नारद उवाच
स एकदा महेष्वासो रथं पंचाश्वमाशुगम ।
द्वीषं द्विचक्रमेकाक्षं त्रिवेणु पंचबन्धुरम ॥१॥
एकरश्म्येकदमनमेकनीडं द्विकुबरम ।
पंचप्रहरणं सत्पवरुथं पंचविक्रमम ॥२॥
हैमोपस्करमारुह्या स्वर्णवर्माक्षयेषुधिः ।
एकादशचमुनाथः पंचप्रस्थमगाद्वनम ॥३॥
चचार मृगयां तत्र दुप्त आत्पेषुकार्मुकः ।
विहाय जायामतदर्हा मृगव्यसनलालसः ॥४॥
आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रहः ।
न्यहनन्निशितैर्बाणैर्वनेषु वनगोचरान ॥५॥
तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान पशुन वने ।
यावदर्थमलं लुब्धो हन्यादिती नियम्यते ॥६॥
य एवं कर्म नियतं विद्वान कुर्वीत मानवः ।
कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते ॥७॥
अन्यथां कर्म कुर्वाणो मानारुढो निबध्यते ।
गुणप्रहाहपतितो नष्टप्रज्ञो व्रजत्यधः ॥८॥
तत्र निर्भित्रगात्राणां चित्रवाजैः शिलीमुखैः ।
विप्लवोऽभुद्दुः खितानां दुःसहः करुणात्मनाम ॥९॥
शशान वराहान महिषान गवयान रुरुशल्यकान ।
मेध्यानन्यांश्च विविधान विनिघ्नन श्रममध्यगात ॥१०॥
ततः क्षुत्पटपरिश्रान्तो निवृत्तो गृहमेयिवान ।
कृतस्नानोचिताहारः संविवेश गतक्लमः ॥११॥
आत्मनमर्हयाचंक्रे धुपालेपस्रगादिभिः ।
साध्वलंकृतसवांगों महिष्यामादधे मनः ॥१२॥
तृप्तो हृष्टः सुदृप्तश्च कन्दर्पाकृष्टामानसः ।
न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम ॥१३॥
अन्तः पुरस्त्रियोऽपृच्छद्विमना इव वेदिषत ।
अपि व कुशलं रामाः सेश्वरीणां यथा पुरा ॥१४॥
न तथैतर्हि रोचन्ते गृहेषु गृहसम्पदः ।
यदि न स्याद गृहे माता पत्नी वा पतिदेवता ।
व्यंगे रथ इव प्राज्ञः को नामासीत दीनवत ॥१५॥
क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे ।
या मामुद्धरते प्रज्ञां दीपयन्ती पदे पदे ॥१६॥
रामा ऊचुः
नरनाथ न जानीमत्स्वत्प्रिया यद्वयावस्यति ।
भुतले निरवस्तारे शयानां पश्य शत्रुहन ॥१७॥
नारद उवाच
पुरत्र्जनः स्वमहिंषीं निरीक्ष्यावधुताम भुवि ।
तत्संगोन्मथितज्ञानी वैक्लव्यं परमं ययौ ॥१८॥
सान्त्वयन श्लक्ष्णय वाचा हृदयेन विदुयता ।
प्रेयस्याः स्नेहसंरम्भालिगंमात्मनि नाभ्यगात ॥१९॥
अनुनिन्येऽथ शनकैर्वीरोऽनुनयकोविदः ।
पस्पर्श पादयुगलमाह चोत्सगंलालिताम ॥२०॥
पुरत्र्जन उवाच
नुनं त्वकॄतपुण्यास्ते भृत्या येष्वीश्वराः शुभे ।
कृतागस्स्वात्मसात्कृत्वा शिक्षादण्डं न युत्र्जते ॥२१॥
परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः ।
बालो न वेद तत्तन्वि बन्धुकृत्यममर्षणः ॥२२॥
सा त्वं मुखं सुदति सुभ्रवनुरागभार व्रीडाविलम्बविलसद्धसितावलोकम ।
नीलालकालिभिरुपस्कृतमुन्नसं नः स्वानां प्रदर्शन मनस्विनी वल्गुवाक्यम ॥२३॥
तस्मिन्दधे दममहं तव वीरपत्नी योऽन्यत्र भुसुर्कुलात्कृतकिल्बिषस्तम ।
पश्ये न वीतभय्मुन्मुदितं त्रिलोक्या मन्यत्र वै मुररिपोरितरत्र दासत ॥२४॥
वक्त्रं न ते वितिलकं मलिनं विहर्ष संरम्भभीममविमृष्टमतेतरागम ।
पश्ये स्तनावपि शिचोपहतो सुजातौ बिम्बाधरं विगतकुडकुमपंकरागम ॥२५॥
तन्मे प्रसीद सुहृदः कृतकिल्बिषस्य स्वैरं गतस्य मृगयां व्यसनातुरस्य ।
का देवरं वशगतं कुसुमास्त्रवेगविस्रस्तपौस्नमुशती न भजेत कृत्ये ॥२६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्य संहितायां चतुर्थस्कन्धे पुरत्र्जनोपाख्याने षडविंशोऽध्यायः ॥२६॥