संस्कृत सूची|संस्कृत साहित्य|कवच| द्वात्रिंशद्वर्णमन्त्रोऽय... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीगणेशाय नमः । श्रीदेव... विनियोगः - ॐ अस्य त्रैलो... श्रीलक्ष्मण उवाच । कृताञ... सगर उवाच । श्रुतं सर्वं ... श्रीगणेशाय नमः । श्रीदत्... श्रीपादः पातु मे पादावूरू... श्रीगणेशाय नमः । श्रीदत्... ॐ द्रां ॐ नमः, श्रीगुरुद... विनियोगः - ॐ अस्य श्रीमह... भैरव उवाच । कालिकाकवचस्य... विरूपाक्ष उवाच । नमामि ग... भैरव उवाच । कालिका या मह... श्रीपरमशिव उवाच । सर्पिः... श्रीभैरव उवाच । शणु देव... नारायण उवाच । शणु नारद ... श्रीगणेशाय नमः । ईश्वर उ... श्रीगणेशाय नमः । नारद उव... श्रीदेव्युवाच - पुरा श्र... श्री शिव उवाच - शणु देव... भगवन् देव देवेशकृपया त्वं... श्रीगणेशाय नमः । श्रीदुर्... ॐ अस्य श्री चण्डीकवचस्य ॥... देव्युवाच धनदा या महाविद... श्रीगणेशाय नमः । अथ धूमा... श्री गणेशाय नमः । श्रीमद... ब्रह्मोवाच । शिरो ... विनियोगः नागराजस्य देवस्... ॐ श्रीगणेशाय नमः । ॐ नमो... ॐ श्रीगणेशाय नमः । ॐ नमो... तन्त्रराजतन्त्रे अष्टाविं... निम्बार्क-कवचं वक्ष्ये मह... श्रीगणेशाय नमः । अथापरं ... नारद उवाच । इन्द्रादिदेव... ॥ श्रीगणेशाय नमः ॥ ॥ ... अस्य श्रीपञ्चमुखिवीरहनूमत... अस्य श्रीपञ्चमुखिहनुमत्कव... भगवन् ! सर्वमाख्यातं मन्त... श्रीगणेशाय नमः । श्रीभैर... अथ पञ्चाशीतितमः पटलः । श... ॥ श्रीमहा-त्रिपुर-सुन्दर्... ऋषय ऊचुः । अथ नाम्नां सह... देव्युवाच । भगवन् सर्वधर... सूत उवाच - सहस्रादित्यसङ... ॥ अथ बगलामुखीकवचम् ॥ ... कैलासाचलम्ध्यगम्पुरवहं शा... श्री गणेशाय नमः । श्री बग... श्रीगणेशाय नमः । अस्यश्र... श्रीगणेशाय नमः । श्रीपीता... उक्तं च भैरवतन्त्रे । मह... अस्य श्री बटुकभैरवकवचस्य ... देव्युवाच । देवदेव जगन्न... अस्य श्रीबटुकभैरवकवचस्य ... ॥ श्रीगणेशाय नमः ॥ ॥ ... अथ विनियोगः - अस्य श्रीब... दुर्योधन उवाच - गोपीभ्यः... अस्य बाणलिङ्ग कवचस्य संहा... शिवस्य कवचं स्तोत्रं श्रू... नन्दगोप उवाच । रक्षतु त्... वाग्भवः पातु शिरसि कामराज... श्रीपार्वत्युवाच- देवदेव... अस्य श्रीबालात्रिपुरसुन्द... बालार्कमण्डलाभासां चतुर्ब... श्रीभैरव उवाच- अधुना ते ... ॐ अस्य श्रीबालात्रिपुरसुन... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... ॐ श्रीब्रह्मणे नमः । कवच... श्री गणेशाय नमः । श्री बग... ॐ नमो भगवति वज्रशृङ्खले ... श्रीगणेशाय नमः । नारद... ॐ श्रीदेव्युवाच । ॐ भगवन... अगस्तिरुवाच- अतः परं भरत... श्रीगणेशाय नमः । श्री पा... गम्भीरो माहात्म्यात्प्रशम... श्रीगणेशाय नमः । देव्युव... श्रीदेव्युवाच- भगवन्, पर... पार्वत्युवाच - देव देव म... श्रीगणेशाय नमः । श्रीदेव... श्रीपार्वत्युवाच - देवदे... श्रीगणेशाय नमः । अस्य श्... मल्हारिकवचम् श्रीगणेशाय ... ॐ श्रीगणेशाय नमः । श्रीभ... श्रीगणेशाय नमः । श्रीभैर... श्रीदेव्युवाच । देवदेव म... श्रीगणाधिपतये नमः । श्री... ॐ अस्य श्रीमहागणपतिमन्त्र... ॥ पूर्वपीठिका ॥ महादे... श्री गणेशाय नमः । भैरव उ... श्रीदेव्युवाच - भगवन् सर... श्री गणेशाय नमः । अस्य श... अन्नपूर्णाकवचम् - द्वात्रिंशद्वर्णमन्त्रोऽय... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र अन्नपूर्णाकवचम् Translation - भाषांतर द्वात्रिंशद्वर्णमन्त्रोऽयं शङ्करप्रतिभाषितः । अन्नपूर्णा महाविद्या सर्वमन्त्रोत्तमोत्तमा ॥१॥ पूर्वमुत्तरमुच्चार्य सम्पुटीकरणमुत्तमम् । स्तोत्रमन्त्रस्य ऋषिर्ब्रह्मा छन्दो त्रिष्टुबुदाहृतः ॥२॥ देवता अन्नपूर्णा च ह्रीं बीजमम्बिका स्मृता । स्वाहा शक्तिरिति ज्ञेयं भगवति कीलकं मतम् ॥३॥ धर्माऽर्थ-काम-मोक्षेषु विनियोग उदाहृतः । ॐ ह्रीं भगवति माहेश्वरि अन्नपूर्णायै स्वाहा । सप्तार्णवमनुष्याणां जपमन्त्रः समाहितः ॥४॥ अन्नपूर्णे इमं मन्त्रं मनुसप्तदशाक्षरम् । सर्व सम्पत्प्रदो नित्यं सर्वविश्वकरी तथा ॥५॥ भुवनेश्वरीति विख्याता सर्वाऽभीष्टं प्रयच्छति । हृल्लेखेयमिति ज्ञेयमोङ्काराक्षररूपिणी ॥६॥ कान्ति-पुष्टि-धना-ऽऽरोग्य यशांसि लभते श्रियम् । अस्मिन् मन्त्रे रतो नित्यं वशयेदखिलं जगत् ॥७॥ अङ्गन्यासः -- ॐ अस्य श्रीअन्नपूर्णामालामन्त्रस्य ब्रह्मा ऋषये नमः शिरसि । ॐ अन्नपूर्णादेवतायै नमः हृदये । ॐ ह्रीं बीजाय नमः नाभौ । ॐ स्वाहा शक्तये नमः पादयोः । ॐ धर्मा-ऽर्थ-काम-मोक्षेषु विनियोगाय नमः सर्वाङ्गे । करन्यासः -- ॐ ह्रां अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ ह्रँ मध्यमाभ्यां नमः । ॐ ह्रैं अनामिकाभ्यां नमः । ॐ ह्रीं कनिष्ठिकाभ्यां नमः । ॐ ह्रः करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः -ॐ ह्रां हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ इह शिखायै वषट् । ॐ ह्रैं कवचाय हुम् । ॐ ह्रौं नेत्रत्रयाय वौषट् । ॐ ह्रः अस्त्राय फट् । ध्यानम् - रक्तां विचित्रवसनां नवचन्द्रचूडां अन्नप्रदान-निरतां स्तनभारनम्राम् । नृत्यन्तमिन्दु सकलाभरणं विलोक्य हृष्टां भजे भगवतीं भव-दुःख-हन्त्रीम् । मालामत्रः -ॐ ऐं ह्रीं श्रीं क्लीं नमो भगवति माहेश्वरि अन्नपूर्णे ! ममाऽभिलषितमन्नं देहि स्वाहा । ॐ ऐं ह्रीं श्रीं क्लीं मन्दार-कल्प-हरिचन्दन-पारिजात-मध्ये शशाङ्क-मणिमण्डित-वेदिसंस्थे । अर्धेन्दु-मौलि-सुललाट-षडर्धनेत्रे भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥१॥ ॐ ऐं ह्रीं श्रीं क्लीं केयूर-हार-कनकाङ्गदकर्णपूरे काञ्चीकलाप- मणिकान्ति-लसद्दुकूले । दुग्धा-ऽन्नपात्र-वर-काञ्चन-दर्विहस्ते भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॐ क्लीं श्री ह्रीं ऐं ॐ ॥२॥ ॐ ऐं ह्रीं श्रीं क्लीं आली कदम्बपरिसेवित-पार्श्वभागे शक्रादिभिर्मुकुलिताञ्जलिभिः पुरस्तात् । देवि! त्वदीयचरणौ शरणं प्रपद्ये भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं ॐ क्लीं श्रीं ह्रीं ऐं ॐ ॥३॥ ॐ ऐं ह्रीं श्रीं क्लीं गन्धर्व-देवऋषि-नारद-कौशिकाऽत्रि-व्यासा- ऽम्वरीष-कलशोद्भव-कश्यपाद्याः । भक्त्या स्तुवन्ति निगमा-ऽऽगम-सूक्त- मन्त्रैर्भिक्षा प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं ॐ श्रीं ह्रीं ऐं ॐ ॥४॥ ॐ ऐं ह्रीं श्रीं क्लीं लीलावचांसि तव देवि! ऋगादिवेदाः सृष्ट्यादिकर्मरचना भवदीयचेष्टा । त्वत्तेजसा जगदिदं प्रतिभाति नित्यं भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥५॥ ॐ ऐं ह्रीं श्रीं क्लीं शब्दात्मिके शशिकलाभरणार्धदेहे शम्भो- रुरस्थल-निकेतननित्यवासे । दारिद्र्य-दुःखभयहारिणि का त्वदन्या भिक्षां प्रदेहि गिरिजे ! क्षुधिताय मह्यं क्लीं श्रीं ऐं ॐ ॥६॥ ॐ ऐं ह्रीं श्रीं क्लीं सन्ध्यात्रये सकलभूसुरसेव्यमाने स्वाहा स्वधासि पितृदेवगणार्तिहन्त्री । जाया सुताः परिजनातिथयोऽन्नकामाः भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥७॥ ॐ ऐं ह्रीं श्रीं क्लीं सद्भक्तकल्पलतिके भुवनं कवन्द्ये भूतेश- हृत्कमलमग्न-कुचाग्रभृङ्गे । कारुण्यपूर्णनयने किमुपेक्षसे मां भिक्षां प्रदेहि गिरजे क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥८॥ ॐ ऐं ह्रीं श्रीं क्लीं अम्ब! त्वदीय-चरणाम्बुज-संश्रयेण ब्रह्मादयो- ऽप्यविकलां श्रियमाश्रयन्ते । तस्मादहं तव नतोऽस्मि पदारविन्दे भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥९॥ ॐ ऐं ह्रीं श्रीं क्लीं एकाग्रमूलनिलयस्य महेश्वरस्य प्राणेश्वरि! प्रणत-भक्तजनाय शीघ्रम् । कामाक्षि-रक्षित-जगत्-त्रितयेऽन्नपूर्णे भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥१०॥ ॐ ऐं ह्रीं श्रीं क्लीं भक्त्या पठन्ति गिरिजादशकं प्रभाते मोक्षार्थिनो बहुजनाः प्रथितान्नकामाः । प्रीता महेशवनिता हिमशैल- कन्या तेषां ददाति सुतरां मनसेप्सितानि क्लीं श्रीं ह्रीं ऐं ॐ ॥११॥ इति श्रीशङ्कराचार्यविरचितमन्नपूर्णाकवचं समाप्तम् । N/A References : N/A Last Updated : November 17, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP