नारद उवाच
इत्थं पुरत्र्जनं सम्यग्वशमानीय विभ्रमैः ।
पुरत्र्जनी महाराज रेमे रमयती पतिम ॥१॥
स राजा महिषीं राजन सुस्नातां रुचिराननाम ।
कृतस्वस्त्ययनां तृप्तामभ्यनन्ददुपागताम ॥२॥
तयोपगुढ ; परिरब्धकन्धरो रहोऽनुमन्त्रैरपकृष्टचेतनः ।
न कालंरंहो बुबुधे दुरत्ययं दिवा निशेति प्रमादापरिग्रहः ॥३॥
शयान उन्नद्धमदो महामहा महार्हतल्पे महिषीभुजोपधिः ।
तामेव वीरो मनुते परं यतस्तमोऽभिभुतो न निज परं च यत ॥४॥
तयैवं रममाणस्य कामकश्मलचेतसः ।
क्षणार्धमिव राजेन्द्र व्यतिक्रान्तं नवं वयः ॥५॥
तस्यामजनयत्पुत्रान पुत्रत्र्जन्यां पुरत्र्जनाः ।
शतान्येकादश विराडायुषोऽर्धमथात्यगात ॥६॥
दुहितृर्दशोत्तरशतं पितृमातृयशस्करीः ।
शीलौदार्यगुणोपेताः परित्र्जन्यः प्रजापते ॥७॥
स पंचालपतिः पुत्रान पितृवंशविवर्धनान ।
दारईः संयोजयामासदुहितृः सदृशैवरैः ॥८॥
पुत्राणां चाभवन पुत्रा एकैकस्य शतं शतम ।
यैर्वै पौरत्र्जनो वंशः पंचालेषु समेधितः ॥९॥
तेषु तद्रिक्थहारेषु गृहकोशानुजीविषु ।
निरुढेन ममत्वेन विषयेष्वन्वबन्धत ॥१०॥
ईजे च क्रतुभिर्घोरेर्दीक्षितः पशुमारकैः ।
देवान पितृन भुतपतीन्नानाकामो यथा भवान ॥११॥
युक्तेष्वेवं प्रमत्तस्य कुटुम्बासक्तचेतसः ।
आससाद स वै कालो योऽप्रियः प्रिययोषिताम ॥१२॥
चन्डवेग इति ख्यातो गन्धर्वाधिपतिर्नुप ।
गन्धर्वास्त्स्य बलिनः षष्टत्तरशतत्रयम ॥१३॥
गन्धर्वस्तादृशीरस्य मैथुन्यश्च सितासिताः ।
परिवृत्या विलुम्पन्ति सर्वकामविनिर्मिताम ॥१४॥
ते चण्डवेगानुचराः पुरंजनपुरं यदा ।
हर्तुमारेभिरे तत्र प्रत्यषेधत्प्रजागरः ॥१५॥
स सप्तभिः शतैरेको विंशत्या च शतं समाः ।
पुरत्र्जनपुराध्यक्षो गन्धर्वैर्युयुधे बली ॥१६॥
क्षीयमाणे स्वसम्बन्धे एकस्मिन बहुर्भिर्युधा ।
चिन्तां परां जगामार्तः सराष्ट्रपुरबान्धवः ॥१७॥
स एव पुर्यां मधुभुक्पंचालेषु स्वपार्षदैः ।
उपनीतं बलिं गृह्णन स्त्रीजिता नाविदद्भयम ॥१८॥
कालस्य दुहिता काचित्त्रिलोकीं वरमिच्छती ।
पर्यटन्ती न बर्हिष्मन प्रत्यनन्दत कश्चन ॥१९॥
दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा ।
या तृष्टा राजर्षये तु वृतादात्पुरवे वरम ॥२०॥
कदचिदटमाना सा ब्रह्मालोकान्महीं गतम ।
वव्रे बृहदव्रतं मां तु जानती काममोहिता ॥२१॥
मयि सरंभ्य विपुलमदाच्छापं सुदुःसहम ।
स्थतुमर्हसि नैकत्र मदयात्र्जाविमुखो मुने ॥२२॥
ततो विहतसंकल्पा कन्यका यवनेश्वरम ।
मयोपदिष्टमासाद्य वव्रे नाम्रा भयं पतिम ॥२३॥
ऋषभं यवनानां त्वां वृणो वीरेप्सितं पतिम ।
संकल्पस्त्वयि भुतानां कृतः किल न रिष्यति ॥२४॥
द्वाविमावनुशोचन्ति बालावसदवग्रहौ ।
यल्लोकशास्त्रोपनतं न राति न तदिच्छति ॥२५॥
अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु ।
एतावान पौरुषो धर्मो यदार्ताननुकम्पते ॥२६॥
कालकन्योदितवचो निशम्य यवनेश्वरः ।
चिकीर्षुदेवगुह्नां स सस्मितं तामभाषत ॥२७॥
मया निरुपितस्तुभ्यं पतिरात्मसमाधिना ।
नाभिनन्दति लोकोऽयं त्वामभद्रमसम्मताम ॥२८॥
त्वमव्यक्तगतिर्भुडक्ष्व लोकं कर्मविनिर्मितम ।
याहि मे पृतनायुक्त प्रजानाशं प्रणेष्यसि ॥२९॥
प्रज्वारोऽयं मम भ्रांता त्वं च मे भगिनी भव ।
चराम्युभाभ्यां लोकेऽस्मिन्नव्यक्ती भीमसैनिकः ॥३०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरत्र्जनोपाख्याने सप्तविंशोऽध्यायः ॥२७॥