्री गणेशाय नमः । मौलिं ... श्रीगणेशाय नमः । श्रीभैर... आद्यं रङ्गमिति प्रोक्तं व... अस्य श्री सर्व वशीकरण स्त... ॐ श्रीगणेशाय नमः । ॐ श्र... अस्य श्रीवाराहीकवचस्य त्र... श्री नृसिंहाय नमः । ॐ अस... सूत उवाच । शिरो मे विठ्ठ... श्रीगणेशाय नमः । देव्युव... श्रीमत्परात्पर विश्वकर्मप... शौनक उवाच । किं स्तोत्रं... श्रीगणेशाय नमः ॥ नारद... हरिश्चन्द्रः - ब्रह्मन् ... पूर्वे नारायणः पातु वारिज... ॐ अस्य श्री वीरभद्रकवचमहा... आग्नेयपुराणे अस्य श्रीवे... हरिरुवाच । सर्वव्याधिहरं... श्रीगणेशाय नमः । गुहागरस... ऐश्वरं परमं तत्त्वमादिमध्... ॥ श्रीमदानन्दरामायणे मनोह... श्रीदेव्युवाच - श्रुतं व... विनियोगः । ॐ अस्य श्रीशन... ॐ श्रीगणेशाय नमः । श्री ... शक्र उवाच - शाकम्भर्यास्... श्रीवल्लभसोदरी श्रितजनश्च... ॐ महाशाबरी शक्ति परमात्मन... श्रीगणेशाय नमः । देव्युव... ॐ श्रीगणेशाय नमः । अथ शा... विनियोगः । अस्य श्रीशिवक... दधीचिरुवाच कवचं देवदेवस्... नारद उवाच- शिवस्य कवचं ब... श्रीदेव्युवाच - भगवन्देव... पार्वत्युवाच - भगवन् सर्... श्रीगणेशाय नमः । ॐ अस... श्रीशिवः उवाच - अथ वक्ष्... प्रणम्य देवं विप्रेशं प्र... गोप्य ऊचुः - श्रीकृष्णस्... अथातः सम्प्रवक्षामि कवचं ... श्रीशाण्डिल्य उवाच । शान... ॐ श्रीगणेशाय नमः । श्रीग... श्रीविष्णुरुवाच । संसारम... ॥ अथ सङ्ग्रामविजयविद्या ॥... श्रीआनन्दभैरव उवाच शैलजे... श्रीदेव्युवाच- भगवन्देवद... श्रीआनन्दभैरव उवाच कथितं... श्रीगणेशाय नमः । ॐ अस्य ... श्रीसरस्वतीकवचं भैरव उवाच - शृणु देव... नारद उवाच - श्रुतं सर्वं... ॥ ॐ नम उमङ्गेश्वर्यै ॥ ... ॥ गुरु ध्यानम् ॥ ध्या... ॥ श्रीमदानन्दरामायणान्तर्... प्रसीद भगवन् ब्रह्मन् सर्... ॐ अस्य श्री सुदर्शन कवच म... ॐ अस्य श्री सुदर्शनकवचमाल... श्रीकृष्णाय नमः ॥श्रीगोपी... श्रीगणेशाय नमः । श्रीलक्ष... ॥ॐ नमस्सुब्रह्मण्याय ॥ ... ॐ श्रीगणेशाय नमः । नारद ... अस्य श्री सुब्रह्मण्यकवचस... श्रीगणेशाय नमः ॥ श्रीसूर... वज्रपञ्जराख्यसूर्यकवचम् ।... घृणिर्मे शीर्षकं पातु सूर... ॐ अस्य श्रीसूर्यनारायणदिव... बृहस्पतिरुवाच । इन्द्र श... श्रीगणेशाय नमः । याज्ञवल... ॐ श्रीगणेशाय नमः । श्रीग... कैलासशिखरे रम्ये सुखासीनं... गणेश्वर उवाच । कनककुण... श्रीरामदास उवाच - एकदा स... सनत्कुमार उवाच । कार्तवी... अस्य श्रीहयग्रीवकवचमहामन्... ॥ अथ श्री हयग्रीवकवचम् ॥ ... श्रीगणेशाय नमः । ईश्वर उ... अथ चतुरशीतितमः पटलः श्री... दिव्यमङ्गलाख्यम् - ॥ श्रीगणेशाय नमः ॥ ऋष... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र गङ्गाकवचम् दिव्यमङ्गलाख्यम् Translation - भाषांतर ॥ श्रीगणेशाय नमः ॥ ऋषय ऊचुः -- भगवन्! सर्वधर्मज्ञ! सर्वशास्त्रविशारद! । श्रीगङ्गायास्तु कवचं ब्रूहि नो वदतां वर! ॥१॥ गुप्तं सहस्रनामाख्यं स्तोत्रं परमपावनम् । इदानीं श्रोतुमिच्छामि गङ्गायाः कवचं शुभम् ॥२॥ यस्य श्रवणमात्रेण गङ्गादेवी प्रसीदति । पापानि च विलीयन्ते वर्धन्ते धनसम्पदः ॥३॥ सनत्कुमार उवाच -- शृणुध्वं मुनयः सर्वे गुह्याद्गुह्यतरं परम् । जाह्नव्या दिव्यकवचं भुक्तिमुक्तिफलप्रदम् ॥४॥ ॐ अस्य श्रीगङ्गाकवचमन्त्रस्य श्रीसदाशिव ऋषिरनुष्टुप् छन्दः संसारतारिणी श्रीगङ्गा देवता श्री बीजं गं शक्तिः गामिति कीलकं मम सकलपापक्षयपूर्वकं मोक्षसाधने जपे विनयोगः ॥ अथ ध्यानं प्रवक्ष्यामि गङ्गायाः सुरदुर्लभम् । यत् कृत्वा मुनयः सम्यक् परां सिद्धिमितो गताः ॥६॥ नेत्रत्रयोद्भासितचारुदेहां श्वेताम्बरां चन्द्रकलात्मिकां च । माणिक्यमुक्ताफलभूषिताङ्गी श्वेतातपत्रां करुणारसार्द्राम् ॥७॥ सूर्येन्दुकोटिद्युतिमङ्गनाभिः सचामराभिः परिवीज्यमानाम् । चतुर्भुजां हस्तचतुष्टयेन वराभये पद्मयुगं दधानाम् ॥८॥ दिव्यानुलेपेन विभूषिताङ्गी दिव्यां दधानां स्रजमादिशक्तिम् । सुरैरनेकैरृषिभिश्च दिव्यैर्निषेव्यमानामुपचारयोगैः ॥९॥ नानाविधान्पातकिनः प्रपत्रान् सन्तारयन्ती करुणादृशार्द्राम् । ध्यायेदिमां पूर्णशशांङ्कशुभ्रां नदैर्नदीभिः परिसेव्यमानाम् ॥१०॥ एवं ध्यात्वा महादेवी गङ्गां त्रिभुवनेश्वरीम् । जपेन्मन्त्रं महादेव्यास्तस्योद्धारो निरूप्यते ॥११॥ प्रणवो वाग्भवं माया कामबीजं नमः पदम् । भगवत्यम्बिके अम्बालिके पदमथोद्धरेत् ॥१२॥ महामालिनि तस्यान्त एह्योहि पदमुद्धरेत् । अशेषतीर्थालवाले मायालक्ष्मीर्मनोभवः ॥१३॥ ततः शिवजटाजूटाधिरूढे पदमुद्धरेत् । गङ्गे गङ्गाम्बिके स्वाहा मनुर्द्विकरणाक्षरः ॥१४॥ सर्वसम्पत्प्रदः सर्वपातकौघविनाशनः । सर्वकल्याणनिलयो गङ्गासान्निध्यकारकः ॥१५॥ एतस्य मन्त्रराजस्य महादेव ऋषिः स्वयम् । विराट् छन्दः स्मृतं देवी जाह्नवी देवता स्वयम् ॥१६॥ तारो बीजं वाग्भवं च शक्तिर्माया च कीलकम् । तारकं कामबीजं च मुक्तौ च विनियोगकः ॥१७॥ कुर्यात् षडंङ्ग मन्त्रं स्वमायया प्रणवाद्यया । षड्दीर्घभिनयात्पश्चाज्जपेन्मन्न्त्रं शताष्टकम् ॥१८॥ ततस्तु कवचं देव्याः पठेत् सर्वार्थसिद्धये । तदहं संप्रवक्ष्यामि शृणुध्वं मुनिपुङ्गवाः ॥१९॥ प्राच्यां श्रीजाह्नवी पातु याम्यां गङ्गा सदाऽवतु । भीष्मसूः पश्चिमायां मे उदीच्यां सुरनिम्नगा ॥२०॥ भागीरथ्यग्निकोणे मां त्रिस्रोताः पातु नैरृते । वायव्ये मां श्वेतवासा ईशाने त्रिपथस्थिता ॥२१॥ ब्रह्मगङ्गा चोर्ध्द्वदेशमधः पातालजाह्नवी । दिग्विदिक्प्रान्तराले मां गङ्गा स्वर्गगताऽवतु ॥२२॥ हृदस्ते पातु मे केशानभयं मे शिरोऽवतु । भालं मे कमलं पातु ध्रुवौ चन्द्रकलाऽवतु ॥ नेत्रे पातु जगद्धात्री ममोष्ठं विजयाऽवतु । विष्णुः पद्मधरं पातु श्रोत्रे पातु सुदर्शना ॥२३॥ मन्दाकिनी दन्तपङ्क्तिं स्वर्गगागण्डयुग्मकम् । सुधाजला पातु जिह्वां वाणी पातु मुखं मम ॥२४॥ तोतला तालुदेशं मे चिबुकं सर्वमङ्गला । मन्दाकिनी वक्त्रवृत्तं व्योम-गङ्गाजलं मम ॥२५॥ कृकोटिकां कल्मषघ्नी स्कन्धयोः सुरनिम्नगा । कौर्मी पातु भुजद्वन्द्वं पाण्योः फलकमीश्वरी ॥२६॥ कराङ्गुलीः पातु चान्द्री नखानाकाशचन्द्रिका । सूर्यमण्डलगा पातु कक्षां सागरतारिणी ॥२७॥ वक्षःस्थलं पातु नित्यं देवी मेऽलकनन्दिका । हृदयं पातु चक्षुमें सीता पातूदरं मम ॥२८॥ पार्श्वयोः पर्वतद्रावा स्तनौ सोमेश्वरी तथा । जगदुद्धारिणी नाभिं पृष्टं मकरवाहना ॥२९॥ विष्णुशक्तिः कटिं पातु स्फिचौ पातु दयाम्बुधिः । विष्णु पादाब्जसम्भूता गुह्यं मे परिरक्षतु ॥३०॥ कृपाकोमलगात्री सा मूलाधारं ममावतु । स्वाधिष्ठानं पातु नित्यं पापादथ दवानला ॥३१॥ पायान्मे मणिपूरं सा शान्तनोः सुखवर्धिनी । अनाहतं सदा पायाद् भगीरथनिषेविता ॥३२॥ विशुद्धचक्रं मे पातु वशिष्ठोपासिताम्बिका । आज्ञाचक्रं मम प्रीत्या विश्वामित्रार्चिताऽवतु ॥३३॥ ब्रह्मरन्ध्रं सदा पातु स्रवत्पीयूषमन्दिरम् । स्वयम्भूलिङ्गिनी लिङ्गं कुण्डली परदेवता ॥३४॥ पतितोद्धारिणी पातु जठरं शङ्करप्रिया । जटालङ्कारिणी शम्भोरुरूयुग्मं ममावतु ॥३५॥ जानू मृडानी मे पातु जङ्घे पातु जगत्प्रसूः । लावण्यशेवधिः पातु गुल्फो गगनमेखला ॥३६॥ मत्स्यकक्षपहंसालिराजिता पातु पादयोः । पादांङ्गुलीः पातु नित्यं निश्रेणी समनोहरे ॥३७॥ रसासृङ्मांसमेदांसि पातु मे भवतारिणी । मनोबुद्धिमहन्तां मे पातु नारायणी सदा ॥३८॥ आयुः कल्याणदा पातु वयो रक्षतु वैष्णवी । भार्यां वृद्धिकरी पातु पुत्रान् वंशकरी मम ॥३९॥ गृहं रक्षतु लक्ष्मी में पातु क्षेत्रं शिवप्रिया । धर्मकर्त्री यशः पातु धर्मं पातु मनःस्विनी ॥४०॥ कुलं कुलेशी मे पातु सद्गतिं पातु सद्गतिः । जले स्थलेऽनलेऽरण्ये पाताले रणसङ्कटे ॥४१॥ दुर्गे गृहे जगन्नाथा पातु सर्वनदीश्वरी । अग्रतः पातु गङ्गोर्ध्वं पातु गङ्गा च पार्श्वयोः ॥४२॥ गङ्गैव पृष्ठतः पातु तथाधः पातु मे वपुः । इतीदं कवचं दिव्यं गङ्गायाः परमाद्भुतम् ॥४३॥ ऋषयः कथितं साक्षान्महापातकनाशनम् । एककालं द्विकालं वा त्रिकालं यः सदा पठेत् ॥४४॥ गङ्गायाः श्रावयेद्वापि तस्य पापं प्रणश्यति । वर्धन्ते सम्पदः सर्वाः सम्पद्यन्ते मनोरथाः ॥४५॥ जायते सिद्धयोऽष्टौ च नश्यन्ति विपदः क्षणात् । कुष्ठात् प्रमुच्यते कुष्ठी व्याधिभ्यश्चापि मुच्यते ॥४६॥ निर्मलं स्यान्मनस्तस्य विशुद्धं स्फटिकोपमम् । यस्य यस्य च देवस्य क्रियते पूजनं जपः ॥४७॥ तस्य तस्य प्रसादं सा गङ्गादेवी प्रयच्छति । पातकानामनेकानां प्रायश्चित्तं चिकीर्षुणा ॥४८॥ पठनीयं तु गङ्गायाः कवचं पातकापहम् । गङ्गामाहात्म्यविण्मन्त्री गङ्गा-कवचमभ्यसेत् ॥४९॥ स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । सर्वाणि तेन दानानि दत्तानि मुनिपुङ्गवाः ॥५०॥ श्रीविष्णुस्तोषितस्तेन तोषितस्तेन शङ्करः । अर्घ्यदानेन सन्तुष्टः कृतस्तेन दिवाकरः ॥५२॥ तस्य पापानि नश्यन्ति महान्त्यपि न संशयः । नाभिमात्रे जले स्थित्वा यो गङ्गाकवचं पठेत् ॥५३॥ स स्वप्ने पश्यति क्षिप्रं जाह्नवी पुरतः स्थिताम् । इदं कवचमज्ञात्वा गङ्गामन्त्रं जपेन्नरः ॥५४॥ सर्वविघ्नैः स बाध्यः स्याद्व्याघ्रैर्मृगंशिशुर्यथा । गङ्गा गङ्गेति यो ब्रूयाद् योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो हरिसायुज्यमाप्नुयात् ॥५५॥ इदं गङ्गाजले स्थित्वा कवचं यः सकृज्जपेत् । भूतप्रेतपिशाचादिबाधाभ्यो मुच्यते क्षणात् ॥५६॥ पितरस्तृप्तिमायान्ति कवचस्यास्य पाठतः । श्राद्धकाले पठेन्मर्त्यो नयेत्स्वर्गं पितामहान् ॥५७॥ भूर्जे लिखित्वा कवचं मस्तके धारयेद्यदि । यत्र तत्र विपन्नोऽपि वाराणस्यां मृतो भवेत् ॥५८॥ मुनिभिः कथितं देव्याः जाह्नव्याः कवचोत्तमम् । यूयं पठध्वं सततं सद्गतिं समवाप्स्यथ ॥५९॥ ॥ इति श्रीब्रह्माण्डपुराणे ऋषिसनत्कुमारसंवादे गङ्गाया दिव्यमङ्गलं नाम कवचं सम्पूर्णम् ॥ शुभमस्तु । शुभमस्तु सर्वजगतः । ॥ श्रीगङ्गायै नमः ॥ N/A References : N/A Last Updated : November 19, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP