संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|चतुर्थः स्कन्धः|
अथ सप्तमोऽध्याय

चतुर्थः स्कन्धः - अथ सप्तमोऽध्याय

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

इत्यजेनानुनीतेन भवेन परितुष्यता ।

अभ्यधायि महाबाहो प्रहस्य श्रुयतामिति ॥१॥

श्रीमहादेव उवाच

नाघं प्रजेश बालानां वर्णये नानुचिन्तये ।

देवमायाभिभुतानां दण्डस्तत्र धृतो मया ॥२॥

प्रजापतेर्दग्धशीर्ष्णो भवत्वजमुखं शिरः ।

मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः ॥३॥

पुषा तु यजमानस्य दद्भिर्जक्षतु पिष्टभुक ।

देवाः प्रकृतसर्वांगा ये म उच्छेषणमं ददुः ॥४॥

बाहुभ्यामश्चिनोः पुष्णो हस्ताभ्यां कृतबाहवः ।

भवन्त्वध्वर्यवश्चान्ये बस्तश्मश्रुर्भुगुर्भवेत ॥५॥

मैत्रेय उवाच

तदा सर्वाणि भुतानि श्रुत्वा मीढुष्टमोदितम ।

परितुष्टात्मभिस्तात साधु साध्वित्यथाब्रुवन ॥६॥

ततो मीढवांसमामन्त्र्य शुनासीराः सहर्षिभिः ।

भुयस्तददेवयजनं समीढवद्वेधसो ययुः ॥७॥

विधाय कात्स्न्यैन च तद्यदाह भगवान भवः ।

संदधुः कस्य कायेन सवनीयपशोः शिरः ॥८॥

संधीयमाने शिरसि दक्षो रुद्राभिवीक्षितः ।

सद्य सुप्त इवोत्पस्थौ ददृशे चाग्रतो मृडमक ॥९॥

तदा वृशध्वजद्वेषकलिलात्मा प्रजापतिः ।

शिवावलोकादभवच्छरदह्रद इवामलः ॥१०॥

भवस्तवाय कृतधीर्नाशक्नोदनुरागतः ।

औत्कण्ठयाद्वाष्पकलया सम्परेतां सुतां स्मरन ॥११॥

कृच्छ्रात्संस्तभ्य च मनः प्रेमविह्वलितः सुधीः ।

शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः ॥१२॥

दक्ष उवाच

भूयाननुग्रह अहो भवता कृतो मे दण्डस्त्वया मयि भृतो यदपि प्रलब्धः ।

न ब्रह्माबन्धुषु च वां भगवन्नवज्ञा तुभ्यं हरेश्च कुत एव धृतव्रतेषु ॥१३॥

विद्यातपोव्रतधरान मुखतः स्म विप्रान ब्रह्माऽऽत्मतत्त्वमवितुं प्रथमं त्वमस्राक ।

तदब्राह्मणान परम सर्वविपत्सु पासि पालः पशुनिव विभो प्रगृहितदन्डः ॥१४॥

योऽसौ मयाविदिततत्त्वदृशा सभायां क्षिप्तो दुरुक्तिविशिखैरगणय्या तन्माम ।

अर्वाक पतन्तमर्हत्तमनिन्दयापाद दृष्ट्याऽऽर्द्रया स भगवान स्वकृतेन तुष्येत ॥१५॥

मैत्रेय उवाच

क्षमाप्यैव स मीढवांसं ब्रह्मणा चानुमन्त्रितः ।

कर्मसन्तानयामास सोपाध्यायर्त्विगादिभिः ॥१६॥

वैष्णवं यज्ञसन्तत्यै त्रिकापालं द्विजोत्तमाः ।

पुरोडाशं निरवपन वीरसंसर्गशुद्धये ॥१७॥

अध्वर्यणाऽऽत्तहविषा यजमानो विशाम्पते ।

धिया विशुद्धया दध्यौ तथा प्रादुरभुद्धरिः ॥१८॥

तदा स्वप्रभया तेषां द्योतयन्त्या दिशो दश ।

मुष्णंस्तेज उपानीतस्ताक्ष्येण स्त्त्रवाजिना ॥१९॥

श्यामो हिरण्यरशनोऽर्ककीरीटजुष्टो नीलालकभ्रमरमण्डितकुण्डलास्यः ।

कम्ब्वब्जचक्रशरचापगदासिचर्म व्यग्रैर्हिरण्मयभुजैरिव कर्णिकारः ॥२०॥

वक्षस्यधिश्रितवधुर्वनमाल्युदारहासावलोककलया रमयंश्च विश्वम ।

पार्श्वभ्रमदव्यजनचामरराजहंसः श्वेतातपत्रशशिनोपरि रज्यमानः ॥२१॥

तमुपागतमालक्ष्य सर्वे सुरगणादयः ।

प्रणेमुः सहसोत्थाय ब्रह्मोन्द्रत्र्यक्षनायकाः ॥२२॥

तत्तेजसा हतरुचः सन्नजिह्वाः ससाध्वसाः ।

भुर्धा धृतात्र्जलिपुटा उपतस्थुरधोक्षजम ॥२३॥

अप्यर्वाग्वृत्तयो यस्य महि त्वात्मभुवादयः ।

यथामति गृणन्ति स्म कृतानुग्रहविग्रहम ॥२४॥

दक्षो गृहीतार्हणसादनोत्तमं यज्ञेश्वरं विश्वसृजां परं गुरुम ।

सुनन्दनन्दाद्यनुगैर्वृतं मृदा गृणन प्रपेदे प्रयतः कृतात्र्जलिः ॥२५॥

दक्ष उवाच

शुद्धं स्वधाम्न्युपरताखिलबुद्धवस्थं चिन्मात्रमेकमभयं प्रतिषिध्यं मायाम ।

तिष्ठंस्तयैव पुरुषत्वमुपेत्य तस्या मास्ते भवानपरिशुद्ध इवात्मतन्त्रः ॥२६॥

ऋत्विज ऊचुः

तत्त्वं न ते वयमनत्र्जन रुद्रशापात कर्मण्यवग्रहधियो भगवन्विदामः ।

धर्मोपलक्षणमिदं त्रिवृदध्वरख्यं ज्ञातं यदर्थमधिदैवमदोव्यवस्थाः ॥२७॥

सदस्या ऊचुः

उप्तत्त्यध्वन्यशरण उरुक्लेशदुर्गेऽन्तकोग्रव्यालान्विष्टे विषयमृगतृष्यात्मगेहोरुभारः ।

द्वन्द्वश्वभ्रे खलमृगभये शोकदावेऽज्ञसार्थः पादौकस्ते शरणद कदा याति कामोपसृष्टः ॥२८॥

रुद्र उवाच

तव वरद वराड घ्रावाशिषेहाखिलार्थ ह्यापि मुनिभिरसक्तेरादरेणार्हणीये ।

यदि रचितधियं माविद्यलोकोऽपविद्धं जपति न गणये तत्त्वत्परानुग्रहेण ॥२९॥

भृगुरुवाच

यन्मायया गहनयापहृतात्मबोधा ब्रह्मादयस्तनुभृस्तमसि स्वपन्तः ।

नात्मन श्रितं तव विदन्त्यधुनापि तत्त्वं सोऽयं प्रसीदतु भवान प्रणतात्मबन्धुः ॥३०॥

ब्रह्मोवाच

नैतत्स्वरुपं भवतोऽसौ पदार्थभेदग्रहैः पुरुषो यावदीक्षेत ।

ज्ञानस्य चार्थस्य गुणस्य चाश्रयो मायामयाद व्यतिरिक्तो यतस्त्वम ॥३१॥

इन्द्र उवाच

इदमप्यच्युत विश्वभावनं वपुरानन्दकरं मनोदृशाम ।

सुरविद्विटक्षपणैरुदायुधै र्भुजदण्डैरुपपन्नमष्ट भिः ॥३२॥

पत्‍न्य ऊचुः

यज्ञोऽयं तव यजनाय केन सृष्टो विध्वस्तः पशुपतिनाद्य द्क्षकोपात ।

तं नस्त्वं श्वशयनाभशान्तमेधं यज्ञात्मन्नलिनरुचा दृशा पुनीहि ॥३३॥

ऋषय ऊचुः

अनन्वित ते भगवन विचेष्टितं यदात्मनाऽऽचरसि हि कर्म नाज्यसे ।

विभुतये यत उपसेदुरीश्वरीं न मन्यते स्वयमनुवर्ततीं भवान ॥३४॥

सिद्धा ऊचुः

अयं त्वत्कथामृष्टपीयुषनद्यां मनोवारणः क्लेशदावग्निदग्धः ।

तृषार्तोऽवगाढो न सस्मान दावं न निष्क्रामति ब्रह्मासम्पन्नवन्नः ॥३५॥

यजमान्युवाच

स्वागतं ते प्रसीदेश तुभ्यं नमः श्रीनिवास श्रिया कान्तया त्राहि नः ।

त्वामृतेऽधीश नांगैर्मखः शोभते शीर्षहीनः कबन्धो यथा पुरुषः ॥३६॥

लोकपाला ऊचुः

दृष्टः किं नो दृग्भिरसदग्रहैस्त्वं प्रत्यग्द्रष्टा दृश्यते येन दृश्यम ।

माया ह्योषा भवदीया ही भुमन यस्त्वं षष्ठः पंचभिर्भासि भुतैः ॥३७॥

योगेश्वरा ऊचुः

प्रेयान्न तेऽन्योऽस्त्यमुतस्त्वयि प्रभो विश्वात्मनीक्षेन्न पृथग्य आत्मनः ।

अथापि भक्त्येशतयोपधावता मनन्यवृत्यानुगृहाण वत्सल ॥३८॥

जगदुद्भवस्थितिलयेषु दैवतो बहुभिद्यमानगुणयाऽऽत्ममायया ।

रचितात्मभेदमतये स्वसंस्थया विनिवर्तितभ्रमगुणात्मने नमः ॥३९॥

ब्रह्मोवाच

नमस्ते श्रितसत्त्वाय धर्मादीनां च सुतये ।

निर्गुणाय च यत्काष्ठां नाहं वेदापरेऽपि च ॥४०॥

अग्निरुवाच

यत्तेजसाहं सुसमिद्धतेजा हव्यं वहे स्वध्वर आज्यसिक्तम ।

तंयज्ञियं पंचविधं च पंचभिः स्विष्टं यजुर्भिः प्रणतोऽस्मि यज्ञम ॥४१॥

देवा ऊचुः

पुरा कल्पापाये स्वकुतमुदरीकृत्य विकृतं त्वमेवाद्यस्तस्मिन सलिल उरगेन्द्राधिशयने ।

पुमान शेषे सिद्धैर्हृदि विमृशिताध्यात्मपदविः स एवाद्याक्ष्णोर्यः पाथि चरसि भृत्यानवस नः ॥४२॥

गन्धर्वा ऊचुः

अंशांशास्ते देव मरीच्यादय एते ब्रह्मेन्द्राद्या देवगणा रुद्रपुरोगाः ।

क्रीडाभानं विश्वमिदं यस्य विभुमन तस्मै नित्यं नाथ नमस्ते करवाम ॥४३॥

विधाधरा ऊचुः

त्वन्माययार्थमभिपद्य कलेवरेऽस्मिन कृत्वा ममाहमिति दुर्मतिरुत्पथैः स्वैः ।

क्षिप्तोऽप्यसद्विषयलालस आत्ममोहं युष्मत्कथामृतनिषेवक उदव्युदस्येत ॥४४॥

ब्राह्मणा ऊचुः

त्वं क्रतुस्त्वं हविस्त्वं हुताशः स्वयं त्व ही मन्त्रः समिद्दर्भपात्राणि च ।

त्वं सदस्यर्त्विजो दम्पती देवता अग्निहोत्र स्वधा सोम आज्यं पशुः ॥४५॥

त्वं पुरा गां रसाया महासुकरो दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा ।

स्तूयमानो नदँल्लीलया योगिभिर्व्युज्जहर्थ त्रयीगात्र यज्ञक्रतुः ॥४६॥

स प्रसीद त्वमस्माकमाकांक्षतां दर्शनं ते परिभ्रष्टसत्कर्मणाम ।

कीर्त्यमाने नृभिर्नामि यज्ञेश ते यज्ञविघ्राः क्षयं यान्ति तस्मै नमः ॥४७॥

मैत्रेय उवाच

इति दक्षः कविर्यज्ञ भद्र रुद्रावमर्शितम ।

कीर्त्यमाने हृषीकेशे संनिन्ये यज्ञभावने ॥४८॥

भगवान स्वेन भागेन सर्वात्म सर्वभागभुक ।

दक्षं बभाष आभाष्य प्रीयमाण इवानघ ॥४९॥

श्रीभगवानुवाच

अहं ब्रह्मा च शर्वश्च जगतः कारणं परम ।

आत्मेश्वर उपद्रष्टा स्वयंदृगविशेषणः ॥५०॥

आत्ममायां समाविश्य सोऽहं गुणमयीं द्विज ।

सृजन रक्षन हरन विश्वं दध्रे संज्ञां क्रियोचिताम ॥५१॥

तस्मिन ब्रह्माण्यद्वितीये केवले परमात्मनि ।

ब्रह्मारुद्रौ च भुतानि भेदेनाज्ञोऽनुपश्यति ॥५२॥

यथा पुमान्न स्वाडेषु शिरः पाण्यदिषु क्वचित ।

पारक्यबुध्दीं कुरुते एवं भुतेषु मत्परः ॥५३॥

त्रयाणामेकभावानां यो न पश्यति वै भिदाम ।

सर्वभुतात्मनां ब्रह्मान स शान्तिमधिगच्छति ॥५४॥

मैत्रेय उवाच

एवं भगवताऽऽदिष्टः प्रजापतिपतिर्हरिम ।

अर्चित्वा क्रतुना स्वेन देवानुभयतोऽयजत ॥५५॥

रुद्रं च स्वेन भागेन ह्युपाधावत्समाहितः ।

कर्मणोदवसानेन सोमपानितरानपि ।

उदवस्य सहर्त्विग्भिः सस्नाववभृथं ततः ॥५६॥

तस्मा अप्यनुभावेन स्वेनैवावाप्तराधसे ।

धर्म एव मतिं दत्त्वा त्रिदशास्ते दिवं ययुः ॥५७॥

एवं दाक्षायणी हित्वा सती पूर्वकलेवरम ।

जज्ञे हिमवतः क्षेत्रे मेनायामिति शुश्रुम ॥५८॥

तमेव दयितं भुय़ आवृडक्तेः पतिमम्बिका ।

अनन्यभावैकगतिं शक्तिः सुप्तेव पुरुषम ॥५९॥

एतद्भगवतः शम्भोः कर्मक दक्षाध्वरद्रुहः ।

श्रुतं भागवताच्छिष्यादुद्धवान्मे बृहस्पतेः ॥६०॥

इदं पवित्रं परमीशचेष्टितं यशस्यमायुष्यमघौघमर्षणम ।

यो नित्यदा‍ऽऽकर्ण्यनरोऽनुकीर्तयेद धुनोत्यघं कौरव भक्तिभावतः ॥६१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां चतुर्थस्कन्धे दक्षयज्ञसंधानं नाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP