मैत्रेय उवाच
जनेषु प्रगृणात्स्वेवं पृथुं पृथुलविक्रमम ।
तत्रोपजग्मुर्मुनश्चत्वारः सुर्यवर्चसः ॥१॥
तांस्तु सिद्धेश्वरान राजा व्योमोऽवतरतोऽर्चिषा ।
लोकानपापान कुर्वत्या सानुगोऽचष्ट लक्षितान ॥२॥
तद्दर्शनोद्गतान प्राणान प्रत्यादित्सुरिवोत्थितः ।
ससदस्यानुगो वैन्य इन्द्रियेशो गुणानिव ॥३॥
गौरवाद्यन्त्रितः सभ्यः प्रश्चयानतकन्धरः ।
विधिवत्पुजयात्र्चक्रे गृहीताध्यर्हणासनान ॥४॥
तत्पादशौचसलिलैर्मार्जितालकबन्धनः ।
तत्र शीलवतां वृत्तमाचरन्मानयन्निव ॥५॥
हाटकासन आसीनान स्वधिष्ण्येष्विव पावकान ।
श्रद्धासंयमसंयुक्तः प्रीतः प्राह भवाग्रजान ॥६॥
पृथुरुवाच
अहो आचरितं किं मे मंगलं मंगलायनाः ।
यस्य वो दर्शन ह्यासीदृउद्दुर्दशीनां च योगिभिः ॥७॥
किं तस्य दुर्लभरमिह लोके परत्र च ।
यस्य विप्राः प्रसीदन्ति शिवो विष्णुश्च सानुगः ॥८॥
नैव लक्षयते लोको लोकान पर्यटतोऽपि यान ।
यथा सर्वदृशं सर्व आत्मानं येऽस्य हेतवः ॥९॥
अधना अपि ते धन्याः साधवो गृहमेधिनः ।
यदगृहा ह्रार्यवर्याम्बुतृणभूमीश्वरावराः ॥१०॥
व्याललयद्रुमा वै तैऽप्यरिक्तखिलसम्पदः ।
यदगृहास्तीर्थपादीयपादतीर्थविवार्जिताः ॥११॥
स्वागतं वो द्विजश्रेष्ठ यदव्रतानि मुमुक्षवः ।
चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च ॥१२॥
कच्चिन्नः कुशलं नाथा इन्द्रियार्थार्थवेदिनाम ।
व्यसनावाप एतस्मिन पतितानां स्वकर्मभिः ॥१३॥
भवत्सु कुशलप्रश्न आत्मारामेषु नेष्यते ।
कुशलाकुशला यत्र न सन्ति मतिवृत्तयः ॥१४॥
तदहं कृतविश्रम्भः सुहृदो वस्तपस्विनाम ।
संपृच्छे भव एतस्मिन क्षेमः केनात्र्जसा भवेत ॥१५॥
व्यक्तमात्मवतामात्मा भगवानात्मभावनः ।
स्वानामनुग्रहायेमां सिद्धरुपी चरत्यजः ॥१६॥
मैत्रेय उवाच
पृथोस्तत्सुक्तमाकर्ण्य सारं सृष्टु मितं मधु ।
स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह ॥१७॥
सनत्कुमार उवाच
साधु पृष्टं महाराज सर्वभुतहितात्मना ।
भवता विदुषा चापि साधुनां मतिरीदृशी ॥१८॥
संगमः खलु साधुनामुभयेषां च सम्मतः ।
यत्सम्भाषणसम्प्रश्चः सर्वेषां वितनोति शम ॥१९॥
अस्त्येव राजन भवतो मधुद्विषः पादारविन्दस्य गुणानुवादने ।
रतिर्दुरापा विधुनोति नैष्ठिकी कामं कषायं मलमन्तरात्मनः ॥२०॥
शास्त्रेष्वियानेव सुनिश्चितो नृणां क्षेमस्य सध्रयग्विमृशेषु हेतुः ।
असंग आत्मव्यतिरिक्त आत्मनि दृढा रतिर्ब्रह्मणि निर्गुणे च या ॥२१॥
सा श्रद्धया भगवद्धर्मचर्यया जिज्ञासयाऽऽध्यात्मिकयोगनिष्ठया ।
योगेशअरोपासनया च नित्यं पुण्यश्रवः कथया पुण्यया च ॥२२॥
अर्थेन्द्रियारामसगोष्ठ्यतृष्णया तत्सम्मतानामपरिग्रहेण च ।
विविक्तरुच्या परितोष आत्मन विना हरेर्गुणपीयुषपानात ॥२३॥
अहिंसया पारमहंस्यचर्यया स्मृत्या मुकुन्दचरिताग्रयसीधुना ।
यमैरकामैर्नियमै श्चाप्यनिन्दया निरीहया द्वन्द्वतितिक्षया च ॥२४॥
हरेर्मुहुस्तत्परकर्णपुर गुणाभिधानेन विजृम्भमाणया ।
भक्त्या ह्यासंगः सदसत्यनात्मनि स्यान्निर्गुणे ब्रह्माणि चात्र्जसा रतिः ॥२५॥
यदा रतिर्ब्रह्मणि नैष्ठिकी पुमा नाचार्यवान ज्ञानविरागरंहसा ।
दहत्यवीर्य हृदयं जीवकोशं पत्र्चात्मकं योनिमिवोत्थितो ऽग्निः ॥२६॥
दग्धाशयो मुक्तसमस्ततदगुणो नैवात्मनो बहिरन्तर्विचष्टे ।
परात्मनोर्यदु व्यवधानं पुरस्तात स्वप्ने यथा पुरुषस्तद्विनाशे ॥२७॥
आत्मानमिन्द्रियार्थं च परं यदुभयोरपि ।
सत्याशय उपाधी वै पुमान पश्यति नान्यदा ॥२८॥
निमित्ते सति सर्वत्र जलादावपि पुरुषः ।
आत्मनश्च परस्यापि भिदां पश्यति नान्यदा ॥२९॥
इन्द्रियैर्विषयाकृष्टैराक्षिप्त ध्यायतां मनः ।
चेतनां हरते बुद्धेः स्तम्बसोयमिव ह्रदात ॥३०॥
भ्रश्यत्यनु स्मृतिश्चितं ज्ञानभ्रशः स्मृतिक्षये ।
तद्रोधं कवयः प्राहुरात्मापह्रवमात्मनः ॥३१॥
नातः परतरो लोके पुंसः स्वार्थव्यतिक्रमः ।
यदध्यन्यस्य प्रेयस्त्वमात्मनः स्वव्यतिक्रमात ॥३२॥
अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम ।
भ्रंशितो ज्ञानविज्ञानाद्येनाविशति मुख्यताम ॥३३॥
न कुर्यात्कर्हिचित्संगं तमस्तीव्रं तितीरिषुः ।
धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम ॥३४॥
तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते ।
त्रैवर्ग्योऽर्थो यतो नित्यं कृतान्तभयसंयुतः ॥३५॥
परेऽवरे च ये भावा गुणव्यतिकारादनु ।
ने तेषां विद्यते क्षेममीशविध्वंसिताशिषाम ॥३६॥
तत्त्वं नरेन्द्र जगतामथ तस्थुषां च देहेन्द्रियासुधिषणात्मभिरावृतानाम ।
यः क्षेत्रावित तपतया हृदै विष्वगाविः प्रत्यक चकास्ति भगवांस्तमवेहि सोऽस्मि ॥३७॥
यस्मिन्निदं सदसदात्मतया विभाति माया विवेकविधुति स्राजि वाहिबुद्धीः ।
तं नित्यमुक्तपरिशुधविबुद्धतत्वं प्रत्युढकर्मकलिलप्रकृतिं प्रपद्ये ॥३८॥
यत्पादपंकजलाशविलासभक्त्या कर्माशयं ग्रथितमुदग्रथयन्ति सन्तः ।
तद्वन्न रिक्तमतयो यतयोऽपि रुद्ध स्त्रोतोगणास्तमरणं भज वासुदेवम ॥३९॥
कृच्छ्रो महानिह भवार्णवमल्पवेशां षडवर्गनक्रमसुखेन तितीरषन्ति ।
तत त्वं हरेर्भगवतो भजनीयमगंघ्रिं कृत्वोडुपं व्यसनमुत्तर दुस्तरार्णम ॥४०॥
मैत्रेय उवाच
स एवं ब्रह्मापुत्रेण कुमारेणात्ममेधसा ।
दर्शितात्मगतिः सम्यक्प्रशस्योवाच तं नृपः ॥४१॥
राजोवाच
कृतो मेऽनुग्रहः पुर्वं हरिणाऽऽर्तानुकम्पिना ।
तमापादयितुं ब्रह्मन भगवान यूयमागताः ॥४२॥
निष्पादितश्च कात्स्न्येन भगवद्भिर्घृणालुभिः ।
साधुच्छिष्टं हि मे सर्वमात्मना सह किम ददे ॥४३॥
प्राणा दाराः सुता ब्रह्मान ग्रूह्राश्च सपरिच्छदाः ।
राज्यं बलं मही कोश इति सर्व निवेदितम ॥४४॥
सैनापत्यं च राज्य च दण्डनेतृत्वमेव च ।
सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति ॥४५॥
स्वमेव ब्राह्मणो भुडक्ते स्वं वस्ते स्वं ददाति च ।
तस्यैवानुग्रहेणान्नं भुत्र्जते क्षत्रियादयः ॥४६॥
यैरीदृशी भगवतो गतिरात्मवादे एकान्ततो निगमिभिः प्रतिपादिता नः ।
तुष्यन्त्वदभ्रकरुणाः स्वकृतेन नित्यं को नाम तत्प्रतिकरोति विनोदपात्रम ॥४७॥
मैत्रेय उवाच
त आत्मयोगपतय आदिराजेन पुजिताः ।
शीलं तदीयं शंसन्तः खेऽभुवन्मिषतां नृणाम ॥४८॥
वैन्यस्तु धुर्यो महतां संस्थित्याध्यात्मशिक्षया ।
आप्तकाममिवात्मानं मेन आत्मन्यवस्थितः ॥४९॥
कर्माणि च यथाकालं यथादेशं यथाबलम ।
यथोचितं यथावित्तमकरोदब्रह्मासात्कृतम ॥५०॥
फलं ब्रह्माणि विन्यस्य निर्विषंगः समाहितः ।
कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम ॥५१॥
गृहेषु वर्तमानोऽपि स साम्राज्यश्रियान्वितः ।
नासज्जतेन्द्रियार्थेषु निरहंमतिरर्कवत ॥५२॥
एवमध्यात्मयोगेन कर्माण्यनुसमाचरन ।
पुत्रानुप्तादयामास पंचार्चिष्यात्मसम्मतान ॥५३॥
विजिताश्चं धुम्रकेशं हर्यश्वं द्रविणं वृकम ।
सर्वेषां लोकपालानां दधारैकः पृथुर्गुणान ॥५४॥
गोपीनाय जगत्सृष्टेः काले स्वे स्वेऽच्युतात्मकः ।
मनोवाग्वृत्तिभिः सौम्यैर्गुणैः संरज्त्रयन प्रजाः ॥५५॥
राजेत्यधान्नामधेयं सोमराज इवापरः ।
सुर्यवद्विसृजन गृह्नन प्रतपंश्च भुवो वसु ॥५६॥
दुर्धर्षस्तेजसेवाग्निर्महेन्द्र इव दुर्जयः ।
तितिक्षया धरित्रीव द्यौरिवाभीष्टदो नृणाम ॥५७॥
वर्षति स्म यथाकामं पर्जन्यं इव तर्पयन ।
समुद्र इव दुर्बोधः सत्त्वेनाचलराडीव ॥५८॥
धर्मराडीव शिक्षयामाश्चर्ये हिमवानिव ।
कुबेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा ॥५९॥
मातरिश्वेव सर्वात्मा बलेन सहसौजसा ।
अविषह्रातया देवो भगवान भुतराडिव ॥६०॥
कन्दर्प इव सौन्दर्य मनस्वी मृगराडिव ।
वात्सल्ये मनुवन्नृणां प्रभुत्वे भगवानजः ॥६१॥
बृहस्पतिर्ब्रह्मावादे आत्मवत्ते स्वयं हरिः ।
भक्त्या गोगुरुविप्रे विष्वक्सेनानुवर्तिषु ।
ह्रिया प्रश्रयशीलाभ्यामात्मतुल्यः परोद्यमे ॥६२॥
कीर्त्योर्ध्वगीतया पुम्भिस्त्रेलोक्ये तत्र तत्र ह ।
प्रविष्टः कर्णरन्ध्रेषु स्त्रीणा रामः सतामिव ॥६३॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते द्वाविंशोऽध्यायः ॥२२॥