मैत्रेय उवाच
इति सन्दिश्य भगवान बार्हिषदैरभिपुजितः ।
पश्यतां राजापुत्राणां तत्रैवान्तर्दधे हरः ॥१॥
रुद्रगीतं भगवतः स्तोत्रं सर्वे प्रचेतसः ।
जपन्तस्ते तपस्तेपुर्वर्षाणामयुतं जले ॥२॥
प्राचीनबर्हिषं क्षत्तः कर्मस्वासक्तमानसम ।
नारदोऽध्यात्मतत्त्वज्ञः कृपालुः प्रत्यबोधयत ॥३॥
श्रेयस्त्वं कतमद्राजन कर्मणात्मन इहसे ।
दुःखहानिः सुखावाप्तिः श्रेयस्तन्नेह चेष्यते ॥४॥
राजोवाच
न जानामि महाभाग परं कर्मापविद्धधीः ।
ब्रुहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः ॥५॥
गृहेषु कुटधर्मेषु पुत्रदारधनार्थधीः ।
न परं विन्दते मूढो भ्राम्यन संसारवर्त्मसु ॥६॥
नारद उवाच
भो भोः प्रजापते राजन पशुनु पश्य त्वयाध्वरे ।
संज्ञापितात्र्जीवसंघन्निर्घृणेन सहस्त्रशः ॥७॥
एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव ।
सम्परेतमाः कुटैश्छिन्दन्त्युत्थितमन्यवः ॥८॥
अत्र ते कथयिष्येऽमुमितिहासं पुरातनम ।
पुरत्र्जनस्य चरित्रं निबोध गदतो मम ॥९॥
आसीत्पुरत्र्जनो नाम राजा राजन बृहच्छ्रवाः ।
तस्याविज्ञातनामाऽऽसीत्सखाऽविज्ञातचेष्टितः ॥१०॥
सोऽन्वेषमणः शरणं बभ्राम पृथिवीं प्रभुः ।
नानुरुपं यदाविन्ददभुत्स विमना इव ॥११॥
न साधु मेने ताः सर्व भुतले यावतीः पुरः ।
कामान कामयमानोऽसौ तस्य तस्योपपत्तये ॥१२॥
स एकदा हिमवतो दक्षिणेष्वथ सानुषु ।
ददर्श नवभिर्द्वार्भिः पुरं लक्षितलक्षणाम ॥१३॥
प्राकरोपवनाट्टालपरिखैरक्षतोरणैः ।
सर्णरौपायसै श्रृगैह संकुलां सर्वतो गृहैः ॥१४॥
नीलस्फटिकवैदुर्यमुक्तामरकतारुणैः ।
क्लृप्तहर्म्यस्थलीं दीप्तांश्रियां भोगवतीमिव ॥१५॥
सभाचत्वरथ्यभिराक्रिडायतनापणैः ।
चैत्यध्वजपताकाभिर्युक्तां विद्रुमवेदिभिः ॥१६॥
पुर्यास्तु बाह्मोपवने दिव्यद्रुमलताकुले ।
नदद्विहंगालिकुलकोलाहलजलाशये ॥१७॥
हिमनिर्झरविप्रुष्मत्कुसुमाकरवायुना ।
चलत्प्रवालविटपनलिनीतटसम्पादि ॥१८॥
नानारण्यमृगव्रातैरनाबाधे मुनिव्रतै ।
आहुंतं मन्यते पान्थो यत्र कोकोलकुजितैः ॥१९॥
यदृच्छयाऽऽगतां तत्र ददर्श पमदोत्तमाम ।
भृत्यैर्दशभिरायान्तीमेकैकशतनायकैः ॥२०॥
पंचशीर्षाहिना गुप्तां प्रतीहारेण सर्वतः ।
अन्वेषमाणामृषभमप्रौढां कामरुपिणीम ॥२१॥
सुनासां सुदतीं बालां सुकपोलां वराननाम ।
समविन्यस्तकर्णाभ्यां बिभ्रतीं कुण्डलश्रियम ॥२२॥
पिंशगंनीवीं सुश्रोणी श्यामां कनकमेखलाम ।
पद्भ्यां क्वणद्बभ्यां चलतीं नूपुरैर्देवतामिव ॥२३॥
स्तनौ व्यत्र्जितकैशारौ समवृतौ निरन्तरौ ।
वस्त्रान्तेन निगृहन्तीं व्रीड्या गजगामिनीम ॥२४॥
तामाह ललितं वीरः सव्रीडस्मितशोभनाम ।
स्निग्धेनापांगपुखेनः स्पृष्ट प्रेमोदभ्रमदभ्रुवा ॥२५॥
का त्वं कत्र्जपलाशाक्षि कस्यासीह कुतः सति ।
इमामुपपुरी भीरु किम चिकीर्षसि शंस मे ॥२६॥
क एतेऽनुपथा ये त एकादश महाभटाः ।
एता वा ललनाः सुभ्रु कोऽयं तेऽहिं पुरः सरः ॥२७॥
त्वं ह्रीर्भवान्यस्यथ वाग्रमा पतिं विचिन्वती किं मुनिवद्रहो वने ।
त्वदंगघिर्कामात्पसमस्तकामं क्व पद्मकोशः पतितः कराग्रात ॥२८॥
नासां वरोर्वन्यतमा भुविस्पृक पुरीमिमां वीरवरेण साकम ।
अर्हस्यलंकर्तुमदभ्रकर्मणा लोकं परं श्रीरिव यज्ञपुंसा ॥२९॥
यदेष मापांगविखड्णितेन्द्रियं सव्रीडभावस्मिताविभ्रमदभ्रुवा ।
त्वयोपसृष्टो भगवान्मनोभवः प्रबाधतेऽथानुगृहाण शोभने ॥३०॥
त्वदाननं सुभ्रु सुतारलोचनं व्यालम्बिनीलालकवृन्दसंवृतम ।
उन्नीय मे दर्शन वल्गुवाचकं यदवीड्या नाभिमुखं शुचिस्मिते ॥३१॥
नारद उवाच
इत्थं पुरत्र्जनं नारी याचमानमधीरवत ।
अभ्यनन्दत तं वीरं हसन्ती वीर मोहिता ॥३२॥
न विदाम वयं सम्यक्वर्तारं पुरुषर्षभ
आत्मनश्च परस्यापि गोत्रं नाम च यत्कृतम ॥३३॥
इहाद्य सन्तमात्मानं विदाम न ततः परमः ।
येनेयं निर्मिता वीर पुरी शरणमात्मनः ॥३४॥
एते सखायः सख्यो मे नरा नार्यश्च मानद ।
सुप्तायां मयि जागर्ति नागोऽयं पालयन पुरीम ॥३५॥
दिष्ट्याऽऽगतोऽसि भद्रं ते ग्राम्यान कामानभीप्ससे ।
उद्वहिष्यामि तांस्तेऽहं स्वबन्धुभिररिन्दम ॥३६॥
इमां त्वमधितिष्ठस्व पुरीं नवमुखीं विभो ।
मयोपनीतान गृह्नानः कामभोगान शतं समाः ॥३७॥
कं नु त्वदन्यं रमये ह्यारतिज्ञमकोविदम ।
असम्परायाभिमुखमश्वस्तनविदं पशुम ॥३८॥
धर्मो ह्यात्रार्थकामौ च प्रजानन्दोऽमृतं यशः ।
लोका विशोका विरजा यान न केवलिनी विदुः ॥३९॥
पितृदेवर्षिमत्यांनां भुतानामात्मनश्च ह ।
क्षेम्यं वदन्ति शरणं भवेऽस्मिन यद गृहाश्रमः ॥४०॥
का नाम वीर विख्यांत वदान्यं प्रियदर्शनम ।
न वृणीत प्रियं मादृशी त्वादृशं पतिम ॥४१॥
कस्या मनस्ते भुवि भोगिभोगयोः स्त्रिया न सज्जेद्भुजयोर्महाभुज ।
योऽनाथवर्गाधिमलं घृणोद्धत स्मितावलोक्न चरत्यपोहितुम ॥४२॥
नारद उवाच
इति तौ दम्पती तत्र समुद्य समयं मिथः ।
तां प्रविश्य पुरीं राजन्मुमुदाते शतं समाः ॥४३॥
उपगीयमानो ललितं तत्र तत्र च गायकैः ।
क्रीडन परिवृतः स्त्रीभिर्ह्रदिनीमाविशच्छुचौ ॥४४॥
सप्तोपरि कृता द्वारः पुरस्तस्यास्तु द्वे अधः ।
पृथग्विषयगत्यर्थं तस्यां यः कश्चनेश्वरः ॥४५॥
पंच द्वारस्तु पौरस्त्या दक्षिणैका तथोत्तरा ।
पश्चिमे द्वे अमुषां ते नामानि नृप वर्णये ॥४६॥
खद्योताऽऽविर्मुखी च प्रागद्वारावेकत्र निर्मिते ।
विभ्राजितं जनपदं याति ताभ्यां द्युमत्सखः ॥४७॥
नलिनी नालिनी च प्रागद्वारावेकत्र निर्मिते ।
अवधुतसखस्ताभ्यां विषयं याति सौरभम ॥४८॥
मुख्या नाम पुरस्ताद द्वास्तयाऽऽपणबहुदनौ ।
विषयौ याति पुरराड्रसज्ञविपणान्वितः ॥४९॥
पितृहुर्नृप पुर्या द्वार्दक्षिणेन पुरत्र्जनः ।
राष्ट्रं दक्षिणपत्र्चांल याति श्रुतधरन्वितः ॥५०॥
देवहुर्नाम पुर्या द्वा उत्तरेण पुरत्र्जनः ।
राष्ट्रमुत्तरपंचालं याति श्रुतधरान्वितः ॥५१॥
आसुरी नाम पश्चाद द्वास्तया याति पुरत्र्जनः ।
ग्रामकं नाम विषयं दुर्मदेन समन्वितः ॥५२॥
निऋतिर्नाम पश्चाद दास्तया याति पुरत्र्जनः ।
वैशसं नाम विषयं लुब्धकेन समन्वितः ॥५३॥
अन्धावमीषां पौराणां निर्वाक्प्रेशस्कृतावुभौ ।
अक्षण्वतामधिपतिस्ताभ्यां याति करोति च ॥५४॥
स यर्ह्रान्तः पुरगतो विषुचीनसमन्वितः ।
मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम ॥५५॥
एवं कर्मसु संसक्तः कामात्मा वत्र्चितोऽबुधः ।
महिषी यद्यदीहेत तत्तदेवान्ववर्तत ॥५६॥
क्वचित्पिबन्त्यां पिबति मदिरां मदविह्वलः ।
अश्रन्त्यां क्वचिदश्राति जक्षत्यां सह जक्षति ॥५७॥
क्वचिद्वायति गायन्त्या रुदत्यां रुदति क्वचित ।
क्वचिद्धसन्त्या हसति जल्पन्त्यामनु जल्पति ॥५८॥
क्वचिद्धवति धावन्त्यां तिष्ठन्त्यामनु तिष्ठति ।
अनु शेते शयानायामन्वास्ते क्वचिदसातीम ॥५९॥
क्वचिच्छृणोति श्रृण्वान्त्यां पश्यन्त्यामनु पश्यति ।
क्वचिज्जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचितः ॥६०॥
क्वचित्त्व शोचतीं जायामनुशोचति दीनवत ।
अनु हृष्यति हृष्यन्त्यां मुदितामनु मोदते ॥६१॥
विप्रलब्धो महिष्यैवं सर्वप्रकृतिवत्र्चितः ।
नेच्छन्ननुकरोत्यज्ञः क्लेब्यात्क्रीडामृगो यथा ॥६२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां चतुर्थस्कन्धे पुरत्र्जनोपाख्याने पंचविंशोध्यायः ॥२५॥