संस्कृत सूची|संस्कृत साहित्य|कवच|
मुनिरुवाच । ध्यायेत् सिं...

गणेशकवचम् - मुनिरुवाच । ध्यायेत् सिं...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

मुनिरुवाच । ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे (वन्दे सिंहगतं) त्रेतायान्तु मयूरवाहनमिमं षड्बाहुकं सिद्धिदम् । द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुं तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥१८॥
विनायकः शिखां पातु परमात्मा परात्परः । अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ॥१९॥
ललाटं काश्यपः पातु भ्रूयुगन्तु महोदरः । नयने भालचन्द्रस्तु गजास्यत्वोष्ठपल्लवौ ॥२०॥
जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः । वाचं विनायकः पातु दन्तान् रक्षतु दुर्मुखः ॥२१॥
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः । गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः ॥२२॥
स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः । हृदयं गणनाथस्तु हेरम्बो जठरं महान् ॥२३॥
धराधरः पातु पार्श्वे पृष्ठं विघ्नहरः शुभः । लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥२४॥
गणक्रीडो जानुजङ्घे ऊरुमङ्गलमूर्तिमान् । एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ॥२५॥
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः । अङ्गुलीश्च नखान् पातु पद्महस्तोऽरिनाशनः ॥२६॥
सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु । अनुक्तमपि यत् स्थानं धूम्रकेतुः सदाऽवतु ॥२७॥
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु । प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ॥२८॥
दक्षिणस्यामुमापुत्रो नैरृत्यां तु गणेश्वरः । प्रतीच्यां विघ्नहर्ताऽव्याद् वायव्यां गजकर्णकः ॥२९॥
कौबेर्य्यां निधिपः पायादीशान्यामीशनन्दनः । दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् ॥३०॥
राक्षसासुरवेतालग्रहभूतपिशाचतः । पाशाङ्कुशधरः पातु रजः सत्त्वं तमः स्मृतिम् ॥३१॥
ज्ञानं धर्मञ्च लक्ष्मीञ्च लज्जां कीर्तिं दयां कुलम् । वपुर्धनं चधान्यं चगृहान् दारान् सुतान् सखीन् ॥३२॥
सर्वायुधधरः पौत्रान् मयूरेशोऽवतात् सदा । कपिलोऽजाविकं पातु गवाश्वं विकटोऽवतु ॥३३॥
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः । न भयं जायते तस्य यक्षरक्षः पिशाचतः ॥३४॥
त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् । यात्राकाले पठेद् यस्तु निर्विघ्नेन फलं लभेत् ॥३५॥
युद्धकाले पठेद्यस्तु विजयं प्राप्नुयाद् ध्रुवम् । मारणोच्चाटनाकर्षस्तम्भमोहनकर्मणि ॥३६॥
सप्तवारं पठेद् यस्तु दिनानामेकविंशतिम् । तत् तत् फलमवाप्नोति साधको नात्र संशयः ॥३७॥
एकविंशतिवारञ्च पठेत् तावद् दिनानि यः । कारागृहगतं सद्यो राज्ञा वध्यं चमोचयेत् ॥३८॥
राजदर्शनवेलायां पठेदेतत् त्रिवारतः । स राजानं वशं नीत्वा प्रकृतिं चसभां जयेत् ॥३९॥
इदं गणेशकवचं मुद्गलेन समीरितम् । कश्यपाय च तेनाऽथ माण्डव्याय महर्षये ॥४०॥
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् । न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥
सर्वरक्षाकरं सर्वमनःकामप्रपूरकम् ॥४१॥
अनेनास्य कृता रक्षा न बाधाऽस्य भवेत् क्वचित् । राक्षसासुरवेतालदैत्यदानवसम्भवा ॥४२॥
इति श्रीगणेशपुराणान्तर्गतं मुद्गलकृतं गणेशकवचं सम्पूर्णम् ।
- ॥श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः ८५ । २.८५ १८-४२॥

N/A

References : N/A
Last Updated : November 19, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP