विदुर उवाच
भवे शीलवतां श्रेष्ठे दक्षो दुहितुवत्सलः ।
विद्वेषमकरोत्कस्मारदादृत्यात्मजां सतीम ॥१॥
कस्तं चराचरगुरुं निर्वैरं शान्तविग्रहम ।
आत्मारामं कथं द्वेष्टि जगतो दैवतं महत ॥२॥
एतदाख्याहि मे ब्रह्मन जामातुः श्वशुस्य च ।
विद्वेषस्तु यतः प्राणास्तत्यजे दुस्तजानसती ॥३॥
मैत्रेय उवाच
पुरा विश्वसृजां सत्रे समेताः परमर्षयः ।
तथामरगणाः सर्वे सानुगा मुनयोऽग्नयः ॥४॥
तत्र प्रविष्टमृषयो दृष्टार्कमिव रोचिषा ।
भ्राजमानं वितिमिरं कुर्वन्त तन्महत्सदः ॥५॥
उदतिष्ठन सदस्यास्ते स्वधिष्णेभ्यः सहाग्रयः ।
ऋते विरिचं शर्वं च तद्भासाऽऽक्षिप्तचेतसः ॥६॥
सदसस्पतिभिर्दक्षो भगवान साधुसत्कृतः ।
अजं लोकगुरु नत्वा निषसाद तदाज्ञया ॥७॥
प्राडनिषण्णं मृडं दृष्टा नामृशत्तदनादृतः ।
उवाच वामं चक्षुर्भ्यामभिवीक्ष्य दहन्निवः ॥८॥
श्रुयतां ब्रह्मर्षयो मे सहदेवाः सहाग्नयः ।
साधुनां ब्रुवतो वृत्तं नाज्ञानान्न च मत्सरात ॥९॥
अयं तु लोकपालानां यशोघ्रो निरपत्रपः ।
सद्भिराचारितः पन्था येन स्तब्धेन दुषितः ॥१०॥
एष मे शिष्यतां प्राप्तो यन्मे दुहितरग्रहीत ।
पाणि विप्राग्निमुखतः सावित्र्या इव साधुवत ॥११॥
गृहीत्वा मृगशावाक्ष्या पार्णिं मर्कटलोचनः ।
प्रत्युत्थानाभिवादार्हे वाचाप्यकृत नोचितम ॥१२॥
लुप्तक्रियाशुचये मानिने भिन्नसेतवे ।
अनिच्छन्नप्यदां बालां शुद्रायेवोशतीं गिरम ॥१३॥
प्रेतावासेषु घोरेषु प्रेतैर्भूतगणैर्वृतः ।
अटत्युन्मत्तवन्नग्नो व्युक्तकेशो हसन रुदन ॥१४॥
चित्ताभस्मकृतस्नान प्रेतस्रडन्रास्थिभुषणः ।
शिवापदेशो ह्याशिवो मत्तो मत्तजनप्रियः ।
पतिः प्रथमभुतांनां तमोमात्रात्मकात्मनामः ॥१५॥
तस्मा उन्मादनाथाय नष्टशौचाय दुर्हृदे ।
दत्ता बत मया साध्वी चोदिते परमेष्ठिना ॥१६॥
मैत्रेय उवाच
विनिन्द्यैव स गिरिशमप्रतीपमवस्थितम ।
दक्षोऽथाप उपस्पृश्य देवैर्देवगणाधमः ॥१८॥
निषिध्यमानः स सदस्यमुख्यैर्दक्षो गिरित्राय विसृज्य शापम ।
तस्मादिनिष्क्रम्य विवृद्धमन्यु र्जगाम कौरव्य निजं निकेतनम ॥१९॥
विज्ञाय शापं गिरिशानुगाग्रणीर्नन्दीक्षरो रोषकषायदुषितः ।
दक्षाय शापं विससर्ज दारुणं ये चान्वमोदस्तदवाच्यतां द्विजाः ॥२०॥
य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि ।
द्रुह्यात्यज्ञः पृथग्दृष्टिस्तत्त्वतो विमुखो भवेत ॥२१॥
गृहेषु कुटधर्मेषु सक्तो ग्राम्यसुखेच्छया ।
कर्मतन्त्रं वितनुते वेदवादविपन्नधीः ॥२२॥
बुद्धया पराभिध्यायिन्या विस्मृतात्मगतिः पशुः ।
स्त्रीकामः सोऽस्त्वतितरां दक्षो वस्तमुखोऽचिराग ॥२३॥
विद्याबुद्धिरविद्यायां कर्ममयामसौ जडः ।
संसरन्त्विह ये चामुमनु शर्वावमानिनम ॥२४॥
गिरः श्रुतायाः पुष्पिण्या मधुगन्धेन भुरिणा ।
मथा चोन्मथितात्मानः सम्मुह्यान्तु हरद्विषः ॥२५॥
सर्वभक्षा द्विजा वृत्यै धृतविद्यातपोव्रताः ।
वित्तदेहोन्द्रियारामा याचका विचरन्त्विह ॥२६॥
तस्यैवं ददतः शापं श्रुत्वा द्विजकुलाय वै ।
भृगुः प्रत्यसृजच्छापं ब्रह्मादण्डं दुरत्ययम ॥२७॥
भवव्रतधरा ये च ये च तान समनुव्रताः ।
पाखण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिनः ॥२८॥
नष्टशौचा मूढधियो जटाभस्मास्थिधारिणः ।
विशन्तु शिवदीक्षायां यत्र दैवं सुरासवम ॥२९॥
ब्रह्मा च ब्राह्माणांश्चैव यद्युयं परिनिन्दथ ।
सेतुं विधारणं पुंसामतः पाखण्डमाश्रिताः ॥३०॥
एष एव ही लोकांना शिवः पन्थाः सनातनः ।
यं पुर्वे चानुसंतस्थुर्यत्प्रामाणं जनार्दनः ॥३१॥
तदब्रह्म परमं शुद्धं सतां वर्त्म सनातनम ।
विगर्ह्या यात पाषण्डं दैवं वो यत्र भुतराट ॥३२॥
मैत्रेय उवाच
तस्यैवं वदतः शापं भृगोः स भगवान भवः ।
निश्चक्राम ततः किज्चिद्विमना इव सानुगः ॥३३॥
तेऽपि विश्वसृजः सत्रं सहस्रपरिवत्सरान ।
संविधाय महेष्वास यत्रेज्य ऋषभो हरिः ॥३४॥
आप्लुत्यावभृथं यत्र गंगा यमुनयान्विता ।
विरजेनात्मना सर्व स्व स्वं धाम ययुस्ततः ॥३५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दक्षशापो नाम द्वितीयोऽध्याय ॥२॥