संस्कृत सूची|संस्कृत साहित्य|कवच|
श्री रामचन्द्र ऋषिः । श्र...

हनुमत् कवचम् - श्री रामचन्द्र ऋषिः । श्र...

रोज कवच स्तोत्राची पठण केल्याने जीवन सुरक्षित बनते.


श्री रामचन्द्र ऋषिः ।
श्री हनुमान् परमात्मा देवता ।
अनुष्टुप् छन्दः ।
मारुतात्मजेति बीजं ।
अञ्जनीसूनुरिति शक्तिः ।
लक्ष्मणप्राणदातेति कीलकं ।
रामदूतायेत्यस्त्रं ।
हनुमान् देवता इति कवचं ।
पिङ्गाक्षोमित विक्रम इति मन्त्रः ।
श्रीरामचन्द्र प्रेरणया रामचन्द्र प्रीत्यर्थं
मम सकल कामना सिद्ध्यर्थं  जपे विनियोगः ॥

करन्यासः ॥
ॐ हां अञ्जनीसुताय अङ्गुष्ठाभ्यां नमः ।
ॐ हीं रुद्र मूर्तये तर्जनीभ्यां नमः ।
ॐ हूं रामदूताय मध्यमाभ्यां नमः ।
ॐ हैं वायुपुत्राय  अनामिकाभ्यां नमः ।
ॐ हौं अग्निगर्भाय कनिष्ठिकाभ्यां नमः ।
ॐ हः ब्रह्मास्त्र निवारणाय करतल करपृष्ठाभ्यां नमः ॥

अङ्गन्यासः ॥
ॐ हां अञ्जनीसुताय हृदयाय नमः ।
ॐ हीं रुद्र मूर्तये शिरसे स्वाहा ।
ॐ हूं रामदूताय शिकायै वषट् ।
ॐ हैं वायुपुत्राय  कवचाय हुं ।
ॐ हौं अग्निगर्भाय नत्रत्रयाय वौषट् ।
ॐ हः ब्रह्मास्त्र निवारणाय अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ॥

अथ ध्यानम् ॥
ध्यायेत्बालदिवाकरद्युतिनिभं देवारिदर्पापहं
देवेन्द्र प्रमुखं प्रशस्तयशसं देदीप्यमानं रुचा ।
सुग्रीवादि समस्तवानरयुतं सुव्यक्त तत्त्वप्रियं
संसक्तारुण लोचनं पवनजं पीताम्बरालङ्कृतं ॥१॥
उद्यन् मार्ताण्डकोटि प्रकट रुचियुतं चारुवीरासनस्थं
मौञ्जी यङ्य़ोपवीताभरण रुचिशिखं शोभितं कुण्डलाङ्गं ।
भक्तानामिष्टदं तं प्रणतमुनिजनं वेदनाद प्रमोदं
ध्यायेदेवं विधेयं प्लवग कुलपतिं गोष्पदीभूत वार्धिं ॥२॥
वज्राङ्गं पिङ्गकेशाढ्यं स्वर्णकुण्डल मण्डितं
निगूढमुपसङ्गम्य पारावार पराक्रमं ॥३॥
स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिं ।
कुण्डल द्वय संशोभिमुखांभोजं हरिं भजे ॥४॥
सव्यहस्ते गदायुक्तं वामहस्ते कमण्डलुं ।
उद्यद् दक्षिण दोर्दण्डं हनुमन्तं विचिन्तयेत् ॥५॥

अथ मन्त्रः ॥
ॐ नमो हनुमते शोभिताननाय यशोलङ्कृताय
अञ्जनीगर्भ संभूताय ।
राम लक्ष्मणानन्दकाय ।
कपिसैन्य प्रकाशन पर्वतोत्पाटनाय ।
सुग्रीवसाह्यकरण परोच्चाटन ।
कुमार ब्रह्मचर्य ।
गंभीर शब्दोदय ।
ॐ ह्रीं सर्वदुष्टग्रह निवारणाय स्वाहा ।
ॐ नमो हनुमते एहि एहि ।
सर्वग्रह भूतानां शाकिनी डाकिनीनां
विशमदुष्टानां सर्वेषामाकर्षयाकर्षय ।
मर्दय मर्दय ।
छेदय छेदय ।
मर्त्यान् मारय मारय ।
शोषय शोषय ।
प्रज्वल प्रज्वल ।
भूत मण्डल पिशाचमण्डल निरसनाय ।
भूतज्वर प्रेतज्वर चातुर्थिकज्वर
ब्रह्मराक्षस पिशाचः छेदनः क्रिया विष्णुज्वर ।
महेशज्वरं छिन्धि छिन्धि ।
भिन्धि भिन्धि ।
अक्षिशूले शिरोभ्यन्तरे ह्यक्षिशूले गुल्मशूले
पित्तशूले ब्रह्म राक्षसकुल प्रबल
नागकुलविष निर्विषझटितिझटिति ।

ॐ ह्रीं फट् घेकेस्वाहा ।

ॐ नमो हनुमते पवनपुत्र वैश्वानरमुख
पापदृष्टि शोदा दृष्टि हनुमते घो अङ्य़ापुरे स्वाहा ।
स्वगृहे द्वारे पट्टके तिष्डतिष्ठेति तत्र
रोगभयं राजकुलभयं नास्ति ।
तस्योच्चारण मात्रेण सर्वे ज्वरा नश्यन्ति ।

ॐ ह्रां ह्रीं ह्रूं फट् घेघेस्वाहा ।

श्री रामचन्द्र उवाच
हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।
अधस्तु विष्णु भक्तस्तु पातु मध्यं च पावनिः ॥१॥
लङ्का विदाहकः पातु सर्वापद्भ्यो निरन्तरं ।
सुग्रीव सचिवः पातु मस्तकं वायुनन्दनः ॥२॥
भालं पातु महावीरो भृवोर्मध्ये निरन्तरं ।
नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ॥३॥
कपोले कर्णमूले च पातु श्रीरामकिङ्करः ।
नासाग्रं अञ्जनीसूनुः पातु वक्त्रं हरीश्वरः ॥४॥
वाचं रुद्रप्रियः पातु जिह्वां पिङ्गल लोचनः ।
पातु देवः फाल्गुनेष्टः चिबुकं दैत्यदर्पहा ॥५॥
पातु कण्ठं च दैत्यारिः स्कन्धौ पातु सुरार्चितः ।
भुजौ पातु महातेजाः करौ च चरणायुधः ॥६॥
नगरन् नखायुधः पातु कुक्षौ पातु कपीश्वरः ।
वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ॥७॥
लङ्का निभञ्जनः पातु पृष्ठदेशे निरन्तरं ।
नाभिं च रामदूतस्तु कटिं पात्वनिलात्मजः ॥८॥
गुह्यं पातु महाप्राङ्य़ो लिङ्गं पातु शिवप्रियः ।
ऊरू च जानुनी पातु लङ्काप्रसाद भञ्जनः ॥९॥
जङ्घे पातु कपिश्रेष्ठोः गुल्फौ पातु महाबलः ।
अचलोद्धारकः पातु पादौ भास्कर सन्निभः ॥१०॥
अङ्गान्यमित सत्वाढ्यः पातु पादरङ्गुलीस्तथा ।
सर्वाङ्गानि महाशूरः पातु रोमाणि चाक्मवित् ॥११॥
हनुमत् कवचं यस्तु पठेद् विद्वान् विचक्षणः ।
स एव पुरुषश्रेष्ठो भुक्तिं मुक्तिं च विन्दति ॥१२॥
त्रिकालमेककालं वा पठेन् मासत्रयं नरः ।
सर्वान् रिपून् क्षणान् जित्वा स पुमान् श्रियमाप्नुयात् ॥१३॥

इति श्री शतकोटिरामचरितांतर्गत
श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे
श्री हनुमत्कवचं संपूर्णं ॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP