मैत्रेय उवाच
सदा विद्विषतोरेवं कालो वै ध्रियमाणयोः ।
जामातुः श्वशुरस्यापि सुमहानतिचक्रमे ॥१॥
यदभिषिक्तो दक्षस्तु ब्रह्माणा परमेष्ठिना ।
प्रजापतींनां सर्वेषामाधिपत्ये स्मयोऽभवत ॥२॥
इष्ट्वा स वाजपेयेन ब्रह्निष्ठानभिभुय च ।
बृहस्पतिसवं नाम समारेभे क्रतुत्तमम ॥३॥
तस्मिन ब्रह्मार्षयः सर्वे देवर्षिपितृदेवतः ।
आसन कृतस्वस्त्यनास्तत्पन्त्यश्च सभर्तृकाः ॥४॥
तदुपश्रुत्य नभसि खेचराणां प्रजल्पताम ।
सती दाक्षायणी देवी पितृर्य़ज्ञमहोत्सवम ॥५॥
व्रजन्तीः सर्वतो दिग्भ उपदेववरस्त्रियाः ।
विमानयानाः सप्रेष्ठा निष्ककण्ठीः सुवससः ॥६॥
दृष्टा स्वानिलयाभ्याशे लोलाक्षीर्मृकुण्दलाः ।
पतिं भुतपतिं देवमौत्सुक्यादभ्यभाषत ॥७॥
सत्युवाच
प्रजापतेस्ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञमहोत्सवः किल ।
वयं च तत्राभिसराम वाम ते यद्यर्थिताऽमी विबुधा व्रजन्ति हि ॥८॥
तस्मिन भगिन्यो मम भर्तृभिः स्वकै ध्रुवं गमिष्यान्ति सुहृद्दिदृक्षवः ।
अहं च तस्मिन भवताभिकामये सहोपनीतं परिबर्हमर्हितुम ॥९॥
तत्र स्वसृर्मे ननु भर्तृसम्मिता मातृष्वसृः क्लिन्नाधियं च मतरम ।
द्रक्ष्ये चिरोत्कण्ठमनां महर्षिभि रुनीयमानं च मृडाध्वरध्वजम ॥१०॥
त्वय्येतदाश्चर्यमजात्ममायया विनिर्मितं भाति गुणत्रयात्मकम ।
तथाप्यहं योषिदतत्त्वविच्च ते दीना दिदृक्षे भव मे भवक्षितिम ॥११॥
पश्य प्रयान्तीरभवान्ययोषितो ऽप्यलंकृताः कान्तसखा वरुथशः ।
यासां व्रजाद्भिः शितिकण्ठ मण्डितं नभो विमानैः कलहंसपाण्डुभिः ॥१२॥
कथं सुतायाः पितृगेहकौतुकं निशम्य देहः सुरवर्य नेगंते ।
अनाहुता अप्याभियन्ति सौहृदं भर्तुर्गुरोर्देहकृतश्च केतनम ॥१३॥
तन्मे प्रसीदेदममर्त्य वात्र्छितं कर्तु भवान्कारुणिको बतार्हति ।
त्वयाऽऽत्मनोऽर्धेंहमदभ्रचक्षुषा निरुपिता मानुगृहाण याचितः ॥१४॥
ऋषिरुवाच
एवं गिरित्रः प्रिययाभिभाषितः प्रत्यभ्यधत्त प्रहसन सुहृत्प्रियः ।
संस्मारितो मर्मभिदः कुवागिषुन यानाह को विश्वसृजां समक्षतः ॥१५॥
श्रीभगवानुवाच
त्वयोदितं शोभनमेव शोभने अनाहुता अप्यभियन्ति बन्धुषु ।
ते यद्यनुप्तदितदोषदृष्टयो बलीयसानात्म्यमदेन मन्युना ॥१६॥
विद्यातपोवित्तवपुर्वयः कुलैः सतां गुणैः षडभिरसत्तमेतरैः ।
स्मृतौ हतायां भृतमानदुर्दृशः स्तब्धा न पश्यन्ति हि धाम भुयसाम ॥१७॥
नैतादृशांना स्वजनव्यपे क्षया गृहान प्रतीयादनवास्थितात्मनाम ।
येऽभ्यागतान वक्रधियाभिचक्षते आरोपितभ्रुभिरमर्षणाक्षिभिः ॥१८॥
तथारिभिर्न व्यथते शिलीमुखैः शेतेऽर्दितांगो हृदयेन दुयता ।
स्वानां यथा वक्रधियां दुरुक्तिभिः र्दिवानिशं तप्यति मर्मताडितः ॥१९॥
व्यक्तं त्वमुत्कृष्टगतेः प्रजापतेः प्रियाऽऽत्मजानामसि सुभ्रु सम्मता ।
अथापि मानं न पितुह प्रपत्स्यसे मदाश्रयात्कः परितप्यते यतः ॥२०॥
पापच्यमानेन ह्रुदाऽऽतुरेन्द्रियः समृद्धिभिः पुरुषबुद्धिसाक्षिणाम ।
अकल्प एषामधिरोढुममत्र्जसा पदं परं द्वेष्टि यथासुरा हरिम ॥२१॥
प्रत्युद्रप्रश्रयणाभिवादनं विधीयते साधु मिथः सुमध्यमे ।
प्राज्ञैः परस्मै पुरुषाय चेतसा गुहाशयायैव न देहमानिने ॥२२॥
सत्त्वं विशुध वसुदेवशब्दितं यदीयते तत्र पुमानपावृत्तः ।
सत्वे च तस्मिन भगवान वासुदेवो ह्याधोक्षजो मे नमसा विधीयते ॥२३॥
तत्ते निरीक्ष्यो न पितापि देहकृद दक्षो मम द्विट तदनुव्रताश्च ये ।
यो विश्वसृग्यज्ञगतं वरोरु मा मनगसं दुर्वचसाऽकरोत्तिरः ॥२४॥
यदि व्रजिष्यस्यातिहाय मद्वचो भद्र भवत्यां न ततो भविष्यति ।
सम्भावितस्य स्वजनात्पराभवो यदा स सद्यो मरणाय कल्पते ॥२५॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्यां संहितायां चतुर्थस्कन्धे उमारुद्रसंवादे तृतीयोऽध्यायः ॥३॥