संस्कृत सूची|
संस्कृत साहित्य|
कवच|
विन्यस्य व्यापकं सर्वैर्न...
जगन्नाथकवचम् - विन्यस्य व्यापकं सर्वैर्न...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
विन्यस्य व्यापकं सर्वैर्न्यासं कुर्यात्समाहितः । प्राणायामत्रयं कुर्यान्मूलेन पञ्चविंशतिम् ॥७७॥
बध्नीयात्कवचं दिव्यं सर्वपापापनोदनम् । पूर्वे मां पातु गोविन्दो वारिजाक्षस्तु दक्षिणे ॥७८॥
प्रद्युम्नः पश्चिमे पातु हृषीकेशस्तथोत्तरे । आग्नेय्यां नरसिंहस्तु नैरृत्यां मधुसूदनः ॥७९॥
वायव्यां श्रीधरः पातु ऐशान्यां च गदाधरः । ऊर्ध्वं त्रिविक्रमः पातु अधो वाराहरूपधृक् ॥२.३०.८०॥
सर्वत्र पातु मां देवः शङ्खचक्रगदाधरः । नारायणो मनः पातु चैतन्यं गरुडध्वजः ॥८१॥
पातु मे बुद्ध्यहङ्कारौ त्रिगुणात्मा जनार्दनः । इन्द्रियाणि सदा पातु दैत्यवर्गनिकृन्तनः ॥८२॥
एवं बद्ध्वा च कवचं निष्पापो जायते पुमान् । षोडशैरुपचारैश्च मनसा कल्पितैर्नरः ॥८३॥
इति श्रीस्कन्दपुराणे वैष्णवखण्डे पुरुषोत्तमजगन्नाथमाहात्म्ये त्रिंशाध्यायान्तर्गतं जगन्नाथकवचं समाप्तम् ।
स्कन्दपुराण । वैष्णवखण्ड । पुरुषोत्तमखण्ड । अध्याय ३०/७८-८२॥
N/A
References : N/A
Last Updated : November 24, 2025

TOP