मैत्रेय उवाच
ध्रुवं निवृत्तं प्रतिबुद्धयं वैशासा दपेतमन्युं भगवान धनेश्वरः ।
तत्रागतश्चारणयक्षकिन्नरैः संस्तुयमानोऽभ्यवदत्कृतात्र्जलिम ॥१॥
धनद उवाच
भो भो क्षत्रियदायाद परितुष्टोऽस्मि तेऽनघ ।
यस्त्वं पितामहादेशाद्वैरं दुस्त्यजमत्यजः ॥२॥
न भवानवधीद्यक्षान्न यक्षा भ्रातरं तव ।
काल एव ही भुतांना प्रभुरप्ययभावयोः ॥३॥
अहं त्वमित्यपार्था धीरज्ञानात्पुरुषास्य हि ।
स्वाप्नीवाभात्यतद्धयानाद्यया बन्धविपर्ययौ ॥४॥
तद्गच्छ ध्रुवा , भद्रं ते भगवन्तमधोक्षजम ।
सर्वभुतात्मभावेन सर्वभुतात्मविग्रहम ॥५॥
भजस्व भजनीयाडघ्रिमभवाय भवच्छिदम ।
युक्तां विरहितं शक्त्या गुणमय्याऽत्ममायया ॥६॥
वृणीहि कामं नृप यन्मनोगतं मत्तस्त्वमौत्तानपदेऽविशकीतः ।
वरं वरार्होऽम्बुजनाभपादयो रनन्तरं त्वां वयमंग शुश्रुम ॥७॥
मैत्रेय उवाच
स राजराजेन वराय चोदितो ध्रुवो महाभागावतो महामतिः ।
हरौ स वव्रेऽचलितां स्मृतिं यया तरत्ययत्नेन दुरत्ययं तमः ॥८॥
तस्य प्रीतेन मनसा तां दत्त्वैडविडस्ततः ।
पश्यतोऽन्तर्दधे सोऽपि स्वपुरं प्रत्यपद्मत ॥९॥
अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणैः ।
द्र्व्यक्रियादेवतांना कर्म कर्मफलप्रदम ॥१०॥
सर्वात्मन्यच्युतेऽसर्वे तीव्रौघां भक्तिमुद्वहन ।
सर्वात्मनि भुतेषु तमेवावस्थितं विभुम ॥११॥
तमेवं शीलसम्पन्नं ब्रह्माण्यं दीनवत्सलम ।
गोप्तारं धर्मसेतुनां मेनिरे पितरं प्रजाः ॥१२॥
षटत्रिंशद्वर्षसाहस्त्रं शशास क्षितिमण्डलम ।
भोगैह पुण्यक्षयं कुर्वत्रभोगैरशुभक्षयम ॥१३॥
एवं बहुसवं कालं महात्माऽविचलेन्द्रियः ।
त्रिवगौपयिकं नीत्वा पुत्रायादान्नृपासनम ॥१४॥
मन्यमान इदं विश्वं मायरचितमात्मनि ।
अविद्यारचितस्वप्नगन्धर्वगनरोपमम ॥१५॥
आत्मस्त्र्यपत्यसुहृदो बलमृद्धकोशमन्तःपुरं परिविहारभुवश्च रम्याः ।
भूमण्डलं जलधिमेखलमाकलय्य कालोपसृष्टीमितिस प्रययौ विशालाम ॥१६॥
तस्यां विशुद्धकारणः शिववार्विगाह्य बद्ध्वाऽऽसनं जितमरुन्मनसाऽऽहृताक्षः ।
स्थुले दधार भगवत्प्रतिरुप एतद ध्यायंस्तवयवहितो व्यसृजत्समाधौ ॥१७॥
भक्तिं हरी भगवति प्रवहन्नजस्रमानन्दबाष्पकलया मुहुरर्द्यमानः ।
विक्लिद्यमानहृदयः पुलकाचितांगो नात्मानमस्मरदसाविति मुक्तिलिंगः ॥१८॥
स ददर्श विमानाग्रयं नभसोऽवतरद ध्रुवः ।
विभ्राजयद्दश दिशो राकापतिमिवोदितम ॥१९॥
तत्रानु देवप्रवरी चतुर्भुजौ श्यामौ किशोरवरुणाम्बुजेक्षणौ ।
स्थिताववष्टभ्य गंदां सुवाससी किरीटहारांगदचारुकुण्डलौ ॥२०॥
विज्ञाय तावुत्तमगायकिंकरावभ्युत्थितः साध्वसविस्मृतक्रमः ।
ननाम नामानि गृणन्मधुद्विषः पार्षत्प्रधानाविति संहतात्र्जलिः ॥२१॥
तं कृष्णपादाभिनिविष्टचेतसं बद्धात्र्जलिं पश्चयनम्रकन्धरम ।
सुनन्दनन्दावुपसृत्य सस्मितं प्रत्युचतुः पुष्करनाभासम्मतौ ॥२२॥
सुनन्दनदावुचतुः
भो भो राजन सुभद्रं ते वाचं नोऽवहितः श्रृणु ।
यः पंचवर्षस्तपसा भवान्देवमतीतृपत ॥२३॥
तस्याखिलजगद्धातुरावां देवस्य शार्गिणः ।
पार्षदाविह सम्प्राप्तौ नेतुं त्वां भगवत्पदम ॥२४॥
सुदुर्जयं विष्णुपदं जितं त्वया यत्सुरयोऽप्राप्य विचक्षते परम ।
आतिष्ठ तच्चन्द्रदिवाकरादयो ग्रहर्क्षताराः परियन्ति दक्षिणम ॥२५॥
अनास्थितं ते पितृभिरन्यैरप्यगं कर्हिचित ।
आतिष्ठ जगतां वन्द्यं तद्विष्णोः परमं पदम ॥२६॥
एतद्विमानप्रवरमुत्तमश्लोकमौलिना ।
उपस्थापित्मायुष्मन्नधिरोढुं त्वमर्हसि ॥२७॥
मैत्रेय उवाच
निशाम्य वैकुण्ठनियोज्यमुखययो र्मधुच्युतं वाचमुरुक्रमप्रियः ।
कृताभिषेकः कृतनित्यमंगलो मुनीन प्रणम्याशिषमभ्यवादयत ॥२८॥
परित्याभ्यर्च्त धिष्णाग्रयं पार्षदावभिवन्द्य च ।
इयेष तदधिष्ठातुं भिभ्रद्रुपं हिरण्यमयम ॥२९॥
तदोत्तानपदः पुत्रो ददर्शान्तकमागतम ।
मृत्योर्मूर्ध्नि पदं दत्त्वा आरुरोहाद्भुतं गृहम ॥३०॥
तदा दुन्दुभयो नेदुर्मदंगपणवादय ।
गन्धर्वमुख्याः प्रजगुः प्रेतु कुसुमवृष्टयः ॥३१॥
स च स्वर्लोकमारोक्ष्यन सुनीतिं जननीं ध्रुवः ।
अन्वस्मरदंग हित्य्वा दीनां यास्ये त्रिविष्टपम ॥३२॥
इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ ।
दर्शयामासतुर्देवीं पुरो यानेन गच्छतीम ॥३३॥
तत्र मत्र प्रशंसद्धिः पथि वैमनिकैः सुरै ।
अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान ॥३४॥
त्रिलोंकी देवयानेन सोऽतिव्रज्य मुनीनपि ।
परस्ताद्यद ध्रुवगतिर्विष्णोः पदमथाभ्यगात ॥३५॥
यद भ्राजमानं स्वरुचैव सर्वतो लोकस्त्रयो ह्यानु विभ्राजन्त एते ।
यन्नाव्रजत्र्जन्तुषु येऽननुग्रहा व्रजन्ति भद्राणि चरन्ति येऽनिशम ॥३६॥
शान्ताः समदृशः शुद्धः सर्वभुतानुत्र्जनाः ।
यान्त्यत्र्जासाच्युतपदमच्युतप्रियबान्धवाः ॥३७॥
इत्युत्तानपदः पुत्रो ध्रुवः कृष्ण्परायणः ।
अभुत्त्रयाणां लोकांना चुडामणिरिवामलः ॥३८॥
गम्भीरविगोऽनिमिषं ज्योतिषां चक्रमहितम ।
यस्मिन भ्रमति कौरव्य मेढ्यामिव गवा गणः ॥३९॥
महिमानं विलोक्यास्य नारदो भगवानृषिः ।
आतोद्यं वितुदन श्लोकन सत्रेऽगायत्प्रचेतसाम ॥४०॥
नारद उवाच
नुंनं सुनीते पतिदेवताया स्तपः प्रभावस्य सुतस्य तां गतिम ।
दृष्ट्वाभ्युपायनापि वेदवादिनी नैवाधिगन्तुम प्रभवन्ति कीं नृपाः ॥४१॥
यः पंचवर्ष गुरुदारवाकशरैर्भिन्नेन यातो हृदयेन दुयता ।
वनं मदादेशकरोऽजितं प्रभुं जिगाय तद्भक्तगुणैः पराजितम ॥४२॥
यः क्षत्रबन्धर्भुवि तस्याधिरुढमन्वारुरुक्षेदपि वर्षपुगैः ।
षटपंचवर्षोआ यदहोभिरल्पैः प्रसाद्य वैकुण्ठमवाप तप्तदम ॥४३॥
मैत्रेय उवाच
एतत्तेऽभिहितं सर्वं यत्पुष्टोऽहमिहं त्वया ।
ध्रुवस्योद्दामयशसश्चरितं सम्मतं सताम ॥४४॥
धन्यं यशस्यमायुष्यं पुण्यं स्वस्त्ययनं महत ।
स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रसस्यमघमर्षणम ॥४५॥
श्रुत्वैतच्छ्रद्धयाभी क्षणमच्युतप्रियचेष्टितम ।
भवेद्भक्तिर्भगवति यया स्यात्क्लेशसंक्षयः ॥४६॥
महत्वमिच्छतां तीर्थं श्रोतुः शीलदयो गुणाः ।
यत्र तेजस्तदिच्छुनां मानो यत्र मनस्विनाम ॥४७॥
प्रयतः कीर्तयेत्प्रातः समवये द्विजन्मनाम ।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत ॥४८॥
पौर्णमास्या सिनीवाल्यां द्वादश्यां श्रवणेऽथवा ।
दिनक्षये व्यतीपाते संक्रमेऽर्कदिनेऽपि वा ॥४९॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः ।
नेच्छंस्तत्रात्मनाऽऽत्मानं सन्तुष्टं इति सिध्यति ॥५०॥
ज्ञानमज्ञाततत्त्वय यो दद्यात्सत्पथेऽमृतम ।
कृपालोदीननाथस्य देवास्तस्यानुगृह्णते ॥५१॥
इदं मया तेऽभिहिंत कुरुद्वह ध्रुवस्य विख्यातविशुद्धकर्मणः ।
हित्य्वार्भकः क्रीडनकानि मातुर्गृहं च विष्णुं शरणं यो जगाम ॥५२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या सहिंतायां चतुर्थस्कन्धे ध्रुवचरितं नाम द्वादशोऽध्यायः ॥१२॥