संस्कृत सूची|संस्कृत साहित्य|कवच| नारद उवाच । भगवञ्छ... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीगणेशाय नमः । श्रीदेव... विनियोगः - ॐ अस्य त्रैलो... श्रीलक्ष्मण उवाच । कृताञ... सगर उवाच । श्रुतं सर्वं ... श्रीगणेशाय नमः । श्रीदत्... श्रीपादः पातु मे पादावूरू... श्रीगणेशाय नमः । श्रीदत्... ॐ द्रां ॐ नमः, श्रीगुरुद... विनियोगः - ॐ अस्य श्रीमह... भैरव उवाच । कालिकाकवचस्य... विरूपाक्ष उवाच । नमामि ग... भैरव उवाच । कालिका या मह... श्रीपरमशिव उवाच । सर्पिः... श्रीभैरव उवाच । शणु देव... नारायण उवाच । शणु नारद ... श्रीगणेशाय नमः । ईश्वर उ... श्रीगणेशाय नमः । नारद उव... श्रीदेव्युवाच - पुरा श्र... श्री शिव उवाच - शणु देव... भगवन् देव देवेशकृपया त्वं... श्रीगणेशाय नमः । श्रीदुर्... ॐ अस्य श्री चण्डीकवचस्य ॥... देव्युवाच धनदा या महाविद... श्रीगणेशाय नमः । अथ धूमा... श्री गणेशाय नमः । श्रीमद... ब्रह्मोवाच । शिरो ... विनियोगः नागराजस्य देवस्... ॐ श्रीगणेशाय नमः । ॐ नमो... ॐ श्रीगणेशाय नमः । ॐ नमो... तन्त्रराजतन्त्रे अष्टाविं... निम्बार्क-कवचं वक्ष्ये मह... श्रीगणेशाय नमः । अथापरं ... नारद उवाच । इन्द्रादिदेव... ॥ श्रीगणेशाय नमः ॥ ॥ ... अस्य श्रीपञ्चमुखिवीरहनूमत... अस्य श्रीपञ्चमुखिहनुमत्कव... भगवन् ! सर्वमाख्यातं मन्त... श्रीगणेशाय नमः । श्रीभैर... अथ पञ्चाशीतितमः पटलः । श... ॥ श्रीमहा-त्रिपुर-सुन्दर्... ऋषय ऊचुः । अथ नाम्नां सह... देव्युवाच । भगवन् सर्वधर... सूत उवाच - सहस्रादित्यसङ... ॥ अथ बगलामुखीकवचम् ॥ ... कैलासाचलम्ध्यगम्पुरवहं शा... श्री गणेशाय नमः । श्री बग... श्रीगणेशाय नमः । अस्यश्र... श्रीगणेशाय नमः । श्रीपीता... उक्तं च भैरवतन्त्रे । मह... अस्य श्री बटुकभैरवकवचस्य ... देव्युवाच । देवदेव जगन्न... अस्य श्रीबटुकभैरवकवचस्य ... ॥ श्रीगणेशाय नमः ॥ ॥ ... अथ विनियोगः - अस्य श्रीब... दुर्योधन उवाच - गोपीभ्यः... अस्य बाणलिङ्ग कवचस्य संहा... शिवस्य कवचं स्तोत्रं श्रू... नन्दगोप उवाच । रक्षतु त्... वाग्भवः पातु शिरसि कामराज... श्रीपार्वत्युवाच- देवदेव... अस्य श्रीबालात्रिपुरसुन्द... बालार्कमण्डलाभासां चतुर्ब... श्रीभैरव उवाच- अधुना ते ... ॐ अस्य श्रीबालात्रिपुरसुन... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... ॐ श्रीब्रह्मणे नमः । कवच... श्री गणेशाय नमः । श्री बग... ॐ नमो भगवति वज्रशृङ्खले ... श्रीगणेशाय नमः । नारद... ॐ श्रीदेव्युवाच । ॐ भगवन... अगस्तिरुवाच- अतः परं भरत... श्रीगणेशाय नमः । श्री पा... गम्भीरो माहात्म्यात्प्रशम... श्रीगणेशाय नमः । देव्युव... श्रीदेव्युवाच- भगवन्, पर... पार्वत्युवाच - देव देव म... श्रीगणेशाय नमः । श्रीदेव... श्रीपार्वत्युवाच - देवदे... श्रीगणेशाय नमः । अस्य श्... मल्हारिकवचम् श्रीगणेशाय ... ॐ श्रीगणेशाय नमः । श्रीभ... श्रीगणेशाय नमः । श्रीभैर... श्रीदेव्युवाच । देवदेव म... श्रीगणाधिपतये नमः । श्री... ॐ अस्य श्रीमहागणपतिमन्त्र... ॥ पूर्वपीठिका ॥ महादे... श्री गणेशाय नमः । भैरव उ... श्रीदेव्युवाच - भगवन् सर... श्री गणेशाय नमः । अस्य श... नारद उवाच । आविर्भूय हरि... सदाशिव ऋषिर्देवि उष्णिक्छ... शणुदेवि प्रवक्ष्यामि कवच... श्रीभगवानुवाच- अस्य मन्त... श्रीगणेशाय नमः । अथ महाश... श्रीदेव्युवाच- भगवन् देव... अथ वक्ष्ये महेशानि कवचं स... भैरव उवाच । शृणु देवि !... श्रीदेव्युवाच साधु साधु ... अस्य श्रीमातङ्गीकवचमन्त्र... श्रीगणेशाय नमः । श्रीपार... ॐ नमो भगवते विचित्रवीरहनु... ॐ नमोभगवते रुद्राय । राज... श्रीदेव्युवाच - भगवन् सर... ॐ सिद्धिः । ॐ नमो नरसिंह... एवमाराध्य गौरीशं देवं मृत... श्रीदेव्युवाच - भगवन् दे... ईश्वर उवाच - त्रिकालं गो... श्रीगणेशाय नमः ॥ भगवन... मान्धातोवाच - यमुनायाः क... योगनिद्रोवाच । दूरीभूतं ... उन्मत्तभैरव उवाच - शृणु... श्रीगणेशाय नमः । श्रीयोग... देव्युवाच - भगवन् श्रोतु... कवचं राघवेन्द्रस्य यतीन्द... अथ श्रीराघवेन्द्रार्यकवचं... अथ श्रीराघवेन्द्रार्यरक्ष... पार्वती उवाच- देवदेव महा... श्रीपार्वत्युवाच ॥ ॐ ... महेश्वर उवाच । श्रीजगन्म... श्रीगणेशाय नमः ॥ पार्... ॥ श्रीमदानन्दरामायणे मनोह... अस्य श्रीत्रैलोक्यमोहनवज्... कपिकटकधुरीणः कार्मुकन्यस्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॥ॐ श्रीगणेशाय नमः ॥ अ... इदं पवित्रं परमं भक्तानां... श्रीगणेशाय नमः ॥ ॐ अस... ॐ श्रीभैरव उवाच - शृणु ... भैरव उवाच - वक्ष्यामि दे... ॥अथ श्री रुद्रकवचम् ॥ ... पूर्वपीठिका - श्रीकार्ति... श्रीपार्वत्युवाच । देवदे... श्री देव्युवाच । जमदग... ॥श्री गणेशाय नमः ॥ शृ... ॥श्री गणेशाय नमः ॥ श... सनत्कुमार उवाच- अथ ते कव... अथ ते कवचं देव्या वक्ष्ये... ॥ अथ श्रीमदानन्दरामायणे म... श्रीगणेशाय नमः । ॐ अस्य ... श्रीगणेशाय नमः । ॐ अस्य ... अथ श्रीलक्ष्मीकवचप्रारम्भ... शुकं प्रति ब्रह्मोवाच महा... श्रीगणेशाय नमः । श्रीभैर... अथ श्रीनरसिंहकवचम् । श्र... नारद उवाच - भगवन् सर्वधर... श्री गणेशाय नमः । मौलिं ... श्रीगणेशाय नमः । श्रीभैर... आद्यं रङ्गमिति प्रोक्तं व... अस्य श्री सर्व वशीकरण स्त... ॐ श्रीगणेशाय नमः । ॐ श्र... अस्य श्रीवाराहीकवचस्य त्र... श्री नृसिंहाय नमः । ॐ अस... सूत उवाच । शिरो मे विठ्ठ... श्रीगणेशाय नमः । देव्युव... श्रीमत्परात्पर विश्वकर्मप... शौनक उवाच । किं स्तोत्रं... श्रीगणेशाय नमः ॥ नारद... हरिश्चन्द्रः - ब्रह्मन् ... पूर्वे नारायणः पातु वारिज... ॐ अस्य श्री वीरभद्रकवचमहा... आग्नेयपुराणे अस्य श्रीवे... हरिरुवाच । सर्वव्याधिहरं... श्रीगणेशाय नमः । गुहागरस... ऐश्वरं परमं तत्त्वमादिमध्... ॥ श्रीमदानन्दरामायणे मनोह... श्रीदेव्युवाच - श्रुतं व... विनियोगः । ॐ अस्य श्रीशन... ॐ श्रीगणेशाय नमः । श्री ... शक्र उवाच - शाकम्भर्यास्... श्रीवल्लभसोदरी श्रितजनश्च... ॐ महाशाबरी शक्ति परमात्मन... श्रीगणेशाय नमः । देव्युव... ॐ श्रीगणेशाय नमः । अथ शा... विनियोगः । अस्य श्रीशिवक... दधीचिरुवाच कवचं देवदेवस्... नारद उवाच- शिवस्य कवचं ब... श्रीदेव्युवाच - भगवन्देव... पार्वत्युवाच - भगवन् सर्... श्रीगणेशाय नमः । ॐ अस... श्रीशिवः उवाच - अथ वक्ष्... प्रणम्य देवं विप्रेशं प्र... गोप्य ऊचुः - श्रीकृष्णस्... अथातः सम्प्रवक्षामि कवचं ... श्रीशाण्डिल्य उवाच । शान... ॐ श्रीगणेशाय नमः । श्रीग... श्रीविष्णुरुवाच । संसारम... ॥ अथ सङ्ग्रामविजयविद्या ॥... श्रीआनन्दभैरव उवाच शैलजे... श्रीदेव्युवाच- भगवन्देवद... श्रीआनन्दभैरव उवाच कथितं... श्रीगणेशाय नमः । ॐ अस्य ... श्रीसरस्वतीकवचं भैरव उवाच - शृणु देव... नारद उवाच - श्रुतं सर्वं... ॥ ॐ नम उमङ्गेश्वर्यै ॥ ... ॥ गुरु ध्यानम् ॥ ध्या... ॥ श्रीमदानन्दरामायणान्तर्... प्रसीद भगवन् ब्रह्मन् सर्... ॐ अस्य श्री सुदर्शन कवच म... ॐ अस्य श्री सुदर्शनकवचमाल... श्रीकृष्णाय नमः ॥श्रीगोपी... श्रीगणेशाय नमः । श्रीलक्ष... ॥ॐ नमस्सुब्रह्मण्याय ॥ ... ॐ श्रीगणेशाय नमः । नारद ... अस्य श्री सुब्रह्मण्यकवचस... श्रीगणेशाय नमः ॥ श्रीसूर... वज्रपञ्जराख्यसूर्यकवचम् ।... घृणिर्मे शीर्षकं पातु सूर... ॐ अस्य श्रीसूर्यनारायणदिव... बृहस्पतिरुवाच । इन्द्र श... श्रीगणेशाय नमः । याज्ञवल... ॐ श्रीगणेशाय नमः । श्रीग... कैलासशिखरे रम्ये सुखासीनं... गणेश्वर उवाच । कनककुण... श्रीरामदास उवाच - एकदा स... सनत्कुमार उवाच । कार्तवी... अस्य श्रीहयग्रीवकवचमहामन्... ॥ अथ श्री हयग्रीवकवचम् ॥ ... श्रीगणेशाय नमः । ईश्वर उ... अथ चतुरशीतितमः पटलः श्री... त्रैलोक्यविजयं नामकवचम् - नारद उवाच ।  भगवञ्छ... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र श्रीकृष्ण / त्रैलोक्यविजयं नामकवचम् Translation - भाषांतर नारद उवाच । भगवञ्छ्रोतुमिच्छामि किं मन्त्रं भगवान्हरः । कृपया-ऽदात् परशुरामाय स्तोत्रं च वर्म च ॥१॥ कोवाऽस्य मन्त्रस्याराध्यः किं फलं कवचस्य च । स्तवनस्य फलं किं वा तद्भवान्वक्तुमर्हसि ॥२॥ नारायण उवाच । मन्त्राराध्यो हि भगवान् परिपूर्णतमः स्वयम् । गोलोकनाथः श्रीकृष्णो गोप-गोपीश्वरः प्रभुः ॥३॥ त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् । स्तवराजं महापुण्यं भूतियोग-समुद्भवम् ॥४॥ मन्त्रं कल्पतरुं नाम सर्वकाम-फलप्रदम् । ददौ परशुरामाय रत्नपर्वत-सन्निधौ ॥५॥ स्वयंप्रभा-नदीतीरे पारिजात-वनान्तरे । आश्रमे लोकदेवस्य माधवस्य च सन्निधौ ॥६॥ महादेव उवाच । वत्सागच्छ महाभाग भृगुवंश-समुद्भव । पुत्राधिकोऽसि प्रेम्णा मे कवचग्रहणं कुरु ॥७॥ शृणु राम प्रवक्ष्यामि ब्रह्माण्डे परमाद्भुतम् । त्रैलोक्यविजयं नाम श्रीकृष्णस्य जयावहम् ॥८॥ श्रीकृष्णेन पुरा दत्तं गोलोके राधिकाश्रमे । रासमण्डल-मध्ये च मह्यं वृन्दावने वने ॥९॥ अतिगुह्यतरं तत्त्वं सर्व-मन्त्रौघविग्रहम् । पुण्यात्पुण्यतरं चैव परं स्नेहाद्वदामि ते ॥१०॥ यद्धृत्वा पठनाद्देवी मूलप्रकृतिरीश्वरी । शुंभं निशुंभं महिषं रक्तबीजं जघान ह ॥११॥ यद्धृत्वाऽहं च जगतां संहर्ता सर्वतत्ववित् । अवध्यं त्रिपुरं पूर्वं दुरन्तमपि लीलया ॥१२॥ यद्धृत्वा पठनाद्ब्रह्मा ससृजे सृष्टिमुत्तमाम् । यद्धृत्वा भगवाञ्छेषो विधत्ते विश्वमेव च ॥१३॥ यद्धृत्वा कूर्मराजश्च शेषं धत्ते हि लीलया । यद्धृत्वा भगवान्वायुः विश्वाधारो विभुः स्वयम् ॥१४॥ यद्धृत्वा वरुणः सिद्धः कुबेरश्च धनेश्वरः । यद्धृत्वा पठनादिन्द्रो देवानामधिपः स्वयम् ॥१५॥ यद्धृत्वा भाति भुवने तेजोराशिः स्वयं रविः । यद्धृत्वा पठनाच्चन्द्रो महाबल-पराक्रमः ॥१६॥ अगस्त्यः सागरान्सप्त यद्धृत्वा पठनात्पपौ । चकार तेजसा जीर्णं दैत्यं वातापिसंज्ञकम् ॥१७॥ यद्धृत्वा पठनाद्देवी सर्वाधारा वसुन्धरा । यद्धृत्वा पठनात्पूता गङ्गा भुवनपावनी ॥१८॥ यद्धृत्वा जगतां साक्षी धर्मो धर्मभृतां वरः । सर्व-विद्याधिदेवी सा यच्च धृत्वा सरस्वती ॥१९॥ यद्धृत्वा जगतां लक्ष्मी-रन्नदात्री परात्परा । यद्धृत्वा पठनाद्वेदान् सावित्री सा सुषाव च ॥२०॥ वेदाश्च धर्मवक्तारो यद्धृत्वा पठनाद् भृगो । यद्धृत्वा पठनाच्छुद्ध-स्तेजस्वी हव्यवाहनः । सनत्कुमारो भगवान्यद्धृत्वा ज्ञानिनां वरः ॥२१॥ दातव्यं कृष्ण-भक्ताय साधवे च महात्मने । शठाय परशिष्याय दत्वा मृत्युमवाप्नुयात् ॥२२॥ त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः । ॠषिश्छन्दश्च गायत्री देवो रासेश्वरः स्वयम् ॥२३॥ त्रैलोक्यविजय-प्राप्तौ विनियोगः प्रकीर्तितः । परात्परं च कवचं त्रिषु लोकेषु दुर्लभम् ॥२४॥ ॐ प्रणवो मे शिरः पातु श्रीकृष्णाय नमः सदा । पायात्कपालं कृष्णाय स्वाहा पञ्चाक्षरः स्मृतः ॥२५॥ कृष्णेति पातु नेत्रे च कृष्ण स्वाहेति तारकम् । हरये नम इत्येवं भ्रूलतां पातु मे सदा ॥२६॥ ॐ गोविन्दाय स्वाहेति नासिकां पातु सन्ततम् । गोपालाय नमो गण्डौ पातु मे सर्वतः सदा ॥२७॥ ॐ नमो गोपाङ्गनेशाय कर्णौ पातु सदा मम । ॐ कृष्णाय नमः शश्वत्पातु मेऽधर-युग्मकम् ॥२८॥ ॐ गोविन्दाय स्वाहेति दन्तौघं मे सदाऽवतु । पातु कृष्णाय दन्ताधो दन्तोर्ध्वं क्लीं सदाऽवतु ॥२९॥ ॐ श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा । रासेश्वराय स्वाहेति तालुकं पातु मे सदा ॥३०॥ राधिकेशाय स्वाहेति कण्ठं पातु सदा मम । नमो गोपाङ्गनेशाय वक्षः पातु सदा मम ॥३१॥ ॐ गोपेशाय स्वाहेति स्कन्धं पातु सदा मम । नमः किशोर-वेषाय स्वाहा पृष्टं सदाऽवतु ॥३२॥ उदरं पातु मे नित्यं मुकुन्दाय नमः सदा । ॐ ह्रीं क्लीं कृष्णाय स्वाहेति करौ पातु सदा मम ॥३३॥ ॐ विष्णवे नमो बाहुयुग्मं पातु सदा मम । ॐ ह्रीं भगवते स्वाहा नखं पातु मे सदा ॥३४॥ ॐ नमो नारायणायेति नखरन्ध्रं सदाऽवतु । ॐ श्रीं क्लीं पद्मनाभाय नाभिं पातु सदा मम ॥३५॥ (ह्रीं ह्रीं) ॐ सर्वेशाय स्वाहेति कङ्कालं पातु मे सदा । ॐ गोपीरमणाय स्वाह नितम्बं पातु मे सदा ॥३६॥ ॐ गोपीरमणनाथाय पादौ पातु सदा मम । ॐ ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु।३७ ॥ ॐ केशवाय स्वाहेति मम केशान्सदाऽवतु । नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदाऽवतु ॥३८॥ ॐ माधवाय स्वाहेति मे लोमानि सदाऽवतु । ॐ ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु ॥३९॥ परिपूर्णतमः कृष्णः प्राच्यां मां सर्वदाऽवतु । स्वयं गोलोकनाथो मामाग्नेयां दिशि रक्षतु ॥४०॥ पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदाऽवतु । नैरॄत्यां पातु मां कृष्णः पश्चिमे पातु मां हरिः ॥४१॥ गोविन्दः पातु मां शश्वद्वायव्यां दिशि नित्यशः । उत्तरे मां सदा पातु रसिकानां शिरोमणिः ॥४२॥ ऐशान्यां मां सदा पातु वृन्दावन-विहारकृत् । वृन्दावनी-प्राणनाथः पातु मामूर्ध्वदेशतः ॥४३॥ सदैव माधवः पातु बलिहारी महाबलः । जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा ॥४४॥ स्वप्ने जागरणे शश्वत्पातु मां माधवः सदा । सर्वान्तरात्मा निर्लिप्तः पातु मां सर्वतो विभुः ॥४५॥ इति ते कथितं वत्स सर्वमन्त्रौघ-विग्रहम् । त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥४६॥ मया श्रुतं कृष्ण-वक्त्रात् प्रवक्तव्यं न कस्यचित् । गुरुमभ्यर्च्य विधिवत् कवचं धारयेत् यः ॥४७॥ कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः । स च भक्तो वसेद्यत्र लक्ष्मीर्वाणी वसेत्ततः ॥४८॥ यदि स्यात्सिद्धकवचो जीवन्मुक्तो भवेत्तु सः । निश्चितं कोटिवर्षाणां पूजायाः फलमाप्नुयात् ॥४९॥ राजसूय-सहस्राणि वाजपेय-शतानि च । अश्वमेधायुतान्येव नरमेधायुतानि च ॥५०॥ महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा । त्रैलोक्यविजयस्यास्य कलां नार्हन्ति षोडशीम् ॥५१॥ व्रतोपवास-नियमं स्वाध्यायाध्ययनं तपः । स्नानं च सर्वतीर्थेषु नास्यार्हन्ति कलामपि ॥५२॥ सिद्धत्वममरत्वं च दासत्वं श्रीहरेरपि । यदि स्यात्सिद्धकवचः सर्वं प्राप्नोति निश्चितम् ॥५३॥ स भवेत्सिद्धकवचो दशलक्षं जपेत्तु यः । यो भवेत्सिद्धकवचः सर्वज्ञः स भवेद्ध्रुवम् ॥५४॥ इदं कवच-मज्ञात्वा भजेत्कृष्णं सुमन्दधीः । कोटिकल्पं प्रजप्तोऽपि न मन्त्रः सिद्धि-दायकः ॥५५॥ गृहीत्वा कवचं वत्स महीं निःक्षत्रियं कुरु । त्रिस्सप्तकृत्वो निश्शंकः सदानन्दो हि लीलया ॥५६॥ राज्यं देयं शिरो देयं प्रणा देयाश्च पुत्रक । एवंभूतं च कवचं न देयं प्राणसंकटे ॥५७॥ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारद-नारायणसंवादे परशुरामाय श्रीकृष्णकवच- प्रदानं नाम एकत्रिंशत्तमोऽध्ययः ॥ N/A References : N/A Last Updated : November 19, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP