सैनिका भयनाम्रो ये बर्हिष्मन दिष्टकारिणः ।
प्रज्वारकालकन्याभ्यां विचेरुरवनीमिमाम ॥१॥
त एकद तु रभसा पुरत्र्जनपुरीं नृप ।
रुरुधुर्भौमभोगाढ्यां जरत्पन्नगपालिताम ॥२॥
कालकन्यापि बुभुजे पुरत्र्जनपुरं बलात ।
ययाभिभुतः पुरुषः सद्यो निःसारतामियात ॥३॥
तयोपभुज्यमानां वै यवानाः सर्वतोदिशम ।
द्वार्भिः प्रविश्य सुभृंश प्रार्दयन सकलां पुरीम ॥४॥
तस्यां प्रपीड्यामानायामभिमानी पुरत्र्जनः ।
अवापोरुविधास्तांपान कुटुम्बी ममताकुलः ॥५॥
कन्योपगुढो नष्टश्रीः कृपणो विषयात्मकः ।
नष्टप्रज्ञो हृतैश्वर्यो गन्धर्वयवनैर्बलात ॥६॥
विशीर्णां स्वपुरीं वीक्ष्य प्रतिकुलाननादृतान ।
पुत्रान पौत्रानुगामात्यात्र्जायां च गतसौहृदाम ॥७॥
आत्मानं कन्ययां ग्रस्तं पंचालानरिदुषितान ।
दुरन्तचिन्तामापन्नौ न लेभे तत्प्रतिक्रियाम ॥८॥
कामनाभिलषन्दीनो यातयामांश्च कन्यया ।
विगतात्मगतिस्नेहः पुत्रदारंश्च लालयन ॥९॥
गन्धर्वयवनाक्रान्तां कालकन्योपमर्दिताम ।
हातुं प्रचक्रमे राजा तं पुरीमनिकामतः ॥१०॥
भयनाम्रोऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः ।
ददाह तां पुरीं कृत्स्नां भ्रातुः प्रियचिकीर्षया ॥११॥
तस्यां सन्दह्यामानायां सपौरः सपरिच्छद ।
कौटुंबिक कुटुम्बिंन्या उपातप्यत सान्वयः ॥१२॥
यवनोपरुद्धायतनो ग्रस्तायां कालकन्यया ।
पुर्यां प्रज्वरसंसृष्टः पुरपालोऽन्वतप्यत ॥१३॥
न शेके सोऽवितुं तत्र पुरुकृच्छ्रोरुवेपथुः ।
गन्तुमैच्छत्ततो वृक्षकोटरादिव सानलात ॥१४॥
शिथिलावयवो यर्हि गन्धर्वैर्हृतपौरुषः ।
यवनैररिभी राजन्नुपरुद्धो रुरोद ह ॥१५॥
दुहितृः पुत्रपौत्रांश्च जामिजामातृपार्षदान ।
स्वत्वावशिष्टं यत्किचिद गृहकोशपरिच्छदम ॥१६॥
अहं ममेति स्वीकृत्य गृहेषु कुमतिर्गृही ।
दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते ॥१७॥
लोकान्तरं गतवति मय्यनाथा कुटुम्बिनी ।
वर्तिष्यते कथं त्वेषा बालकाननुशोचती ॥१८॥
न मय्यनाशिते भूक्ते नास्नाते स्नाति मत्परा ।
मयि रुष्टे सुसंत्रस्ता भत्सिते यतवाग्भयात ॥१९॥
प्रबोधयाति माविज्ञं व्युषिते शोककर्शिता ।
वत्मैतद गृहमेधीय वीरसुरपि नेष्यति ॥२०॥
कथं नु दारक दीना दारकीर्वापरायणा ।
वर्तिष्यन्ते मयि गते भिन्न नाव इवोदधौ ॥२१॥
पशुपद्यननैरेष नीयमानः स्वकं क्षयम ।
अन्वद्रवन्ननुपथाः शौचन्तो भृषमातुराः ॥२३॥
पुरीं विहायोपगत उपरुद्धो भुजंगमः ।
यदा तमेवानु पुरी विशीर्णा प्रकृति गता ॥२४॥
विकृष्यमाणः प्रसभं यवनेन बलीयसा ।
नाविन्दत्तमसाऽऽविष्टः सखायं सुहृदं पुरः ॥२५॥
तं यज्ञपशवोऽनेन संज्ञप्ता येऽदयालुना ।
कुठारैश्चिच्छिदुः क्रुद्धाः स्मरन्तोऽमीवमस्य तत ॥२६॥
अनन्तपारे तमसि मग्नो नष्टस्मृतिः समाः ।
शाश्वतीरनुभुयार्तिं प्रमदासंगदुषितः ॥२७॥
तामेव मनसा गृह्णान बभुव प्रमदोत्तमा ।
अनन्तरं विदर्भस्य राजसिंहस्य वेश्मनि ॥२८॥
उपयेमे वीर्यपणां वैदर्भी मलयध्वजः ।
युधि निर्जित्य राजन्यान पाण्ड्यः परपुरत्र्जयः ॥२९॥
तस्यां स जनयात्र्चक्र आत्मजामसितेक्षणाम ।
यवीयसः सप्त सुतान सप्त द्रविडभृभुतः ॥३०॥
एकैक स्याभवत्तेषां राजन्नर्बुदमर्बुदम ।
भोक्ष्यते यद्वंशधर्मही मन्वन्तर परम ॥३१॥
अगस्त्यः प्राग्दुर्हितरमुपयेमे धृतव्रताम ।
यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः ॥३२॥
विभज्य तनयेभ्यः क्ष्मां राजर्षिर्मलयध्वजः ।
आरिराधयिषुः कृष्णं स जगाम कुलाजलम ॥३३॥
हित्वा गृहान सुतान भोगान वैदर्भी मर्दिरेक्षणा ।
अन्वधावत पाण्डयेशं ज्योत्स्नेह रजनीकरम ॥३४॥
तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका ।
तत्पुण्यसलिलैर्नित्यमुभयत्रात्मनो मृजन ॥३५॥
कन्दाष्टिभिर्मुलफलैः पुष्पपर्णैस्तृणोदकैः ।
वर्तमानः शनैर्गात्रकर्षणं तप आस्थितः ॥३६॥
शीतोष्णवातवर्षाणि क्षुप्तिपासे प्रियाप्रिये ।
सुखदुःखे इति द्वन्द्वान्यजयत्समदर्शनः ॥३७॥
तपसा विद्यया पक्वकषायो नियमैर्यमैः ।
युयुजे ब्रह्माण्यात्मानं विजिताक्षानिलाशयः ॥३८॥
आस्ते स्थाणुरिवैकत्र दिव्यं वर्षशतं स्थिरः ।
वासुदेव भगवति नान्यद्वेदोद्वहन रतिम ॥३९॥
स व्यापकतयाऽऽत्मानं व्यतिरिक्ततयाऽऽत्मनि ।
विद्वान स्वप्न इवामर्शसाक्षिणं विरराम ह ॥४०॥
साक्षाद्भगवतोक्तेन गुरुणा हरिणा नृप ।
विशुद्धज्ञानदीपेन स्फुरता विश्वतोमुखम ॥४१॥
परे ब्रह्माणि चात्मनं परं ब्रह्मा तथाऽऽत्मनि ।
वीक्षमाणो विहायेक्षामस्मादुपरराम ह ॥४२॥
पतिं परमधर्मज्ञं वैदर्भं मलयध्वजम ।
प्रेम्णा पर्यचरद्धित्वा भोगान सा पतिदेवता ॥४३॥
चीरवासा व्रतक्षामा वेणीभुतशिरोरुहा ।
बभावुपतिं शन्ता शिखा शान्तमिवानलम ॥४४॥
अजानती प्रियतमं यदोपरतमंगना ।
सुस्थिरासनमासाद्य यथापुर्वमुपाचरत ॥४५॥
यदा नोपलभेताड्घ्रावुष्माणं पत्युरर्चती ।
आसीत्सीविग्रहृदया युथभ्रष्टा मृगी यथा ॥४६॥
आत्मानं शोचती दीनमब्धुं विक्लवाश्रुभिः ।
स्तनावासिच्य विपिने सुस्वरं प्ररुरोद सा ॥४७॥
उत्तिष्ठोत्तिष्ठ राजर्षे इममुदधिमेखलाम ।
दस्युभ्यः क्षत्रबन्धुभ्यो बिभ्यतीं पातृमर्हसि ॥४८॥
एवं विलपती बाला विपिनेऽनुगता पतिम ।
पतिता पदयोर्भर्तु रुदत्य श्रूण्यवर्तयत ॥४९॥
चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम ।
आदिप्य चानुमरणे विलपन्ती मन दधे ॥५०॥
तत्र पुर्वतरः कश्चित्सखा ब्राह्मण आत्मवान ।
सान्त्वयन वल्गुणा साम्रा तामाह रुदतीं प्रभोः ॥५१॥
ब्राह्मण उवाच
का त्वं कस्यासि को वायं शयानो यस्य शोचसि ।
जानासि किं सखायं मां येनाग्रे विचचर्थ ह ॥५२॥
अपि स्मरसि चात्मानमविज्ञातसखं सखे ।
हित्वां मां पदमन्विच्छन भौमभोगरतो गतः ॥५३॥
हंसावहं च त्वं चार्य सखार्यौ मानसायनौ ।
अभूतामन्तरा वौकाः सहस्त्रपरिवत्सरान ॥५४॥
स त्वं विहायं मां बन्धो गतो ग्राम्यमतिर्महीम ।
विचरन पदमद्राक्षीः कयाचिन्निर्मितं स्तिया ॥५५॥
पंचारामं नवद्वारमेकपालं त्रिलोष्ठकम ।
षटकुलं पंचविपणं पंचप्रकृति स्त्रीधवम ॥५६॥
पंचेन्द्रियार्था आरामा द्वारः प्राणा नव प्रभो ।
तेजोऽबन्नानि कोष्ठानि कुलमिन्द्रियसंग्रहः ॥५७॥
विपणस्तुक क्रियाशक्तिर्भुतप्रकृतिव्यया ।
शक्त्याधीशः पुमांस्त्वत्र प्रविष्टो नावबुध्यते ॥५८॥
तास्मिस्त्वं रामया स्पृष्टो रममाणोऽश्रुतस्मृतिः ।
तत्सगंदीदृशीं प्राप्तो दशां पापीयसीं प्रभोः ॥५९॥
न त्वं विदर्भदुहिता नायं वीरः सुहृत्तव ।
न पतिसत्वं पुरत्र्जन्या रुद्धो नवमुखे यया ॥६०॥
माया ह्योषा मया सृष्टा यत्पुमांसं स्त्रियं सतीम ।
मन्यसे नोभयं यद्वै हंसौ पश्यावयोर्गतिम ॥६१॥
अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भोः ।
न नौ पश्यन्ति कवयश्छिद्रं जातु मनगपि ॥६२॥
यथा पुरुष आत्मनमेकमादर्शचक्षुषोः ।
द्विधाभुतमवेक्षत तथैवान्तरमावयोः ॥६३॥
एवं स मानसो हंसो हंसेन प्रतिबोधितः ।
स्वस्थस्तदव्यभिचारेण नष्टामाप पुनः स्मृतिम ॥६४॥
बर्हिष्मन्नेतदध्यात्मं पारोक्ष्येण प्रदर्शितम ।
यत्परोक्षप्रियो देवो भगवान विश्वभावनः ॥६५॥
इति श्रीमद्भागवते महापुराणे पारमंहास्या संहितायां चतुर्थस्कन्धे पुरुत्र्जनोपाख्यानेऽष्टविंशोऽध्यायः ॥२८॥